________________
-
१९४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/६१ वृ.'तएणंसे' इत्यादि, ततस्तद्दिव्यंचक्ररत्नंअष्टाहिकायांमहामहिमायांनिर्वृतायां-जातायां सत्यांआयुधगृहशालातः प्रतिनिष्कामति, प्रतिनिष्क्रम्यच अन्तरिक्ष प्रतिपन्नं-नभःप्राप्तं, यक्षसहनसंपरिवृतं-चक्रधरचतुर्दशरलानांप्रत्येकं देवसहस्राधिष्ठितत्वात्, दिव्यत्रुटितशब्दसन्निनादेन पूर्वव्याख्यातेन आपूरयदिवाम्बरतलं-शब्दाद्वैतं नमः कुर्वदिवेत्यर्थः, विनीतायाः राजधान्याः मध्यंमध्येनमध्यभागेनेत्यर्थः निर्गच्छति, निर्गत्यचगङ्गानाम्न्यामहानद्यादाक्षिणात्ये कूले उभयत्र णंशब्दो वाक्यालंकारे समुद्रपार्श्ववर्तिनि तटे इत्यर्थः, अयं भावः-विनीतासमश्रेणौ हि प्राच्या वहन्ती गङ्गा मागधतीर्थस्थाने पूर्वसमुद्रं प्रविशति, इदमपि मागधतीर्थसिसाधयिषया पूर्वां दिशं यियासुः अनुनदीतटमेव गच्छति, तच तटं दक्षिणदिग्वर्तित्वेन दाक्षिणात्यमिति व्यवहियते, अत एव दाक्षिणात्येन कूलेन पूर्वां दिशं मागधतीर्थाभिमुखं प्रयातं-चलितं चाप्यभवत्, एतच्च प्रयाणप्रथमदिनेयावत् क्षेत्रमतिक्रम्य स्थितंतावद्योजनमितिव्यवहयते, तच्च प्रमाणाङ्गुलनिष्पन्नतया भरतचक्रिणः स्कन्धावारः स्वशक्त्यैव निर्वहति, अन्येषां तु दिव्यशक्त्या इति वृद्धाः, ___'तएणमित्यादि, उक्तार्थप्रायं, किमवादीदित्याह-खिप्पामेव त्तिक्षिप्रमेवभोदेवानुप्रिया आभिषेक्यं-अभिषेकयोग्यं हस्तिरलंपट्टहस्तिनमिति भावःप्रतिकल्पयत-सज्जीकुरुत, हयगजरथप्रवरयोधकलितां चतुरङ्गिनी, अत्र चतुःशब्दस्याऽऽत्वं प्राकृतसूत्रेण, उक्तैरेवाङ्गैश्चतुःप्रकारां सेनां सन्नाहयत-सत्रद्धां कुरुत, शेषं प्राग्वत्, 'तए णमित्यादि, अत्र यावतशब्दात् 'पुरिसा भरहेणंरन्ना एवंवुत्तासमाणा हट्टतुट्ठचित्तमानंदिआ' इति ग्राह्यं, इदं चाभ्युपगमसूत्रमिश्रमाज्ञाकरणसूत्रस्पष्टमिति, अथ भरतो दिग्यात्रायियासयायंविधिमकार्षीत्तमाह-'तएण'मित्यादि, स्नानसूत्रं पूर्ववत्, ‘हये त्यादि, हयगजरथाः प्रवराणि वानानि-वेसरादीनि भटा-योद्धारस्तेषां चडगरपहकरत्ति-विस्तारवृन्दं, इदं च देशीशब्दद्वयं, तेन संकुलया-व्याप्तया सेनया सार्द्धमिति शेषः, प्रथितकीर्तिर्भरतोयत्रैव बाह्योपस्थानशाला यत्रैवचाभिषेक्यं हस्तिरलं तत्रैवोपागच्छति उपागत्य चअजनगिरेः कटको-नितम्बभागस्तत्सन्निभमेतावत्प्रमाणमुच्चत्वेनेत्यर्थः गजपति-राजकुञ्जरंनरपतिदुरुढेइति-आरूढइति।आरूढश्चकीशयाऋद्धयाचक्ररत्नोपदर्शितंस्थानंयातितदाह
'तएणमित्यादि, ततः स भरताधिपो-भरतक्षेत्रपति सच भरताधिपदेवोऽप्यतो नरेन्द्रः प्रस्तावादृषभसूनुः चक्री इत्यर्थः, एतेनास्यैवालापकस्योत्तरसूत्रे नरिंदेत्तिपदेन न पौनरुक्त्यमिति, 'हारोत्थये त्यादि विशेषणत्रयंप्राग्वत्, नरसिंहः सूरत्वात्, नरपति स्वामित्वात्, नरेन्द्रः परमैश्वर्ययोगात्, नरवृषभः स्वीकृतकृत्यभरनिर्वाहकत्वात्, 'मरुद्राजवृषभकल्पो मरुतो-देवाव्यन्तरादयस्तेषां राजानः-सन्निहितादय इन्द्रास्तेषांमध्ये वृषभा-मुख्याः सौधर्मेन्द्रादयस्तत्कल्पः-तत्सध्श इत्यर्थः, अभ्यधिकराजतेजोलक्ष्मयादीप्यमानइति स्पष्टं, प्रशस्तैर्मङ्गलशतैः मङ्गलसूचकवचनैः कृत्वास्तूयमानोबन्दिभिरितिशेषः, 'जयसद्दकयालोए' इतिप्राग्वत्, हस्तिस्कन्धवरंगतः-प्राप्तः, केन सहेत्याह-“सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन सह, कोऽर्थः ? ।
यदा नृपो हस्तिस्कन्धगतो भवति तदा छत्रमपि हस्तिस्कन्धगतमेव ध्रियते, अन्यथा छत्रधरणस्यासकतत्वात, एवं श्वेतवरचामरैरुद्धूयमानैः-वीज्यमानैःसह इति, तेन गयवईनरवई दुरुढे इति पूर्वसूत्रेण सहास्य भेदः, अधिकार्थप्रस्तावनार्थकत्वादस्य यक्षाणां-देवविशेषाणा सहस्राभ्यांसपरिवृतः, चक्रवर्तिशरीरस्य व्यन्तरदेवसहस्राद्वयाधिष्ठितत्वात्, 'वेसमणेचेवधनवईति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org