________________
वक्षस्कारः -२
१३५ पाइक्कचडकरेणयमंदं २ उद्धतरेणुयंकरेमाणे २ राजेणेव सिद्धत्थवणे उज्जाणेजेणेवअसोगवरपायवे तेणेव उवागच्छति २ असोगवरपायवस्स अहे सीअंठावेइ २ ता सीआओ पञ्चोरुहइ २ त्ता सयमेवाभरणालंकारं ओमुअइ २ त्ता सयमेव चउहिं अट्ठाहिं लोअं करेइ २ त्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तिआणं चउहिं सहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अनगारियं पव्वइए।
तु- 'नाभिस्स ण मित्यादि, नाभेः कुलकरस्य मरुदेव्या नाम्न्या भार्यायाः कुक्षो एतस्मिन समये 'उसह'त्ति ऋषभः संयमभारोद्वहनाध्षभइव ऋषभः, वृषभो वेति संस्कारः तत्र वृषभ इव वृषभ इति वा, वृषेण भातीति वा वृषभः, एवं च सर्वेऽप्यर्हन्त ऋषभा वृषभा वा इत्युच्यन्ते तेन ऊर्वोवृषभलाञ्चनत्वेन मातुश्चतुर्दशस्वप्नेषु प्रथमं वृषभदर्शनेन च ऋषभो वृषभो वेति नाम्ना, कोशलायां-अयोध्यायां भवः कौशलिकः ‘भाविनि भूतवदुपचार इति न्यायादेतद्विशेषणं, अयोध्यास्थापनायाऋषभदेवराज्यस्थापनासमये कृतत्वात्, तद्वयक्तिस्तुभरतक्षेत्रनामान्वर्थकथनावसरे 'धनवईमतिनिम्माया' एततसूत्रव्याख्यायां दर्शयिष्यते, अर्हन्तश्च पार्श्वनाथादय इव केचिदनड्गीकृतराजधर्मका अपि स्युरित्यसौ केन क्रमेणार्हन्नभूदित्याह
प्रथमोराजा,इहावसर्पिण्यांनाभिकुलकरादिष्टयुग्मिमनुजैः शक्रेणचप्रथममभिषिक्तत्वात्, प्रथमजिनः प्रथमो रागादीनांजेता, यद्वाप्रथमोमनःपर्यवज्ञानी राज्यत्यागादनन्तरंद्रव्यतोभावतश्च साधुपदवर्तित्वे, अत्रावसर्पिण्यामस्यैव भगवतःप्रथमस्तद्भवनात्, जिनत्वंचावधिमनःपर्यवकेवलज्ञानिनां स्थानाड्गे सुप्रसिद्धं, अवधिजिनत्वे तु व्याख्यायमानेऽक्रमबद्धं सूत्रमिति, केवलिजिनत्वे चोत्तरग्रन्थेन सह पौनरुक्त्यमिति व्याख्यानासगति श्रोतृणां प्रतिभासेत, प्रथमकेवली-आद्यसर्वज्ञः, केवलित्वे च तीर्थकृन्नामोदयतीत्याह-प्रथमतीर्थकरः-आद्यश्चतुर्वर्णसङ्घस्थापकः, उदिततीर्थकृत्रामा च कीशः स्यादिति-प्रथमोधर्मवरो-धर्मप्रधानश्चक्रवर्ती, यथा चक्रवर्ती सर्वत्राप्रतिहतवीर्येणचक्रेण वर्तते तथाऽयमपीतिभावः, समुदपद्यत-समुत्पन्नवानित्यर्थ, अथ यथा भगवान् वयः प्रतिपन्नवान् तथाऽऽह
___ तए ण'मित्यादि, ततो जन्मकल्याणकानन्तरमित्यर्थ ऋषभोऽर्हन् कौशलिकः विंशतिं पूर्वशतसहस्रणि-पूर्वलक्षाणि भावप्रधानत्वानिर्देशस्य कुमारत्वेन-अकृताभिषेकराजसुतत्वेन वासःअवस्थानं तन्मध्ये वसति, 'कुमारवासमज्झावसई' इति पाठे तु कुमारवासमध्यावसति आश्रयतीत्यर्थ, उषित्वा च त्रिषष्टिपूर्वलक्षाणि अत्रापि भावप्रधानो निर्देश इति महाराजत्वेनसाम्राज्येन वासः-अवस्थानं तन्मध्ये वसति, तत्र वसंश्च कथं प्रजा उपचक्रे इत्याह
तेवटिं' इत्यादि, त्रिषष्टिंपूर्वलक्षाणियावत् महाराजवासमध्ये वसन् लिपिविधानादिका गणितं-अङ्कविद्या धर्मकर्मव्यवस्थितौ बहूपकारित्वात् प्रधाना यासु ताः शकुनरुतं-पक्षिभाषितं पर्यवसाने-प्रान्तेयासांतास्तथा, द्वासप्ततिकलाः,कलनानि कलाविज्ञानानीत्यर्थस्ताः कलनीयभेदात् द्वासप्तति अर्थात्, प्रायः पुरुषोपयोगिनीः।
'चतुःषष्टिं महिलागुणान्-स्त्रगुणान्, कर्मणां-जीवनोपायानांमध्ये शिल्पशतंच विज्ञानशतं च कुम्भकारशिल्पादिकं त्रीण्यप्येतानि वस्तूनि प्रजाहिताय-लोकोपकारायोपदिशति, अपिशब्द एकोपदेशकपुरुषतासूचनार्थः, वर्तमाननिर्देशश्चात्र सर्वेषामाद्यतीर्थङ्कराणामयमेवोपदेशविधिरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org