________________
वक्षस्कार:- १
ज्ञप्ति-ज्ञापनं यस्यां ग्रन्थपद्धतौ ज्ञप्तिर्ज्ञानं वा यस्याः सकाशात् सा जम्बूद्वीपप्रज्ञप्ति, अथवा जम्बूद्वीपं प्रान्ति-पूरयन्ति स्वस्थित्येति जम्बूद्वीपप्राः जगतीवर्षवर्षधराद्यास्तेषां ज्ञप्तिर्यस्याः सकाशात् सा जम्बूद्वीपप्रज्ञप्तिरिति सान्वर्थशास्त्रनाम - प्रतिपादनेन जम्बूद्वीपप्रज्ञप्तयाः पिण्डार्थोय दर्शितः, अत एवाभिधेयसून्यतामाकलयन्तस्सन्तोऽत्र प्रवृत्तौ मा मन्दायन्तामित्यभिधेयसूचापि कृतैव, नामनिक्षेपचिन्ता तु द्वितीयानुयोगयोजनायां करिष्यत इति समुदायार्थः ४ ।
तथैवानुयोगद्वाराणि वाच्यानि, तथाहि - प्रस्तुताध्ययनस्य महापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति - उपक्रमो निक्षेपोऽनुगमो नयश्च तत्र अनुयोजनमनुयोगः - सूत्रस्यार्थेन सह सम्बन्धनं, अथवाऽनुरूपोऽनुकूलो वा योगो - व्यापारः सूत्रस्यार्थप्रतिपादनरूपोऽनुयोगः, आह च“अनुजोजणमणुओगो सुअस्स नियएण जमभिहेएण ।
119 ||
९
वावारो वा जोगो जो अनुरूवोऽनुकूलो वा ॥"
इति, यद्वा अर्थापेक्षया अणोः -- लघोः पश्चाज्जाततया वाऽनुशब्दवाच्यस्य योऽभिधेयो योगो - व्यापारस्ततसम्बन्दो वाऽणुयोगोऽनुयोगो वेति, आह च
119 11
“अहाव जमत्थओ थोवपच्छभावेहिं सुअमणुं तस्स ।
अभिधेये वावारो जोगो तेणं व संबंधो ॥ त्ति ।
तस्य द्वाराणीव द्वाराणि - प्रवेशमुखानि, अस्याध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, पुरान्तश्चात्र, यथा हि अकृतद्वारकं पुरपुरमेव कृतैकद्वारमपि दुरधिगमं कार्यातिपत्तये च स्यात्, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च, एवं जम्बूद्वीपप्रज्ञप्तयध्ययनपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति एकद्वारानुगतमपि च दुरधिगमं सप्रभेदचतुर्द्वारानुगतं तु सुखाधिगमं कार्यातिपत्तये च स्यादतः फलेग्रहिर्द्वारोपन्यास इति ५ ।
तानि च द्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तद्भेदाः ६ ।
निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः व्याचिख्यासितशास्त्रस्य समीपानयनेन निक्षेपावसरप्रापणं, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्य श्रमणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादिति वा विनेयविनयादित्युपक्रमः इत्यपादानसाधन इति, एवं निक्षेपणं निक्षेप्यतेऽनेनास्मिन्नस्मादिति वा निक्षेपः- उपक्रमानीतव्याचिख्यासितशास्त्रस्य नामादिभिर्न्यसनमित्यर्थः निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः - निक्षिप्तसूत्रस्यानुकूलः परिच्छेदोऽर्थकथनमितियावत्, एवं नयनं नीयतेऽनेनास्मिन्नस्मादिति वा नयः - अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेदः, एकेनैव धर्मेण पुरस्कृतेन वस्त्वङ्गीकार इत्यर्थः ७ ।
उपक्रमादिद्वाराणामित्थंन्यासे किं प्रयोजनमिति ?, उच्यते, न ह्यनुपक्रान्तमसमीपीभूतं निक्षिप्यते न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यते इतीदमेव क्रमप्रयोजनं, उक्तं च
|| 9 ||
"दारक्कमोऽयमेव उ निक्खिप्पइ जेण नासमीवत्थं । अणुगम्म नानत्थं नानुगमो नयमयविहूणो ।। "त्ति ८ ।
तदेवं फलादीन्युक्तानि, साम्प्रतमनुयोगद्वार भेदभणनपुरस्सरमिदमेवाध्ययनमनुविचिन्त्यते,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org