________________
१८४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/५६ वृ. 'तएण'मित्यादि, ततो-माण्डलिकत्वप्राप्तेरनन्तरंतस्यभरस्य राज्ञोऽन्यदा कदाचित् माण्डलिकत्वं भुआनस्य वर्षसहस्र गते इत्यर्थः, आयुधगृहशालायां दिव्यं चक्ररत्नं सुदपद्यत, 'तएणं से इत्यादि, ततः-चक्ररलोत्पत्तेरन्तरं सः-आयुधगृहिको यो भरतेन राज्ञाआयुधाध्यक्षः कृतोऽस्तीति गम्यं भरतस्य राज्ञः आयुधगृहशालायां दिव्यंचक्ररत्नं समुत्पन्नं पश्यति, पाच हृष्टतुष्टं-अत्यर्थं तुष्टं हृष्टं वा-अहो मया इदमपूर्वं दृष्टमिति विस्मितं तुष्टं-सुष्टु जातं यन्मयैव प्रतममिदमपूर्वं दृष्टं यन्निवेदनेन स्वस्वामी प्रीतिपात्रं करिष्यति इति सन्तोषमापनं चित्तं यत्र तद यथा भवति तथा आनन्दितः-प्रमोदं प्राप्तः यद्वा हृष्टतृष्टः-अतीव तुष्टः तथा चित्तेन आनन्दितः मकार-प्राकृतत्वात् अलाक्षणिकः ततः कर्मधारयः नन्दितो-मुखसोमतादिभावैः समृद्धिमुपागतः प्रीति-प्रीणनंमनसि यस्य स तथा चक्ररले बहुमानपरायण इत्यर्थः परमं सौमनस्य-सौमनस्कत्वं जातमस्येति परमसौमनस्थितः, एतदेव दुष्टानि, यतः'वक्ता हर्षे'ति। ॥१॥ वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवन् तथा निन्दन्।
यत्पदमसकृत ब्रूयात् तत् पुनरुक्तं न दोषाय॥ यत्रैव तद्दिव्यं चक्ररत्नं तत्रैवोपागच्छति, उपागत्य च त्रिकृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणं-दक्षिणहस्तादारभ्य प्रदक्षिणं करोति, त्रिप्रदक्षिणयतीत्यर्थः, तथा कृत्वाच करतल त्ति अत्र यावत्पदात् 'करयलपरिग्गहिअंदसनहं सिरसावत्तं मत्थए अंजलिं'ति ।
अत्र व्याख्या करतलाभ्यांपरिगृहीतः-आत्तस्तं दशकरद्वयसम्बन्धिनोनखाः समुदिता यत्रतंशिरसि-मस्तके आवतः-आवर्तनं प्रादक्षिण्येन परिभ्रमणं यस्य तंशिरसाऽप्राप्तमित्यन्ये मस्तके अञ्जलिं-मुकुलितकमलाकारकरद्वयरूपं कृत्वा चक्ररत्नस्य प्रनामं करोति, कृत्वा च आयुधगृहशालातः प्रतिनिष्कामति-निर्याति, प्रतिनिष्कम्य च यत्रैव बाहिरिका-आभ्यन्तरिकापेक्षया बाह्या उपस्थानशाला-आस्थानमण्डपो यत्रैव च भरतो राजा तत्रैवोपागच्छति, उपागत्य च ‘करतल जाव'त्ति पूर्ववत् जयेन-परानभिभवनीयत्वरूपेण विजयेन-परेषामसहमानानामभिभावकत्वरूपेण वर्द्धयति-जयविजयाभ्यांत्वंवर्द्धयस्येत्याशिषंप्रयुङ्क्तेवर्द्धयित्वा चैवमवादीत्, किं यदित्याह- ‘एवं खलु'इत्यादि, इत्थमेव यदुच्यते मया, न च विपर्यवादिना यदन्यथा भवति, यद्देवा- नुप्रियाणां-राजपादानां आयुधगृहशालायां दिव्यं चक्ररत्नं समुत्पन्नं तदेव तत् णमिति प्रागवत् देवानुप्रियाणां प्रियार्थतायै-प्रीत्यर्थं प्रियं-इष्टं निवेदयामः एतत्' प्रियनिवेदनं प्रियं 'भे' भवतां भवत, ततो भरतः किं चक्रे इत्याह-'तते न'मित्यादि, ततः स भरतो राजा तस्यायुधगृहिकस्य समीपे एनमर्थं श्रुत्वा-आकर्ण्य कर्णाभ्यां निशम्य-अवधार्य हृदयेन तुष्टो यावत्सौमनस्थितः प्राग्वत्, प्रमोदातिरेकाये ये भावा भरतस्य संवृत्तास्तान् विशेषणद्वारेणाहविकसितकमल-वनयनवदने यस्य स तथा प्रचलितानिचक्ररत्नोत्पत्तिश्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वरकटके-प्रधानवलये त्रुटिके-बाहुरक्षको केयूरे-बाह्वोरेव भूषणविशेषौ मुकुटं कुण्डलेचयस्यसतथा, सिंहावलोकनन्यायेन प्रचलितशब्दोग्राह्यः तेन प्रचलितहारेणविराजद्रतिदं च वक्षो यस्य स तथा, पश्चात् तदद्वयस्य कर्मधारयः, प्रलम्बमानः सम्भ्रमादेव प्रालम्बोझुम्बनकं यस्य स तथा, घोलद्-दोलायमानं भूषणं-उक्तातिरिक्तं धरति यः स तथा। ततः पदद्वयस्य कर्मधारयः अत्र पदविपर्यआर्षत्वात्, ससम्भ्रमं-सादरं त्वरितं-मानसौ
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only