________________
१८८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/५६ राजादेशनिवेदकाः सन्धिपालाःराज्यसन्धिरक्षकाः, एषांद्वन्द्वस्ततस्तैः, अत्रतृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध-सहन केवलं तत्सहितत्वमेव अपितु तैः समिति समन्तात परिवतः-परिकरित इति, नरपतिर्मज्जनगृहात् प्रतिनिष्कामतीति सम्बन्धः, किम्भूतः ? प्रियदर्शनः, क इव।
___ - धवलमहामेघः-शरन्मेघस्तस्मानिर्गत इव, अत्र यावत्पदात् 'गहगणदिप्पंतरिक्खतारागणाण मज्झे' इति संग्रहः, तेन शशिपदाग्रस्थ इवशब्दो ग्रहगणेति विशेषणेन योज्यः, ततोऽयमर्थः सम्पन्न उपमानिर्वाहाय-यथा चन्द्रः शरदभ्रपटलनिर्गत इव ग्रहगणानां दीप्यमानऋक्षाणां-शोभमाननक्षत्राणांतारागणस्य चमध्ये वर्तमान इव प्रियदर्शनोभवति तथा भरतोऽपि सुधाधवलान्मज्जनगृहान्निर्गतोऽनेकगणनायकादिपरिवारमध्येवर्तमानः प्रियदर्शनोऽभवत्, पुनः कीद्दशो नृपति प्रतिनिष्कामतीत्याह-धूपपुष्पगन्धमाल्यानि पूजोपकरणानि हस्तगतानि यस्य सतथा,तत्रधूपोदशाङ्गादि पुष्पाणि-प्रकीर्णककुसुमानिगन्धा-वासाः माल्यानि-ग्रथितपुष्पाणीति, प्रतिनिष्क्रम्य च किं कृतवानित्याह- 'जेणेव'इत्यादि, यत्रैवायुधगृहशाला यत्रैवच चक्ररत्नं तत्रैव प्रधारितवान् गमनाय गन्तुं प्रावर्तत इत्यर्थः ।
अथ भरतगमनानन्तरं यथा तदनुचराश्चक्रुस्तथा- ऽऽह-'तए ण'मित्यादि, ततोभरतागमनादनु तस्य भरतस्य राज्ञोबहव ईश्वरप्रभृतयःयावत्पदसंग्राह्यास्तलवरप्रभृतयः पूर्ववत् अपि ढार्थे एके केचन पद्महस्तगताः एके केचन उत्पलहस्तगताः, एवं सर्वाण्यपि विशेषणानि वाच्यानि, यावत्पदात् 'अप्पेगइआकुमुअहत्थगयाअप्पेगइया नलिणहत्थगयाअप्पेगइया सोगन्धिअहत्थगयाअप्पेगइया पुंडरीयहत्थगयाअप्पेगइआसहस्सपत्तहत्थगया' इति संग्रहः, अत्र व्याख्या प्राग्वत्, नवरंभरतंराजानं पृष्ठतः पृष्ठतोऽनुगच्छन्ति, पृष्ठे २ परिपाट्या चलन्तीत्यर्थः, सर्वेषामपि सामन्तानामेकैववैनयिकी गतिरिति ख्यापनार्थं वीप्सायां द्विर्वचनं, न केवलं सामन्तनृपा एव भरतमनुजग्मुः, किन्तु किङ्करीजनोऽपीत्याह
'तएणमित्यादि, ततः सामन्तनृपानुगमनानन्तरंतस्य भरतस्य राज्ञः सम्बन्धिन्यो बह्वयो दास्यो भरतं राजानं पृष्ठतोऽनुगच्छन्तीति सम्बन्धः, कास्ता इत्याहमू. (५७) खुज्जा चिलाइ वामणिवडबीओ बब्बरी बउसिआओ।
जोणिअपल्हविआओ ईसिणिअथारुकिणिआओ। वृ.कुब्जाः-कुब्जिका वक्रजङ्घाइत्यर्थः चिलात्यः-चिलातदेशोत्पन्नाः वामनिका अत्यन्त ह्रस्वदेहा ह्रस्वोन्नतहदयकोष्ठा वा वडभिका-महडकोष्ठा वक्राधःकाया वा इत्यर्थः बर्यो बर्बरदेशोत्पन्नाः बकुशिकाः-बकुशदेशजाः जोनिक्यो-जोनकनामकदेशजाः पल्हविकाः-पल्हवदेशजाः ईसेणिआ थारुकिणिआओत्ति देशद्वयभवाः ईसिनिकाः थारुकिनिकाः। मू. (५८) लासिअलससिअदमिलीसिंहलि तह आरबीपुलिंदी अ।
__ पक्कंणि बहलि मुरुंडी सबरीओ पारसीओ अ॥ वृ. लासिक्यो-लासकदेशजाः लकुशिक्यो-लकुशदेशजाः द्रविडयो-द्रविडदेशजाः सिंहल्यः-सिंहलदेशजाः आरब्यः-आरबदेशजा पुलिन्द्यः-पुलिन्द्रदेशजाः पक्वण्यः-पक्वणदेशजाः बहल्यो-बहलिदेशजाः मुरुण्डयो-मुरुंडदेशजाः शबर्यः-शबरदेशजाः पारसीकाःपारसदेशजाः, अत्र चिलात्याहयोऽष्टादशपूर्वोक्तरीत्या तत्तदेशोद्भवत्वेन तत्तन्नामिका ज्ञेयाः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org