SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५८ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४६ मध्यंमध्येन-मध्यभागेन यत्रैवाष्टापदः पर्वतः यत्रैव भगवतस्तीर्थकरस्यशरीरकंतत्रैवोपागच्छति, अत्र सर्वत्रातीतनिर्देशे कर्तव्ये वर्तमाननिर्देशस्त्रकालभाविष्वपि तीर्थकरेष्वेतन्यायप्रदर्शनार्थ इति, न हि निर्हेतुका ग्रन्थकाराणां प्रवृत्तिरिति, उपागत्य च तत्र यत्करोति तदाह-'उवागच्छित्ता' इत्यादि, उपागत्य विमनाः-शोकाकुलमनाः अश्रुपूर्णनयनस्तीर्थकरशरीरकं त्रिकृत्वः आदक्षिणप्रदक्षिणंकरोतीतिप्राग्वत्, नात्यासने नातिदूरेशुश्रूषन्निवतस्मिन्नप्यवसरेभक्त्याविष्टतया भगवद्वचनश्रवणेच्छाया अनिवृत्तेः, यावत्पदात् ‘णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइत्ति परिग्रहः, अत्र व्याख्या नमस्यन् पञ्चाङ्गप्रनामादिना अभि-भगवन्तं लक्षीकृत्य मुखं यस्य स तथा विनयेनआन्तरबहुमाने प्राञ्जलिकृत इति प्राग्वत् पर्युपास्ते-सेवते इति, अथ द्वितीयेन्द्रवक्तव्यतामाह 'तेणंकालेण'मित्यादि, सर्वस्पष्टं, नवरंअरजांसि-निर्मलानियान्यम्बरवस्त्राणि-स्वच्छता आकाशकल्पानिवसनानि तानिधरतीति यावत्करणात् 'आलइअमालमउडेनवहेमचारुचित्तचंचल कुंडलविलिहिज्जमाणगल्ले महिद्धीए जाव महासुक्खे भासुरबोंदीपलंबवणमालधरे ईसान कप्पे ईसाणवडेंसए विमाणे सुहम्माए सभाए ईसाणंसिसिंहासणंसि सेणंअट्ठावीसाए विमाणावाससय साहस्सीणं असीईए सामानिअसाहस्सीणंतायत्तीसाए तायत्तीसगाणंचउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणंसपरिवाराणंतिण्हंपरिसाणंजाव चउण्हंअसीईणंआयरक्खदेवसाहस्सीणंअन्नेसिं चईसाणकप्पवासीणं देवाणं देवीण यआहेवच्चं पोरेवचं सामित्तं भट्टितं महत्तरगत्तंआणाईसरसेणावचंकारेमाणे पालेमामे महयाहयनट्टगीअवाइअतंतीतलतालतुडिअघणमुइंगपडुपडहवाइअरवेणं' इति संग्रहः, सर्वं स्पष्टं, नवरं आलगितौ-यथास्थानं स्थापितौ मालामुकुटौ येन स तथा, नवाभ्यामिव हेममयाभ्यांचारुभ्यां चित्रकृद्भ्यां चञ्चलाभ्यां इतस्ततश्चलद्भ्यां कुण्डलाभ्यां विलिख्यमानौ गल्लौ यस्य स तथेति । 'तएण'मित्यादि, यथाशक्रः सौधर्मेन्द्रो निजकपरिवारेण सह तथा भणितव्य ईशानेन्द्रः यावत्पर्युपास्तेइत्यन्तंवाच्य इत्यर्थः, एवंसवे' इत्यादि, एवं-शक्रन्यायेन सर्वेदेवेन्द्रावैमानिकाः अतएव यावदच्युतइत्युत्तरसूत्रसंवदति, निजकपरिवारेण-आत्मीयात्मीयसामानिकादिपरिवारेण सहानेतव्या-भगवच्छरीरान्तिकंप्रापणया ग्रन्थवाचकेनेत्यर्थः, ग्रन्थापेक्षया वेदं सूत्रं योजनीयं, एवं वैमानिकप्रकारेण यावद्भवनवासिनां-दक्षिणोत्तरभवनपतीनामिन्द्रा विंशतिरित्यर्थः, अत्र यावच्छब्दो न गर्भगतसंग्रहसूचकः सङ्ग्राह्यपदाभावात्, किन्तु सजातीयभवनपतिसूचकः, वानमन्तराणां-व्यन्तराणां षोडशेन्द्राः-कालादयः-ननु स्थनाङ्गादिषु द्वात्रिंशत्व्यन्तरेन्द्रा अभिहिताः, इह तुकथं षोडश?, उच्यते, मूलभेदभूतास्तुषोडश महर्द्धिकाः कालादय उपात्ताः तदवान्तरभेदभूतास्तुषोडशअणपन्नीद्रादयोऽल्पर्द्धिकत्वात् नह विवक्षिताः, अस्ति हि एषाऽपि सूत्रकृन्प्रवृत्तिर्विचित्रा यदन्यत्र प्रसिद्धा अपि भावाः कुतश्चिदाशयविशेषात् स्वसूत्रे सूत्रकारोन निबध्नाति, यथा प्रति- वासूदेवा अन्यत्रावश्यकनियुक्त्यादिषु उत्तमपुरुषत्वेन प्रसिद्धा अपि चतुर्थाङ्गे चतुष्पञ्चाशत्तमसम- वाये नोक्ताः “भरहेरवएसु णं वासेसु एगमेगाए ओसप्पिणीए चउवण्णं चउवणं (महापुरिसा) उप्पज्जिंसु वा ३ तं०-चउवीसं तित्थयरा बारस चक्कवट्टी नव बलदेवा नव वासुदेवा" इति, परमुपलक्षणात् तेऽपि ग्राह्याः । ज्योतिष्काणां द्वौ चन्द्रौ सूर्यो, www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy