SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्राभृतं २, प्राभृतप्राभृतं -३ दुवासमुहत्ताराईभवइ', 'तस्सिंच ण'मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्तप्रमाणदिवसे तापक्षेत्रं प्रज्ञप्तं एकनवतिर्योजनसहस्राणि तानि चैवमुपपद्यन्तेउदगमनमुहूर्तेस्त-मयमुहूर्ते च प्रत्येकं षट् योजनसहस्राणि गच्छतीत्युभयमीलने द्वादश योजनसहस्राणि सर्वाभ्यन्तरं मुहूर्तमात्रगम्यंतापक्षेत्रंमुक्त्वा शेषेमध्यमेतापक्षेत्रे पञ्चदशमुहूर्तप्रमाणेपञ्च पञ्चयोजनसहस्राणि गच्छतीति पञ्चानां योजनसहस्रणां पञ्चदशभिर्गुणने पञ्चसप्ततिर्योजनसहस्राणि सर्वाभ्यन्तरे तु मुहूर्त्तमात्रगम्येतापक्षेत्रेचत्वारियोजनसहस्राणि गच्छतीति सर्वमीलने एकनवतिर्योजनसहनााणि भवन्ति, न चैतान्यन्यथा घटन्ते, तथा 'ताजया न मित्यादि, तत्र यदा सर्वबाह्यमण्डलमुपसंक्रम्य सूर्यश्चारं चरति तदा रात्रिंदिवं-रात्रिंदिवपरिमाणं तथैव-प्रागिव वेदितव्यं, तच्चैवम् 'तयाणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राईभवइ, जहन्नएदुवालसमुहुत्ते दिवसे भवई' इति, तस्सिंच ण'मित्यादि, तस्मिंश्च सर्वबाह्यमण्डलगते द्वादशमुहूर्तप्रमाणे दिवसेतापक्षेत्रं प्रज्ञप्तं, एकषष्टिर्योजनसहनाणि तानिचैवं घटा प्राञ्चन्ति-उदगमनमुहूर्तअस्तमयमुहूर्तेच प्रत्येक षट्पट्योजनसहम्माणि गच्छन्ति, तत उभयमीलने द्वादशयोजनसहम्नाणिभवन्ति सर्वाभ्यन्तरं मुहूर्तमात्रगम्यंतापक्षेत्रंमुक्त्वाशेषे मध्यमे तापक्षेत्रे नवमुहूर्तगम्यप्रमाणे पञ्चपञ्च योजनसहनाणि एकैकेन मुहूर्तेन गच्छति, ततः पञ्चानां योजनसहनणां नवभिर्गुणने पञ्चचत्वारिंशद्योजनसहनाणि भवन्ति सर्वाभ्यन्तरे तु मुहूर्त्तमात्रगम्ये तापक्षेत्रे चत्वारि योजनसहस्राणि गच्छति, सर्वमीलने एकषष्टिर्योजनसहनाणि, नचैतान्यन्यथोपपद्यन्ते,ततः 'तयाण मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले सर्वबाह्यमण्डलचारकाले चोक्तप्रकारेण षडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, अत्रैवोपसंहारः- 'एगेएव०' एके चतुर्थावादिन एवं अनन्तरोक्तेन प्रकारेणाहुः । तदेवं परतीर्थ-कप्रतिपत्तीरुपदर्य सम्प्रति स्वमतमुपदर्शयति वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-"ता साइरेगाई'इत्यादि, ता इति पूर्ववत् सातिरेकाणि-समदिकानि पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन णुहूर्तेन गच्छति, इह क्वापि मण्डले कियताऽधिकेन पञ्चपञ्च योजनसहस्राणिगच्छति, ततः सर्वमण्डलप्राप्तिमपेक्ष्य सामान्यत उक्तं सातिरेकाणीति, एवमुक्तेभगवान् गौतमस्वामी स्वशिष्याणां स्पष्टावबोधनाय भूयः पृच्छति 'तत्थे'त्यादि, तत्र-एवंविधायामनन्तरोदितायांवस्तुव्यवस्थायांको हेतुः-का उपपत्तिरिति वदेत्, भगवान् वर्द्धमानस्वामी आह-'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत्स्वयं परिपूर्ण परिभावनीयं । ‘ता जया न'मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा पञ्चपञ्च योजनसहनाणि द्वे द्वे योजनशतेएकपञ्चाशदधिके एकोनत्रिंशतंच पष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्ति , कथमेतदवसीयते इति चेत्, उच्यते, इह द्वाभ्यां सूर्याभ्यामेकं मण्डलमेकेनाहोरात्रेण परिसमाप्यते, आहोरात्रश्च त्रिशन्मुहूर्तप्रमाणः, प्रतिसूर्यं चाहोरात्रगणने परमार्थतो द्वाभ्यामहोरात्राभ्यां मण्डलं परिभ्रमणतः परिसमाप्यते, द्वयोश्चाहोरात्रप्रमाणयोर्मूहूत्ताः पष्टिर्भवन्ति, ततो मण्लपरिरयस्य षष्टया भागं हारयेत्, भागलब्धं भवति तन्मुहर्तगतिप्रमाणं, तत्र सर्वाभ्यन्तरे मण्डले परिरयप्रमाणं त्रीणि लक्षाणि पञ्चदश सहस्राणि नवाशी त्यधिकानि ३१५०८९अस्य षष्टया भागे ह्वते लब्धं यथोक्तं मुहूर्तगतिपरिमाणमिति । अत्रास्मिन् सर्वाभ्यन्तरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy