SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्राभृतं २, प्राभृतप्राभृतं -३ जातएककः सप्तको द्विकः षट्कः सप्तकोऽष्टकः षट्कस्त्रिकः षट्कः ततो योजनानयनार्थमेकषष्टेः षष्टया गुणिताया यावान् राशिर्भवति तेन भागे ह्रियते, एकषष्टयां च षष्टया गुणितायां षटत्रिंशच्छतानि षष्टयधिकानि भवन्ति तैर्भागे हृते लब्धं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यदिकं योजनानां, सेषमुद्धर ति चतुस्त्रिंशच्छतानि षन्नवत्यधिकानि ततोऽस्माद्योजनानि नायान्तीति षष्टिभागानयनार्थं छेदराशिरेक-षष्टियते, तेन भागेते लब्धाः सप्तपञ्चाशत्षष्टिभागाः - एकस्य च षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागा इति। 'तया ण'मित्यादि, तदा-सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारचरमकाले दिवसरात्री तथैव-प्रागिव वक्तव्ये, ते चैवम्-‘ताय णं अट्ठारसमुहुत्ते दिवसे हवइ दोहिं एगट्ठिभागमुहुत्तेहि ऊणेदुवालसमुहुत्ता राई भवइ दोहिं एगठिभागमुहुत्तेहिंअहिया' इति, सेनिक्खममाणे इत्यादि, द्वितीयस्मादपिमण्डलात् ससूर्यप्रागुक्तप्रकारेण निष्कमन्नवस्यसंवत्सरस्य सत्केद्वितीयेऽहोरात्रे 'अमितरतचं तिसर्वाभ्यन्तरान्मण्डलात्त तीर्यमण्डलमुपसंक्रम्य चारंचरति। ताजयाण मित्यादि, तत्र यदा सर्वाभ्यन्तरान्मण्डलात्तृतीयंमण्डलमुपसंक्रम्य चारंचरतितदा पञ्चपञ्च योजनसहस्राणि द्वेयोजनशते द्विपञ्चाशे द्विपञ्चाशदधिके पञ्चचषष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति, तथाहि-अस्मिन्मण्डले परिरयपरिमाणंत्रीणियोजन-लक्षाणि सहस्राणिशतमेकंपञ्चविंशत्यधिकं ततोऽस्यप्रागुक्तयुक्तिवशात् षष्टया भागो ह्रियते, लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणं, अथवा पूर्वमण्डलमुहूर्तगतिपरिमाणा- दस्मिन् मण्डले मुहूर्त्तगतिपरिमाणचिन्तायां प्रागुक्तयुक्तिवशादष्टादशएकषष्टिभागा योजनस्याधिकाः प्राप्यन्ते, ततस्तप्रक्षेपेभवतियथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणं, अत्रापि द्दष्टिथप्राप्तत-विषयपरिमाणमाह_ 'तयाण मित्यादि, तदा-सर्वाभ्यन्तरानन्तरतृतीयमण्डलचारकाले इहगतस्य मनुष्यस्यजातावेकवचनस्य भावादिहगतानां मनुष्याणां सप्त चत्वारिंशता योजनसहन षण्णवत्या च योजनैस्रयस्त्रिंशता च षष्टिभागैर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्वा तस्य सत्काभ्यां द्वाभ्यां चूर्णिकाभागाभ्यां । सूर्यश्चक्षुस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसोऽष्टादशमुहूर्तप्रमाणश्चतुर्भिर्मुहूकषष्टिभागैरूनस्तस्यार्द्ध नव मुहूर्ताद्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां हीनाः, ततः सामस्त्येनैकषष्टिभागकरणार्थं नवापि मुहूर्ता एकषष्टया गुप्यन्ते, गुणयित्वा च द्वावेकषष्टिभागौतेभ्योऽपनीयेते, ततोजाता एकषष्टिभागाः पञ्चशतानि सप्तचत्वारिंशताऽधिकानि ततोऽस्य तृतीयमण्डलस्य यत्परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं पञ्चविंशत्यधिकमिति तत्पञ्चभिशतैः सप्तचत्वारिंशदधिकैर्गुण्यते,जाताः सप्तदशकोटयम्रयोविंशति शतसहस्राणि त्रिसप्तति सहस्राणि त्रीणि शतानि पञ्चसप्तत्यधिकानि एतेषामेकषष्टया षष्टया गुणितया भागो ह्रियते, लब्धानि सप्तच- त्वारिंशत्सनणि षण्णवत्यधिकानि सेषमुद्धरति विंशतिशतानि पञ्चदशोत्तराणि ततोऽस्माद्योजनानि नानान्तीति षष्टिभागानयनार्थं छेदराशिरेकषष्टिर्धयन्ते, तेन भागे हृते लब्धास्त्रयस्त्रिंशत्षष्टिभागाः एकस्य चषष्टिभागस्य सत्कौ द्वावेकषष्टिभागौ । 'तयाण मित्यादि, तदा-सर्वाभ्यन्तरतृतीयमण्डलचारचरणकाले दिवसरात्री तथैव-प्रागिव वेदितव्ये, तेचैवम्-'तयाणं अट्ठारसमुहत्ते दिवसे हवइ, चउहिएगट्ठिभागमुहुत्तेहिं ऊणे दुवालस- मुहुत्ता राई भवइ चउहिं एगट्ठिभागमुहुत्तेहिं अहिवा' इति, सम्प्रति चतुर्थादिषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy