________________
वक्षस्कारः-२
१२९
आगमेऽभिहिता किं पुनः सर्वजीवेभ्योऽनन्तगुणामुत्कृष्टवर्णगतभागानां ?
न च ते सङ्ख्याता एव सिध्यन्ति, इमे तु प्रतिसमयमनन्ता हीयन्ते इति महद्दष्टावन्तवैषम्यमिति वाच्यं, यतस्तत्र यथा सिध्यतां भव्यानां संख्यातता तथा सिद्धिकालोऽनन्त एवमत्रापि यथा प्रतिसमयमनन्तानामेषां हीयमानता तथा हानिकालोऽवसर्पिणीप्रमाण एव ततः परमुत्सर्पिणीप्रथमसमयादौतेनैवक्रमेणवर्द्धन्तेइतिसर्वसम्यक्, एवंपीतादिषुवर्णेषुगन्धरसस्पर्शेषु च यथासम्भवमागमाविरोधेन भावनीयं, तथा अनन्तैः संहननपर्यवैरिति-संहननानि-अस्थिनिचयरचनाविशेषरूपाणि वज्रऋषभनाराचऋषभनाराचनाराचार्द्धनाराचकीलिकासेवार्तभेदात् षट्, प्रस्तुतेचारके आद्यमेव ग्राह्यं ऋषभनाराचादीनामभावात्, अन्यत्र यथासम्भवंतानि ग्राह्याणि, तत्पर्यवा अपि तथैव हापनीयाः, संहननेनैव शरीरे दाढर्यमुपजायते, तच्च सर्वोत्कृष्टं सुषमसुषमाद्यसमये, ततः परमनन्तैरनन्तैः पर्यवैः समये २ हीयत इति।
तथा संस्थानानि-आकृतिरूपामि समचतुरनन्यग्रोधसादिकुब्जकवामनहुण्डभेदात्षोढा, तच्च तत्र प्रथमे समये सर्वोत्कृष्टं ततः परंतथैव हीयत इति, यथोच्चत्वं-शरीरोत्सेधस्तच्च तत्र प्रथमे समये त्रिगव्यूतप्रमाणमुत्कृष्टं, ततः परंतप्रमाणतारतभ्यरूपाः पर्यवाः अनन्ताः समये २ हीयन्ते, ननु उच्चत्वं हि शरीरस्य स्वावगाढमूलक्षेत्रादुपरितनोपरितननभःप्रदेशावगाहित्वं, तत्पर्यवाश्च एकद्वित्रिप्रतरावगाहित्वादयोऽसङ्ख्यातप्रतरावगाहत्वान्ता असङ्ख्याता एव, अवगाहनाक्षेत्रस्यासङ्ख्यातप्रदेशात्मकत्वात्, तर्हि कथमेषामनन्तत्वं?, कथं चैतेऽनन्तभागपरिहाण्या हीयन्ते इति चेद्, उच्यते, प्रथमारके यत् प्रथमसमयोत्पन्नानामुत्कृष्टं शरीरोच्चत्वं भवति ततो द्वितीयादिसमयोत्पन्नानांगावतामेकनभःप्रतरावगाहित्वलक्षणपर्यवाणांहानिस्तावत्पुद्गलानन्तकं हीयमानं द्रष्टव्यं, आधारहानावाधेयहानेरावश्यकत्वादिति, तेनोच्चत्वपर्यवाणामप्यनन्तत्वं सिद्धं, नभःप्रतरावगाहस्य पुद्गलोपचयसाध्यत्वात्, तथा आयुः-जीवितं तदपि तत्र प्रथमे समये त्रिपल्योपमप्रमाणमुत्कृष्टं तदनन्तरं तत्पर्यवा अपि अनन्ताः प्रतिसमयं हीयन्ते, नन पर्यवा एकसमयोना द्विसमयोना यावदसङ्ख्यातसमयोनोत्कृष्टा स्थितिरिति स्थितिस्थानतारतम्यरूपा असङ्ख्याता एव, आयुःस्थितेरसङ्ख्यातसमयात्मकत्वात्, तर्हि कथं सूत्रेऽनन्तैरायुःपर्यवैरित्युक्तं?
उच्यते, प्रतिसमयं हीयमानस्थितिस्थानकारणीभूतानि अनन्तानि आयुःकर्मदलिकानि परिहीयन्ते, ततः कारणहानौ कार्यहानेरावश्यकत्वात् ।
तानि च भवस्थितिकारणत्वादायुःपर्यवा एव अतस्ते अनन्ता इति, तथा अनन्तैर्गुरुलघुपर्यवैरिति, गुरुलघुद्रव्याणि-बादरस्कन्धद्रव्याणिऔदारिकवैक्रियाहारकतैजसरूपाणि तत्पर्यवाः, तत्रप्रकृते वैक्रियाहारकोरनुपयोगस्तेन औदारिकशरीरमाश्रित्योत्कृष्टवर्णादयस्तत्राद्यसमये बोध्याः, ततः परं तथैव हीयन्ते तैजसमाश्रित्य कपोतपरिणामकजाठराग्निरुत्कृष्टस्तत्रादिसमये तदनन्तरं मन्दमन्दतरादिवीर्यकत्वरूप इति, तथा अनन्तैरगुरुलघुपर्यवैरिति, अगुरुलघुद्रव्याणि सूक्ष्मद्रव्याणि, प्रस्तुतेचपौद्गलिकानिमन्तव्यानि, अन्यथाऽपौदगलिकानांधर्मास्तिकायादीनामपि पर्यवहानिप्रसङ्गः, तानि च कार्मणमनोभाषादिद्रव्याणि तेषांपर्यवैरनन्तैः, तत्र कार्मणस्य सतवेदनीयशुभनिर्माणसुस्वरसौभाग्यऽऽदेयादिरूपस्य बहुस्थित्यनुभागप्रदेशकत्वेन मनोद्रव्यस्य बहुग्रह| 139
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org