________________
१५१
वक्षस्कारः - २
कायस्थितिमवस्थितिरूपां 'च्यवनं' केवलोकाद्देवानां मनुष्यतिर्यक्ष्ववतरणं 'उपपातं' देवनारकजन्मस्थानं मुक्तं - अशनादि कृतं - चौर्यादि प्रतिसेवितं - मैथुनादि आविः कर्म्म - प्रकटकार्यं रहः कर्म - प्रच्छन्नकृतं, 'तं तं कालं 'ति प्राकृतत्वात् सप्तम्यर्थे द्वितीया तस्मिन् २ काले, वीप्सायां द्विर्वचनं, मनवचः कायान् योगान्- करणत्रयव्यापारान् एवमादीन्, जीवानामपि सर्वभावान्, जीवधर्मानित्यर्थः, अजीवानामपि सर्वभावान्-रूपादिधर्मान् मोक्षमार्गस्य-रत्नत्रयरूपस्य विशुद्धतरकान् - प्रकर्षकोटिप्राप्तान् कर्मक्षयहेतून् भावान्-ज्ञानाचारादीन् जानन् पश्यन् विचरतीति गम्यं, कथं च जानन् पश्यन् विचरतीत्याह - एषः - अनन्तरं वक्ष्यमाणो धर्म खलु अवधारणे मोक्षमार्गः, सिद्धिसाधकत्वेन मम - देशकस्यान्येषां च - श्रोतॄणां हितं-कल्याणं पथ्यभोजनवदित्यर्थः सुखं - अनुकूलवेद्यं पिपासोः शीतलजलपानवत् निश्रेयसं - मोक्षस्तत्करः- उक्तानां हितादीनां कारक इति, सर्वदुःखविमोक्षण इति व्यक्तं परमसुखं- आत्यन्तिकसुखं समापयतीति व्युत्पत्तिवशात् परमसुखसमाननः निश्रेयसेत्यत्र यकारलोपः प्राकृतत्वात्, भविष्यतीति, अथ उत्पन्नकेवलज्ञानो भगवान् यथा धर्मं प्रादुश्चकार तथा आह
'तते ण' मित्यादि, ततः स भगवान् श्रमणानां निर्ग्रन्थानां निर्ग्रन्थीनां च पञ्च महाव्रतानिसर्वप्राणातिपातविरमणादीनि सभावनाकानि - ईर्यासमित्यादिस्वभावनोपेतानि षट् च जीवनिकायान्–पृथिव्यादित्रसान्तान् इत्येवंरूपं धर्म उपदिशन् विहरतीति सम्बन्धः, यच्च धर्मे प्रकान्तव्ये षडजीवनिकायकथनमुपक्रान्तं तज्जीवपरिज्ञानमन्तरेण व्रतपालनासम्भव इति ज्ञापनार्थ, नन्वयं नियमः प्रथमव्रते सम्भवेत् मृषावादविरममादीनां तु भाषाविभागादिज्ञानाधीनत्वात् न सम्भवेदिति, उच्यते, शेषव्रतानामपि प्राणातिपातविरमणव्रतस्य रक्षकत्वेन नियुक्तत्वात्, महावनस्य वृत्तिवृक्षवत् । तथाहि - मृषाभाषामभाषमाणो ह्यभ्याख्यानादिविरतो न कुलवध्वादीन् अदत्तम् अनादददानो धनस्वामिनं सचित्तजलफलादिकंच मैथुनविरतो नवलक्षपञ्चेन्द्रियादीन् परिग्रहविरतः शुक्ति-कस्तूरीमृगादींश्च नातिपातयेदिति, अथैतदेव किञ्चिद्व्यक्त्या विवृणोति, पृथिवीकायिकान् जीवान् उपदिशन् विहरतीति सम्बन्धः, कालवार्थकत्वेन सूत्रप्रवृत्तेर्देशग्रहणात् पूर्णोऽप्यालापको वाच्यः, स चायं - 'आउक्काइए तेउ० वाउ० वणस्सइ० तस० 'त्ति व्यक्तं ।
तथा पञ्च महाव्रतानि सभावनाकानि 'भावनागमेन' श्रीआचाराङ्गद्वितीयश्रुतस्कन्धगतभावनाख्याध्ययनगतपाठेन भणितव्यानि अत्र च सूत्रे यदुद्देशे प्रथमं 'पंच महव्वयाई ' इत्याद्युक्तं निर्देशे तु व्यत्ययेन 'तं० - पुढविकाइए' इत्यादि, तत्कथमिति नाशङ्कनीयं, यतः पश्चाद्दुद्दिष्टानामपि षड्जीवनिकायानां प्रस्तुतोपाङ्गे स्वल्पवक्तव्यतया प्रथमं प्ररूपणाया युक्त्युपपन्नत्वात्, सूचीकटाहन्यायोऽत्रानुसरणीयो, 'विचित्रा सूत्राणां कृतिराचार्यस्य' इति न्यायेन वा स्वत एवेति ज्ञेयं, ननुगृहिधर्मसंविग्नपाक्षिकधर्मावपि भगवता देशनीयौ मोक्षाङ्गत्वात्, यदुक्तम्119 11 'सावज्जजोगपरिवज्जणाउसव्युत्तमो जईधम्मो ।
बीओ सावगधम्मो तइओ संविग्गपक्खपहो ।। इति,
तत्कथमत्र तौ नोक्तौ ?, उच्यते, सर्वसावद्यवर्जकत्वेन देशनायां यतिधर्मस्य प्रथमं देशनीयत्वादत्यासन्नमोक्षपथत्वात् श्रमणसङ्घस्य प्रथमं व्यवस्थापनीयत्वाच्च प्राधा ख्यापनार्थं प्रथममुपन्यासः, ततो 'व्याख्यातो विशेषार्थप्रतिपत्ति' रितिन्यायादेतत्पुच्छभूतौ तावपिध भगवता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org