________________
१६२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४७ हीयमानोऽत्रान्तरे दुष्षमसुषमा नाम्ना समा-कालः प्रत्यपद्यत हे श्रमण ! हे आयुष्मन् !, अथ पूर्वारकवद्भरतस्वरूपंप्रष्टुमाह-'तीसे ण मित्यादि, अथ तत्र मनुष्यस्वरूपप्रश्नमाह
तीसे णं'मित्यादि, इदं च सूत्रद्वयमपि प्रायः पूर्वसूत्रसद्दशगमकत्वात् सुगमं, नवरं जघन्येनान्तर्मुहूर्तामायुस्तत्कालीनमनुष्या उत्कृष्टंपूर्वकोटिमायुः पालयन्ति, पालयित्वाचपञ्चस्वपि गतिष्वतिथीभवन्ति, अथ पूर्वसमाप्तौ विशेषमाह
'तीसेणं'मित्यादि, तस्यां समायांत्रयोवंशाइव वंशाः-प्रवाहाः आवलिका इत्येकाथाःन तुसन्तानरूपाः परम्पराः, परस्परं पितृपुत्रपौत्रप्रपौत्रादिव्यवहाराभावात्, समुदपद्यन्त, तद्यथाअर्हद्वंशः चक्रवर्तिवंशः दशार्हाणां-बलदेववासुदेवानां वंशः, यदत्र दशारशब्देन द्वयोः कथनं तदुत्तरसूत्रबलादेव, अन्यथादशाहंशब्देन वासुदेवाएव प्रतिपाद्याभवन्ति, 'अहयंच दसाराण'मिति वचनात्, यत्तुप्रतिवासुदेववंशो नोक्तस्तत्रप्रायोऽङ्गानुयायीन्युपाङ्गानीति स्थानाङ्गे वंशत्रयस्येव प्ररूपणात्, येन हेतुना तत्रैवं निर्देशस्तत्रायं वृद्धाम्नायः-प्रतिवासुदेवानां वासुदेववध्यत्वेन पुरुषोत्तमत्वाविवक्षणात्, एनमेवार्थं व्यनक्तितस्यां समायां त्रयोविंशतिस्तीर्थकराः एकादश चक्रवर्तिनःऋषभभरतयोस्तृतीयारके भवनात्नव बलदेवानव वासुदेवाः ज्येष्ठबन्धुत्वात् प्रथम बलदेवग्रहणं उपलक्षणात् प्रतिवासुदेववंशोऽपि ग्राह्यः, गतश्चतुर्थोऽरकः, अथ पञ्चमः
मू. (४८) तीसे णं समाए एक्काए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआएकाले वीइक्कते अनंतेहिं वण्णपज्जवेहिं तहेव जाव परिहाणीए परिहायमाणे २ एत्थणं दूसमानामं समा काले पडिवजिस्सइ समणाउसो !, तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे भविस्सइ ?, गोअमा! बहुसमरमणिज्जे भूमिभागे भविस्सइ से जहानामए आलिंगपुक्खरेइ वा मुइंगपुक्खरेइ वा जाव नानामणिपंचवण्णेहिं कत्तिमेहिं चेव अकत्तिमेहिं चेव, तीसे णं भंते! समाए भरहस्स वासस्स मणुआणं केरिसए आयारभावपडोयारे पन्नते?, गो०! तेर्सि मणुआणं छविहे संघयणे छविहे संठाणे बहुइओ रयणीओ उद्धं उच्चत्तेणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं साइरेगं वाससयं आउअं पालेंति २ ता अप्पेगइआ निरयगामी जाव सव्वदुक्खाणमंतं करोति, तसे णं समाए पच्छिमे तिभागे गणधम्मे पासंडधम्मे रायधम्मे जायतेए धम्मचरणे अवोच्छिजिस्सइ।
वृतीसे णमित्यादि, तस्या समायां एकया सागरोपमकोटाकोटया द्विचत्वारिंशद्वर्षसहय़रूनितया-ऊनीभूतया, अनयैव प्रत्येकमेकविंशतिसहस्रवर्षप्रमाणयोः पञ्चमषष्ठारकयोः पूरणात्, काले व्यतिक्रान्तेऽनन्तैर्वर्णादिपर्यवैस्तथैव यावत् परिहाण्या परिहीयमाणा २, अत्र समये दुष्षमानाम्ना समा-कालः प्रतिपत्स्यते, वक्तुरपेक्षया भविष्यत्कालप्रयोगः, अथात्र भरतस्य स्वरूपं पृच्छन्नाह-'तीसेणं भंते! समाए भरह'इत्यादि, सर्वप्राग्व्याख्याता), नवरं भविष्यतीति प्रयोगः पृच्छकापेक्षया, अत्र भूमेर्बहुसमरमणीयत्वादिकं चतुर्थारकतो हीयमानं २ नितरां हीनं ज्ञातव्यं, ननु ‘खाणुबहुले कण्टकबहुले विसमबहुले' इत्यादिनाऽधस्तनसूत्रेण लोकप्रसिद्धेन च विरुध्यते, मैवं अविचारितचतुरं चिन्तयेः, यतोऽत्र बहुलशब्देन स्थाण्वादिबाहुल्यं चिन्तितं, न च षष्ठारक इवैकान्तिकत्वं, तेन च कचिद् गङ्गातटादौ आरामादौ वैतादयगिरितिकुनादौ वा बहुसमरमणीय-त्वादिकमुपलभ्यत एवेति न विरोधः, अथ तत्र मनुजस्वरूपं प्रष्टुकाम आह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org