________________
वक्षस्कारः-२
१२७
-
-
स्थेयोभिश्चततः कलागणभृतस्तारुण्यभोगोद्गताः सप्ताहेनततो भवन्ति सुध्गादननेऽपि योग्यास्ततः अत्र व्याख्या-आर्या सप्त दिवसान्-जन्मदिवसादिकान् यावत् उत्तानशयाः सन्तः स्वाङ्गुष्ठं लिहन्ति, ततो द्वितीयसप्तके पृथिव्यां रिजन्ति, ततस्तृतीयसप्तके कलगिरो-व्यक्तवाचो भवन्ति, ततधुर्थसप्तके स्खलद्भिः पदैर्यान्ति, ततः पञ्चमसप्तकेस्थेयोभिः-स्थिरैः पदैर्यान्ति, ततः षष्ठसप्तके कलागणभृतो भवन्ति, ततः सप्तमसप्तके तारुण्यभोगोद्गताः भवन्ति केचिच्च सुध्गादानेऽपि-सम्यकत्वग्रहणेऽपि योग्या भवन्तीति क्रमः, इदं चावस्थाकालमानं सुषमासुषमायामादौ ज्ञेयं, ततः परं किञ्चिदधिकमपि सम्भाव्यते इति, अत्र प्रस्तावाद् कश्चिदाह-अथ तदाऽग्निसंस्कारादेरप्रादुर्भूतत्वेन मृतकशरीराणां का गतिरिति ?, उच्यते, भारण्डप्रभृतिपक्षिणस्तानि तथाजगतस्वाभाव्यात् नीडकाष्ठमिवोत्पाटय मध्येसमुद्रं क्षिपन्ति, यदुक्तं॥१॥ पुराहि मृतमिथुन शरीराणि महाखगाः ।
नीडकासु मिवोत्पाट्य, सद्यश्चिक्षिपुरंबुधौ "किश्चात्र श्लोके अम्बुधावित्युपलक्षणं तेन यथायोगं गड्गाप्रभृतिनदीष्वपि ते तानि क्षिपन्तीति ज्ञेयं, ननु चोत्कृष्टतोऽपि धनुःपृथक्त्वमानशरीरैस्तैरुत्कृष्टप्रमाणानि तानि कथं सुवहानीत्यत्रापि समाधीयते-युग्मिशरीराणामस्बुधिक्षेपस्य महाखगकृतत्वेन बहुषु स्थानेषु प्रतिपादनादवसीयतेयत् ‘पक्खीधणुहपुहत्तमित्यत्र सूत्रेजात्यपेक्षयाएकवचननिर्देशस्तेन क्वचिद् बहुवचनं व्याख्येयं, तथाच सतिपक्षिशरीरमानस्य यथासम्भवमरकापेक्षयाबहुबहुतरबहुतमधनु:पृथकत्वरूपस्यापिसम्भवात्तत्कालवर्तियुग्मिनरहस्त्यादिशरीरापेक्षया बहुधनुःपृथक्त्वपरिमाणशरीरैस्तैर्न किञ्चिदपि तानि दुर्वहानीति न काप्यनुपपत्तिरिति सम्भाव्यते, तत्वं बहुश्रुतगम्यं, एवं च सूत्रे एखवचननिर्देशेऽपि बहुवचनेन व्याख्यानं श्रीमलयगिरिपादैरपि श्रीबृहत्संग्रहणिवृत्ती देवानामाहारोच्छ्वासान्तरकालमानाधिकारे॥१॥ “दस वाससहस्साई समयाईजाव सागरं ऊणं ।
दिवसमुहुत्तपुहुत्ता आहारुस्सास सेसाणं ।। इत्यस्या गाथाया अर्थकथनावसरे कृतमस्तीति सर्वं सुस्थमिति । अथ तदा मनुजानामकत्वमुतनानात्वमितिप्रश्नयन्नाह-'तीसेण मित्यादि, तस्यांसमायां भगवन्! भरते वर्षेकतिविधाःजातिभेदेन कतिप्रकारा कतिप्रकारा मनुष्या अनुषक्तवन्तः-कालात्कालान्तरमनुवृत्तवन्तः, सन्ततिभावेन भवन्ति स्मेत्यर्थ, भगवानाह-गौतम! षड्विधाः, तद्यथा
पद्मगन्धाः १ मृगगन्धाः २ अममा ३ स्तेजस्तलिनः ४ सहाः ५ शनैश्चारिणः ६, इमे जातिवाचकाः शब्दाः संज्ञाशब्दत्वेन रूढाः, यथा पूर्वमेकाकाराऽपि मनुष्यजातिस्तृतीयारकप्रान्ते श्रीऋषभदेवेन उग्रभोगराजन्यक्षत्रियभेदैश्चतुर्द्धा कृता तथाऽत्राप्येवं षड्विधा सा स्वभावत एवास्तीति यद्यपि श्री अभयदेवसूरिपादैः पञ्चमाङ्गषष्ठशतकसप्तमोद्देशके पदमसमगन्धयः मृगमदगन्धयः ममीकाररहितास्तेजश्च तलं च रूपं येषामस्तीति तेजस्तलिनः सहिष्णवः-समर्था शनैः-मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीला इत्यन्वर्थता व्याख्यातास्ति, तथापितथाविधसम्प्रदायाभावात् साधारणव्यञ्जकाभावेन तेनैषां जातिप्रकाराणां दुर्बोधत्वाज्जीवाभिगमवृत्तौ सामान्यतो जातिवाचकतया व्याख्यानदर्शनाच न विशेषतो व्यक्ति कृतेति । गतः प्रथमारकः ॥
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org