SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १३६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४३ ज्ञापनार्थं, यद्यपि कृषिवाणिज्यादयोबहवोजीवनोपायास्तथापिते पश्चात्काले प्रादुर्बभूवुः भगवता तु सिल्पशतमेवोपदिष्टं अत एवाचार्योपदेशजं शिल्पमनाचार्योपदेशजं तु कर्मेति शिल्पकर्मणोर्विशेषमामनन्तीति, श्रीहेमसूरिकृतादिदेवचरित्रे तु॥१॥ 'तृणहारकाष्ठहारकृषिवाणिज्यकान्यपि। ___ कर्माण्यासूत्रयामास, लोकानां जीविताकृते।' इत्युक्तमस्ति तदाशयेन तु कर्मणामित्यत्र द्वितीयार्थे षष्ठी ज्ञेया, तथा च कर्माणि जघन्यमध्यमोत्कृष्टभेदतस्त्रीण्यप्युपदिशतीत्यपि व्याख्येयं, शिल्पशतं च पृथगेवोपदिशतीति ज्ञेयमिति, अथात्र सूत्रे सोपतः प्रोक्ता विस्तरतस्तु श्रीराजप्रश्नीयादिसूत्रादर्शेषु श्यमाना द्वासप्ततिकलास्तत्पाठोपदर्शनपूर्वकं विव्रियन्ते, यथा___"लेहं १ गणिअं२ रूवं ३ नटुं४ गीअं५ वाइअं६ सरगयं७ पोक्खरगयं ८ समतालं ९ जूअं १० जनवायं ११ पासयं १२ अट्ठावयं १३ पोरकव्वं १४ दगमट्टिअं १५ अन्नविहिं १६ पानविहिं १७ वत्थविहिं १८विलेवणविहिं १९ सयणविहिं २० अजं २१पहेलिअं२२ मागहिअं २३गाहं २४ गीअं२५सिलोग२६हिरण्णजुत्ति २७ सुवण्णजुत्तिं २८चुण्णजुत्तिं २९आभरणविहिं ३० तरुणीपरिकम्मं ३१ इथिलक्खणं३२ पुरिसल०३३ हयल० ३४ गयल०३५ गोणलक्खणं ३६ कुकुडलक्खणं ३७ छत्तलक्खणं ३८ दंडलक्खणं ३९ असिलक्खणं ४० मणिलक्खणं४१ कागणिलक्खणं४२ वत्थुविज्जं ४३ खंधावारमाणं४४ नगरमाणं ४५ चारं ४६ पडिचारं ४७ वूह ४८ पडिवूहं ४९ चक्कवूहं ५० गरुडवूहं ५१ सगडवूहं ५२ जुद्धं ५३ नियुद्धं ५३ जुद्धातियुद्धं ५५दिट्ठिजुद्धं ५६ मुट्ठियुद्धं ५७ बाहुयुद्धं ५८ लयायुद्धं ५५इसत्यं ६० छरुप्पवायं ६१ धनुव्वेयं ६२ हिरण्णपागं ६३ सुवण्णपागं ६४ सुत्तखेड़े ६५ वत्थखेड्डु ६६ नालिआखेड़े ६७ पत्तच्छेज्जं ६८ कडच्छेज्जं ६९ सज्जीवं ७० निजीवं ७१ सउणरुअ७२ मिति। अत्र लेहमित्यादीनि द्वासप्ततिपदानि राजप्रश्नीयानुसारेण द्वितीयान्तानि प्रतिभासन्ते इत्यत्रापिव्याख्यायांतथैवदर्शयिष्यन्ते, समवायागानुसारेणवा विभक्तिव्यत्ययेन प्रथमान्ततया स्वयं योजनीयानीति, तत्र लेखनं लेख:-अक्षरविन्यासस्तद्विषया कला-विज्ञानं लेख एवोच्यते, तंभगवानुपदिशतीतिप्रकृते योजनीयं, एवंसर्वत्र योजनाकार्या, सचलेखोद्विधा-लिपिविषयभेदात्, तत्र लिपिरष्टादशस्थानोक्ता, अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथापि पत्रंवल्कलकाष्ठदन्तलोहताम्ररजतादयोऽक्षराणामाधारास्तथा लेखनोत्किरणस्यूतव्यूतच्छिन्नभिन्नदग्धसङ्क्रान्तितोऽक्षराणिभवन्तीति, विषयापेक्षयाऽप्यनेकधा स्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीना लेखविषयाणामनेकत्वात्तथाविधप्रहयोजनभेदाच्च, अक्षरदोषाश्चैते॥१॥ ‘अतिकायमतिस्थौल्यं, वैषभ्यं पङ्कितवक्रता। अतुल्यानां च साश्यमविभागोऽवयवेषु च ॥' तथा गणितं-सङ्ख्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्धं २ रूपं-लेप्यशिलासुवर्णमणिवस्त्रचित्रादिषुरूपनिर्माणं ३ नाट्यं-साभिनयनिरभिनयभेदभिन्नताण्डवं४ गीतं-गन्धर्वकलांगानविज्ञानमित्यर्थः ५ वादितं-वाद्यंततविततादिभेदभिन्नं ६ स्वरगतं गीतमूलभूतानां षडऋषभादिस्वराणां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy