________________
१५२
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २/४४
प्ररूपिताविति ज्ञेयं, भगवत्प्ररूपनामन्तरेणान्येषां तत्तदग्रन्थेषु तयोः प्ररूपणानुपपत्तेरित्यलं प्रसङ्गेनेति । अथावन्ध्यशक्तिकवचनगुणप्रतिबुद्धस्य प्रभुपरिकरभूतस्य संघस्य सङ्घयामाह'उसभस्स ण' मित्यादि, सुगमं, नवरं 'जस्स जावइआ गणहरा तस्स तावइआ गणा' । इति वचनाद् गणाः सूत्र साक्षादनिर्द्दिष्टा अपि तावन्त एव बोध्याः, कचिज्जीर्णप्रस्तुतसूत्रादर्शे 'चउरासीतिं गणा गणहरा होत्था' इत्यपि पाठो दृश्यते, तत्र तु चतुरशीतिपदस्योभयत्र योजनेन व्याख्या सुबोधैवेति, गणश्चैकवाचनाचारयतिसमुदायस्तं धरन्तीति गणधराः, वाचनादिभिर्ज्ञानादिसम्पदां सम्पादकत्वेन गणाधारभूता इति भावः, 'होत्था' इति अभवन्, 'उसभस्स ण' मित्यादि, ऋषभसेनप्रमुखानि चतुरशीति श्रमणसहस्राणि एषा उत्कर्ष - उत्कृष्टभागस्तत्र भवा उत्कर्षिकी 'प्रत्यये ङीर्वा' इत्यनेन ङीविकल्पे रूपसिद्धि, ऋषभस्य श्रमणसम्पदभवत्, अत्र वाक्यान्तरत्वेन श्रमणशब्दस्य न पौनरुक्त्यं, एव सर्वत्र योज्यं, 'उसहस्स ण' मित्यादि, प्रायः कण्ठयानि, नवरं चतुर्द्दशपूर्विसूत्रे 'अजिनानां' छद्मस्थानां 'सव्वक्खरसन्निवाईणं' ति सर्वेषामक्षराणां - अकारादीनां सन्निपाता- द्व्यादिसंयोगा अनन्तत्वादनन्ता अपि ज्ञेयतया विद्यन्ते येषां ते तथा ।
जिनतुल्यत्वे हेतुमाह - 'जिणो विव अवितह' मित्यादि, जिन इवावितथं - यथार्थं व्यागृणतांव्याकुर्वाणानां, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात्, चत्वारि सहस्राणि अर्द्धाष्टमानि च शतानि एषा औत्कर्षिकी चतुर्दशपूर्विसम्पदभवत्, 'विउव्विअ'त्ति वैक्रियलब्धिमन्तः, शेषं स्पष्टं, विपुलमतयो - मनः पर्यवज्ञानविशेषवन्तः द्वादश विपुलमतिसहस्राणि अधिकारात्तेषामेव षट् शतानि पञ्चाशच्चेत्येवं सर्वत्र योज्यं, वादिनो - वादिलब्धिमन्तः परप्रवादुकनिग्रहसमर्था, 'उसभस्स ण'मित्यादि, गतौ – देवगतिरूपायां कल्याणं येषां प्रायः सातोदयत्वात्तेषां तथा स्थिती - देवायूरूपायां कल्याणं येषां ते तथा अप्रवीचारसुखस्वामिकत्वात्, आगमिष्यद्भद्रंयेषांते आगामिभवे सेत्स्यमानत्वात् सेत्स्यमानत्वात् ते तथा तेषा 'अनुत्तरोपपातिकानां' पञ्चानुत्तरलवसप्तमदेवविशेषाणांद्वाविंशति सहस्राणि नव च शतानि, 'उसभस्स ण' मित्यादि, सुगमं, नवरं श्रणार्थिकासङ्ख्याद्वयमीलने अन्तेवासिसङ्ख्या सम्पद्यते । अथ भगवतः श्रमणवर्णकसूत्रमाह
'अरहंताणं०, अर्हतः ऋषभस्य बहवोऽन्ते - वासिनः- शिष्यास्ते च गृहिणोऽपि स्युरित्यनगाराः भगवन्तः पूज्या अपि समुच्चये एकका-एके अन्ये केचिदपीत्यर्थः मासं यावत् पर्यायः - चारित्रपालनं येषां ते तथा, यथौपपातिके सर्वोऽनगार - वर्णकस्तथाऽत्रापि वाच्यः, कियद्यावदित्याह - ऊर्ध्वं जानुनी येषां ते ऊर्ध्वजानवः शुद्धपृथिव्यासन- वर्जनादीपग्रहिकनिषद्याया अबावाञ्च्चोत्कटुकासना इत्यर्थः, अधः शिरसो - अधोमुखाः नोर्द्धतिर्यग्वा विक्षिप्तष्ध्ष्टयः ध्यानरूपो यः कोष्ठः - कुसूलस्तमुपागताः -तत्र प्रविष्टाः यथाहि - कोष्ठके धान्यं प्रक्षिप्तं न विप्रसृतं भवति एवं तेऽ नगारा विषयेष्वविप्रसृतेन्द्रियाः स्युरिति, संयमेन संवररूपेण तपसा - अनशनादिना, चः समुचयार्थी गम्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्रधानत्वं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्म्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्म्मक्षपणाच सकलकर्म्मक्षयलक्षणो मोक्ष इति, आत्मानं भावयन्तो वासयन्तो विहरन्ति, तिष्ठन्तीत्यर्थः, अत्र यावत्पदसंग्राह्यः 'अप्पेगइया दोमासपरिआया' इत्यादिकः, अथ ऋषभस्वामिनः केवलोत्पत्यनन्तरं भव्यानां कियता कालेन सिद्धिगमनं प्रवृत्तं कियन्तं कालं यावदनुवृत्तं चेत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org