SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्राभृतं ४, प्राभृतप्राभृतं सूर्यप्रकाशः प्रसरति, ततः समतल भूभागस्याधो योजनसहनं तदूर्ध्वं चाष्टौ योजनशतानीत्युभयमीलनेऽष्टादश योजनशतानि तिर्यक् स्वविमानात् पूर्वभागेऽपरभागे च प्रत्येकं तापयतः सप्तचत्वारिंशद्योजनसहस्राणि द्वे योजनशते त्रिषष्टे-त्रिषष्ट्यधिके एकविंशतिं च षष्टिभागान् योजनस्य प्राभृतं -४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे चतुर्थप्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । ८३ प्राभृतं - ५ वृ. तदेवमुक्तं चतुर्थं प्राभृतं, सम्प्रति पञ्चममारभ्यते - तस्य चायमर्थाधिकारः ‘कस्मिन् लेश्या प्रतिहते' ति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (३६) ता कस्सि णं सूरियस्स लेस्सा पडिहताति वदेज्जा ?, तत्थ खलु इमओ वीसं पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु ता मंदरंसि णं पव्वतंसि सूर्यस्स लेस्सा पडिहता आहिताति वदेज्जा, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता भ्मेरुंसि णं पव्वतंसि सूरियस्स्स लेस्सा पडिहता आहितातिवदेज्जा, एगे एवमाहंसु २ । एवं एतेणं अभिलावेणं भाणियव्वं, ता मनोरमंसि णं पव्वयंसि, ता सुदंसणंसि णं पव्वयंसि, ता सयंपभंसिणं पव्वतंसि ता गिरिरायंसि णं पव्वतंसि ता रतणुच्चयंसि णं पव्वतंसि ता सिलुच्चयंसि णं पव्वयंसि ता लोअमज्झसि णं पव्वतंसि ता लोयणाभिंसि णं पव्वतंसि ता अच्छंसि णं पव्वतंसि ता सूरियावत्तंसि णं पव्वतंसि सूरियावरणंसि णं पव्वतंसि ता उत्तमंसि णं पव्वयंसि ता दिसादिस्सि णं पव्वतंसि ता अवतंसंसि णं पव्वतंसि ता धरणिखीलंसि णं पव्वयंसि ता धरणिसिंगंसि णं पव्वयंसि ता पव्वतिंदंसि णं पव्वतंसि णं पव्वतंसि ता पव्वयरायंसि णं पव्वयंसि सूरियस लेसा पडिहता आहिताति वदेज्जा, एगे एवमाहंसु । वयं पुण एवं वदामो-ता मंदरेवि पवुच्चति जाव पव्वयराया वुच्चति, ता जेणं पुग्गला सूरियस्स लेसं फुसंति ते णं पुग्गला सूरियस्स लेसं पडिहणंति, अदिट्ठावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति, चरिमलेसंतरगतावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति । वृ. 'ता कस्सि ण' मित्यादि, ता इति पूर्ववत्, अभ्यन्तरमण्डले सूर्यस्य लेश्या प्रसरतीति कस्मिन् स्थाने लेश्या प्रतिहता आख्याता इति वदेत् ?, अयमिह भावार्थ - इहावश्यमभ्यन्तरं प्रविशन्ती सूर्यस्य लेश्या कस्मिन् स्थाने प्रतिहतेत्यभ्युपगन्तव्यं, यतः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले जम्बूद्वीपगतं तापक्षेत्रमायामतः पञ्चचत्वारिंशद्योजनसहस्राप्रमाणमेवाख्यातमेतच्च सर्वाभ्यन्तरमण्डलगे सूर्ये लेश्याप्रतिहतिमन्तरेण नोपपद्यते, अन्यथा निष्क्रमति सूर्ये तव्प्रतिबद्धस्य तापक्षेत्रस्यापि निष्क्रमणभावात् सर्वबाह्ये मण्डले चारं चरति सूर्ये हीनमायामतो भवेत् न च मुक्ततोऽवसीय कापि लेश्या प्रतिघातमुपयाति ततस्तदवगमाय प्रश्न इति, एवं प्रश्ने कृते सति भगवानेतद्विषये यावत्यः प्रतिपत्तयस्तावतीरुपदर्शयति ‘तत्थे’त्यादि, तत्र–सूर्यलेश्याप्रतिहतिविषये खल्विमा विंशति प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा 'तत्र' तेषां विंशतेः परतीर्थिकानां मध्य एक एवमाहुः - मन्दरे पर्वते सूर्यस्य लेश्या प्रतिहता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy