________________
-
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/॥४॥ बारसवासस्स तहा अरुणोवायाइपंच अज्झयणा।
तेरसवासस्स तहा उट्ठाणसुयाइया चउरो॥ चउदसवासस्स तहा आसीविसभावणं जिणा बिंति।
पन्नरसवासगस्स य दिट्ठीविसभावणं तहय॥ ॥६॥
सोलसवासाईसुय एगुत्तरवुड्डिएसुजहसंखं । सोलपत
चारणभावणमहसुविणभावणा तेअगनिसग्गा॥ ॥७॥ एगूणवीसगस्स उ दिट्ठीवाओ दुवालसं अंगं।
संपुण्णवीसवरिसो अणुवाई सव्वसुत्तस्स । इति, अत्र पञ्चवस्तुकसूत्र दशवर्षपर्यायस्य साधोः भगवत्यङ्गप्रदानेऽवसरस्य
प्रतिपादनात् षष्ठाङ्गताय ज्ञाताधर्मकथाङ्गस्य प्रदाने तदनन्तरमवसरः, कारणविशेषे दुर्वाज्ञावशादगिपि, ततस्तदुपाङ्गत्वादस्य तदनन्तरमवसर इति संभाव्यते, योगविधानसामाचार्यामपि अङ्गयोगोद्वहनानन्तरमेवोपाङ्गयोगोद्वहनस्य विधिप्राप्तत्वादिति २।
तथेदमुपाङ्गमपिप्रायः सकलजम्बूद्वीपवर्तिपदार्थानुशासनाच्छास्त्र, तस्यचसम्यग्ज्ञानद्वारा परमपदप्रापकत्वेन श्रेयोभूतता, अतोमा भूदत्र विघ्न इति तदपोहाय मङ्गलमुपदर्शनीयं, यतः॥१॥ "बहुविग्घाई सेयाई तेण कयमंगलोवयारेहि।
घेत्तव्बो सो सुमहानिहिव्व जह वा महाविजा ॥" इति, तच्चत्रिविधं-आदिमध्यावसानभेदात्, तत्रआदिमङ्गलं नमोअरिहंताण मित्यविघ्नतया शास्त्रस्य परिसमाप्तयर्थं, मध्यमङ्गलं 'जया णं एक्कमेक्कं चक्कवट्टिविजए भगवंतो तित्थगरा सनुप्पजंति'त्ति तस्यैव स्थैर्याय, अस्य च द्वितीयाधिकारादिसूत्रस्य त्रिभुवनोद्भूतजनजन्मकल्याणकसूचकत्वेन परममङ्गलत्वात्, अन्त्यमङ्गलं तु 'समणे भगवंमहावीरे मिहिलाए नगरीए' इत्यादिनिगमनसूत्रेश्रीमन्महावीरनामग्रहणमिति, तस्यैव शिष्यप्रशिष्यादिपरम्परयाअव्यवच्छेदार्थं, नन्विदं सम्यग्ज्ञानरूपत्वेन निर्जरार्थत्वात् अथवा “जो जं पसत्थमत्थं पुच्छइ तस्सत्थसंपत्ती" इति निमित्तशास्त्र द्वीपसमुद्राभिधानग्रहणस्य परममङ्गलत्वेन निवेदनादस्य द्वीपप्ररूपणात्मकत्वात् स्वयमेव सर्वात्मना मङ्गलं (लता) किंमङ्गलान्तरोपन्यासेन?,अनवस्थाप्रसङ्गात्, मैवं, मङ्गलतया हिपरिगृहीतं शास्त्र मङ्गलमिति व्यवह्रियतेफलदंचभवति, साधुवत, अन्यथोपहासनमस्कारादेरपि मङ्गलत्वं स्यात्, न हि लोकोऽपि स्वरूपसतां दधिदूर्वादीनां द्रव्यमङ्गलत्वं किन्तु मङ्गलाभिप्रायेण प्रयुक्तानाम्, अन्यथातद्विषयकदर्शनस्पर्शनादीनां निर्मूलकतापातात्, इह अस्य शास्त्रस्य फलादि निरूपितं तदनुयोगस्य द्रष्टव्यं, तयोः कथञ्चिदभेदादिति ३।।
अथेदानी समुदायार्थश्चिन्त्यते, तत्र समुदायः सामान्यत- शास्त्रसङ्ग्रहणीयः पिण्डस्तद्रूपोऽर्थो वक्तव्यः, किमुक्तं भवति ?-अवयवविभागनिरपेक्षतया शास्त्रगतं प्रमेयं प्रकटनीयं, तच्च वर्द्ध- मानादिवत् यथार्थनामतो भवति, तत्रैव समुदायार्थपरिसमाप्तेः, न तु पलाशादिवदयथार्थनामतोडित्यादिवदर्थशून्यनामतश्च, प्रस्तुतेचजम्बूद्वीपप्रज्ञप्तिरितिनाम्नः कः शब्दार्थ इति ?, उच्यते, जम्ब्वा-सुदर्शनापरनाम्नयाऽनाध्तदेवावासभूतयोपलक्षितो द्वीपो जम्बूद्वीपस्तस्य प्रकर्षण- निशेषकुतीर्थिकसार्थागम्ययथावस्थितस्वरूपनिरूपणलक्षणेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org