________________
वक्षस्कारः - २
१६१
'ईसाण' त्ति ईशानो देवेन्द्र औत्तराहे अञ्जनके अष्टाहिकां तस्य लोकपाला औत्तराहाञ्जनकपरिवारकेषु चतुर्षु दधिमुखकेषु अष्टाहिकां, चमरश्च दाक्षिणात्येऽञ्जनके तस्य लोकपाला दधिमुखपर्वतेषु बलीवन्द्रः पाश्चात्येऽञ्जनके तस्य लोकपाला दधिमुखकेषु ततस्ते बहवो भवनपत्यादयो देवा अष्टाहिकाः महामहिमा - महोत्सवबूताः कुर्वन्तीति, बहुवचनं चात्राष्टाहिकानां सौधर्मेन्द्रादिभि पृथक् २ क्रियमाणत्वात्, 'करित्ता' इत्यादि अथाष्टाहिका महामहिमाः कृत्वा यत्रैव लोकदेशे स्वानि २ - स्वसम्बन्धीनि २ विमानानि यत्रैव स्वानि २ भवनानि - निवासप्रासादाः यत्रैव स्वाः २ सभाः --सुधर्मा यत्रैव स्वकाः २ - स्वसम्बन्धिनो २ माणवकनामानश्चैत्यस्तम्भाश्चैत्यशब्दार्थ प्राग्वत् तत्रैवोपागच्छन्ति उपागत्य च वज्रमयेषु गोलकेषु समुद्गकेषु वृत्तभाजनविशेषेषु जिनसक्थीनि प्रक्षिपन्तीति, सक्थिपदमुपलक्षणपरं तेन दशनाद्यपि यथार्हं प्रक्षिपन्तीति ।
अत्र ज्ञाताधर्मकथाङ्गोक्तमल्लिनाथनिर्वाणमहिमाधिकारगतसूत्रवृत्यनुसारेण माणवकस्तम्भाद्वृत्तसमुद्गकानवतार्य सिंहासने निवेश्य तन्मध्यवर्तीनि जिनसक्थीन्यपूपुजन्, वृषभजिनसक्थि च तत्र प्राक्षिपन्निति ज्ञेयं, प्रक्षिप्य च अग्रैः - प्रत्यग्रैवरैर्लाम्यैश्च गन्धैश्चार्चयन्ति, अर्चयित्वा च विपुलान्- भोगोचितान् भोगान् भुञ्जाना विहरन्ति - आसत इति, अत्राह परः - ननु चारित्रादिगुणविकलस्य भगवच्छरीरस्य पूजनादिकं पूर्वमपि ममान्तर्व्रणमिव बाधते, तदनु इदं जिनसक्थ्यादिपूजनं 'क्षते क्षार इव' सुतरां बाधते, मैवं वादीः ।
नामस्थापनाद्रव्यजिनानां भावजिनस्येव वन्दनीयत्वात्, तद भगवच्छीरीरस्य च द्रव्यजिनस्रूपत्वात्, सक्थ्यादीनां च तदवयवत्वाद् भावजिनादभेदेन वन्दनीयत्वमेव, अन्यथा गर्भतयोत्पन्नमात्रस्य भगवतः 'समणे भगवं महावीरे' इत्याद्यभिलापेन सूत्रकृतां सूत्ररचना शक्राणां शक्रस्तवप्रयोगादिकं च नोचितीमञ्चेदिति, अत एव जिनसक्थ्याद्याशातनाभीरवो हि देवास्तत्र कामासेवनादी न प्रवर्त्तन्ते इति गतस्तृतीयारकः । अथ चतुर्थारकस्वरूपं निरूप्यते
मू. (४७) तीसे णं समाए दोहिं सागरोवमकोडाकोडीहिं काले वीइक्कंते अनंतेहिं वणपज्जवेहिं तहेव जाव अनंतेहिं उट्ठाणकम्म जाव परिहायमाणे २ एत्थ णं दूसमसुसमानामं समा काले पडिवज्जिंसु समणाउसो !
तीसे णं भंते! सभाए भरहस्स वासस्स केरिसए आगारभावपडोआरे प० गो० बहुसमरमणिजे भूमिभागे प०, से जहानामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोमिए, तंजहा- कत्तिमेहिं चेव अकत्तिमेहिं चेव, तीसे णं भंते! समाए भरहे मणुआणं केरिसए आयारभावपडोयारे पं० ?, गो० ! तेसिं मणुआणं छव्विहे संघयणे छव्विहे संठाणे बहूइं धणूइं उद्धं उच्चत्तेणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी आउअं पालेति २ त्ता अप्पेगइआ निरयगामी जाव देवगामी अप्पेगइया सिज्झंति बुज्झंति जाव सव्वदुक्खाणमंतं करेति ।
तीसे णं सभाए तओ वंसा समुप्पज्जित्था, तंजहा - अरहंतवंसे चक्कवट्टिवंसे दसारवंसे, तीसे णं समाए तेवीसं तित्थयरा इक्कारस चक्वट्टी नव बलदेवा नव वासुदेवा समुप्पज्जित्था ।
वृ. 'तीसे ण' मित्यादि, तस्यां अनन्तरवर्णितायां समाया द्वाभ्यां सागरकोटाकोटीभ्यां द्वे सागरोपमकोटाकोटी इत्येवं प्रकारेण काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैस्तथैव द्वितीयारकप्रतिपत्तिक्रमवदज्ञेयं यावदनन्तैरुत्थानबलवीर्यपुरुषकारपराक्रमैरनन्तगुणपरिहाण्या हीयमानो
13 11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org