SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३२ जातीगुम्मा णवणीइआगुम्मा कुंदगुम्मा महाजाइगुम्मा रम्मा महामेहणिकुरंबभूआ दसद्धवण्णं कुसुमं कुसुमेति जेणंभर हेवासे बहुसमरमणिज्जं भूमिभागंवायविषुअग्गसाला मुक्कयुफपुंजोवयार कलिअंकति । तीसे णं समाए भरहे वासे तत्थ तहिं तहिं बहुईओ पउमलयाओ जाव सामलयाओ निच्चं कुसुमिआओ जाव लयावण्णओ, तीसे णं समाए भरहे वासे तत्थ २ तहिं २ बहुइओ वनराइओ प० किण्हाओ जाव मनोहराओ रयमत्तगछप्पयंकोरगभिंगार गोंडलगजीवंजीवनंदीमुहकविलपिंगलक्खगकारंडवचक्कवायगकलहसहंससारसअणेगसउणगणमि हुणविअरिआओ सहुणइयमहुरसरणाइआओ संपिंडिअ० नानाविहगुच्छ० वावीपुक्खरणीदीहिआसु असुणि० विचित्त० अब्भि० साउंत० निरोगक० सव्वोउअपुप्फफलस० पिंडिमजावपासादीओ ४ । वृ जम्बूद्वीपे भदन्त ! द्वीपे भरतक्षेत्रेऽस्यामवसर्पिण्या सम्प्रति या वर्त्तमानेति शेषः, सुषमसुषमानाम्न्या समाया कालविभागलक्षणायां अरके इत्यर्थः, किंलक्षणायामित्याह- उत्तमकाष्ठांप्रकृष्टावस्थां प्राप्तायां क्वचिदुत्तमट्ठपत्ताए इति पाठस्तत्रोत्तमा तत्कालापेक्षयोत्कृष्टानर्थान्-वर्णादीन् प्राप्ता उत्तमार्थप्राप्ता तस्यां भरतस्य वर्षस्य कीध्श आकारभावप्रत्यवतारः 'होत्य'त्ति अभवत्?, सर्वमन्यत् प्राग्व्याख्यातार्थं, नवरमत्र मनुष्योपभोगाधिकारे शयनमुभयथापि सङ्गच्छते निद्रासहितरहितत्वभेदात्, अथ सविशेषमनुजिघृक्षुणा गुरुणाऽपृष्टमपि शिष्यायोपदेष्टव्यमिति प्रश्नपद्धतिरहितं प्रथमारकानुभावजनतभरतभूमसौभाग्यसूचकं सूत्रचतुर्द्दशकमाह-तस्यां समायां भरतवर्षे बहव उद्दालाः कोद्दालाः मोद्दालाः कृतमालाः नृत्तमालाः दन्तमालाः नागमालाः श्र ड्ङ्गमालाः शङ्खमालाः स्वेतमाला नाम द्रुमगणा-द्रुमजातिविशेषसमूहाः प्रज्ञप्तास्तीर्थकरगणधरै: है श्रमण ! हे आयुष्मन् !, ते च कथंभूता इत्याह- कुशाः दर्भाविकुशा- बल्वजादयस्तृणविशेषास्तैर्विशुद्धंरहितं वृक्षमूलं - तदधोभागो येषां ते तथा, इह मूलंय शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते यथा शाखामूलमित्यादि ततः सकलवृक्षसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलमन्तः कन्दमन्त इति पदद्वयं यावत्पदसङ्गाह्यं च जगतीवनगततरुगणवद् व्याख्येयं, पत्रैश्च पुष्पैश्च फलैश्च अवच्छन्नप्रतिच्छन्ना इति प्राग्वत् श्रिया अतीवोपशोभमानास्तिष्ठन्ति वर्त्तन्ते इति भावः । 'तीसेणं सभाए' इत्यादि, तस्यां समायां बहूनि सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, भेरुतालादयो वृक्षविशेषाः, क्वचित्प्रभवालवणा इति पाठस्तत्र पभवालाः-तरुविशेषाः सालः- सर्जः सरलोदेवदारु सप्तपर्ण प्रतीतस्तेषां वनानि पूगफली-क्रमुकतरु खर्जूरीनालिकेर्यौ प्रतीते तासां वनानि शेषं प्राग्वत् । 'तीसे णं' इत्यादि, तस्यां समायां बहवः सेरिकागुल्मा नवमालिकागुल्माः कोरण्टक गुल्माः बन्धुजीवकगुल्माः यत्पुष्पाणि मध्याह्नेविकसन्ति, मनोऽवद्यगुल्माः बीअकगुल्माः बाणगुल्माः करवीरगुल्माः कुब्जगुल्माः सिंदुवारगुल्माः जातिगुल्माः मुद्गरगुल्माः यूथिकागुल्माः मल्लिका गुल्माः वासंतिक गुल्माः वस्तुलगुल्माः कस्तुलगुल्माः सेवालगुल्माः अगस्त्यगुल्माः (मगदन्तिकागुल्माः) चम्पकगुल्माः जातिगुल्मा नवनीतिकागुल्माः कुन्दगुल्मा महाजातिगुल्माः, गुल्मा नाम ह्रस्वस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः, एषां च केचित्प्रतीताः केचिद्देशविशेषतोSaगन्तव्याः, रम्याः महामेघनिकुरम्बभूताः दशार्द्धवर्णं पञ्चवर्णं कुसुमं जातावेकवचनं कुसुमसमूहं कुसिमयन्ति-उमादयन्तीतिभावः, येणमिति प्राग्वत् भरते वर्षे इति षष्ठीसप्तम्योरर्थं प्रत्यभेदाद्भरतस्य वर्षस्य बहुसमरमणीयं भूमिभागं वातविधुता वायुकम्पिता या अग्रशालास्ताभिर्मुक्तो यः पुष्पुञ्जः Jain Education International For Private & Personal Use Only www.jainelibrary.org ९८
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy