________________
वक्षस्कारः-३
-
२०७
अथ प्रकृतं प्रस्तूयते-‘वत्थुपरिच्छाए'त्ति, अत्र चशब्दोऽध्याहार्यस्तेन वास्तुपरीक्षायां च विधिज्ञमिति योज्यं। ॥१॥ "गृहमध्ये हस्तमितं खात्मा परिपूरितं पुनः श्वभ्रम् ।
यद्यूनमनिष्टं तत् समे समं धन्यमधिकं चेत् ॥" इत्यादि, अथवा वास्तूनां परिच्छदे-आच्छादनं-कटकम्बादिभिरावरणं तत्र विधिज्ञं यथार्हकटम्बादिविनियोजनातू, तथा नेमिपार्वेषु-सम्प्रदायगम्येषुभक्तशालास-रसवतीशालासु कोट्टनीषु-कोढें-दुर्गस्थायिराजसत्कंनयन्ति-प्रापयन्ति यायिराज्ञामिति व्युत्पत्या कोट्टन्यः-याः कोट्टग्रहणाय प्रतिकोट्टभित्तय उत्थाप्यन्ते तासु, चशब्दः समुच्चये, तथा वासगृहेषु-शयनगृहेषु विभागकुशलं-यथौचित्येन विभाजकं, चःसमुच्चये, तथाछेद्यं-छेदनाह काष्ठादिवेध्यं वेधनार्ह तदेवचः समुच्चयेदानकर्म-अनार्थंगिरिकरक्तसूत्रेण रेखादानंतत्रप्रधानबुद्धि, तथाजलगानांजलगतानां भूमिकानांजलोत्तरणार्थकपद्याकरणाय भाजनं-यथौचित्येन विभाजकं, चःसमुच्चये, उन्मग्नानिमग्नानद्याधुत्तरे तस्यैताशसामर्थ्यस्य सुप्रतीतत्वात्, जलस्थलयोः सम्बन्धिनीषुगुहास्विव गुहासुसुरङ्गास्वित्यर्थः तथा यन्त्रेषु-घटीयन्त्रादिषुपरिखासु-प्रतीतासु, चः पूर्ववत् कालज्ञानेचिकीर्षितवास्तुप्रशस्ताप्रशस्तलक्षणपरिज्ञाने। ॥१॥ “वैशाखे श्रावणे मार्गे, फाल्गुने क्रियते गृहम् ।
__ शेषमासेषु न पुनः, पौषो बाराहसम्मतः॥" इत्यादिके, तथैवेति वाच्यान्तरसंग्रहे शब्दे-शब्दशास्त्र सर्वकलाव्युत्पत्तेरेतन्मूलकत्वात् वास्तुप्रदेशे-गृहक्षेत्रैकदेशे। ॥१॥ “ऐशान्यां देवगृहं महानसंचापि कार्यमाग्नेय्याम् ।
नैऋत्यां भाण्डोपस्करोऽर्थधान्यानि मारुत्याम्॥" इत्यादिगृहावयवविभागे शास्त्रक्तविधिविधाने प्रधानं-मुख्यं गर्भिण्यो-जातगर्भा डोडकिता वल्लयः फलाभिमुखवल्लय इत्यर्थः कन्या इव कन्याः-अफला अथवा दूरफला वा वल्लयः वृक्षाश्चवास्तुक्षेत्रप्ररूढावल्लिवेष्टितानि-भावे क्तप्रत्ययविधानात्वल्लिवेष्टनानि-वास्तुक्षेत्रोद्गतवृक्षेष्वारोहणानि एतेषां ये गुणदोषास्तेषां विज्ञायकं-विशेषज्ञ, ते चेमे-“गर्भिणीवल्लिास्तुप्ररूढा आसन्नफलदा, कन्या च सा तत्रैव नासन्नफला, वृक्षाश्च प्लक्षवटाश्वत्थोदुम्बराः प्रशस्ताःआसन्नाः कण्टकिनोरिपुभयदा" इत्यादि,प्रहशस्तद्रुमकाष्ठं वागृहादिप्रशस्तंवल्लिवेष्टितानि प्रशस्तवल्लिसम्बन्धीनि प्रशस्तानि गृहमहीषुनचाप्रशस्तवल्लिसम्बधीनि, एनमेवार्थमाह वराहः
॥१॥"शस्त्रोषधिद्रुभलतामधुरा सुगन्धा, स्निग्धा समान शुषिरा च मही नृपानाम् ___ अप्यध्वनि श्रमविनोदमुपागतानां, धत्ते श्रियं किमुत शाश्वतमन्दिरेषु ॥"
पुनस्तदेव विशेषयन्नाह-गुणाढ्यः-प्रज्ञाधारणाबुद्धिहस्तलाघवादिगुणवान् षोडश प्रासादाः-सान्तनस्वस्तिकादयो भूपतिगृहाणि तेषां करणे कुशलः, चतुःषष्टिविकल्पाः गृहाणां वास्तुप्रसिद्धाःतत्रविस्तृता-अमूढामतिर्यस्यसतथा, विकल्पानां चतुःषष्टिरेवं-प्रमोदविजयादीनि षोडशगृहाणि पूर्वद्वाराणि स्वस्तनादीनि षोडश दक्षिणद्वाराणि धनदादीनिषोडश उत्तरद्वाराणि दुर्भगादीनि षोडश पश्चिमद्वाराणि सर्वमीलने चतुःषष्टिरिति, नन्द्यावर्ते गृहविशेषे एवमग्रेत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org