________________
प्राभृतं २, प्राभृतप्राभृतं - ३
५९
तत्र तेषां चतुर्णां वादिनां मध्ये एके एवमाहुः - षट् २ योजनसहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति, अत्रैवोपसंहारः 'एगे एवमाहंसु' १ । एवमग्रेतनान्युपसंहारवाक्यानि भावनीयानि, एकेपुनर्द्वितीया एवमाहुः–पञ्च २ योजनसहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति २, एके पुनस्तृतीया एवमाहुः - चत्वारि २ योजन- सहस्राणि सूर्य एकैकन मुहूर्त्तेन गच्छति, ३ ।
अपरे पुनश्चतुर्था एवमाहुः - षडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, तदेवं चतोऽपि प्रतिपत्तीः सङक्षेपत उपदर्श्य सम्प्रत्येतासां यथाक्रमं भावनिकामाह'तत्थे'त्यादि, तत्र ये ते वादिन एवमाहुः - षट् षट् योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति ते एवमाहुः - यदा सूर्य सर्वाभ्यन्तरं मण्डलमुपसंक म्य चारं चरति तदा उत्तमकाष्ठाप्राप्तःपरमप्रकर्षप्राप्तोऽष्टादशमुहूर्ती दिवसो भवति सर्वजघन्या च द्वादशमुहूर्त्ता रात्रि, तस्मिंश्च दिवसे तापक्षेत्रं प्रज्ञप्तं एकं योजनशतसहस्रमष्टौ च योजनसहस्राणि, तथाहि - तस्मिन्नपि मण्डले उदयमानः सूर्योदिवसस्यार्द्धेन यावन्मात्रं क्षेत्रं व्याप्नोति तावति व्यवस्थितश्चक्षुर्गोचरमायाति तत एतावत्किल पुरतस्तापक्षेत्रं, यावच्च पुरतस्तापक्षेत्रं तावत्पश्चादपि, यत उदयमान इवास्तम्यमानोऽपि सूर्यो दिवसस्यार्द्धेन यावन्मात्रं क्षेत्रं व्याप्नोति तावति व्यवस्थितश्चक्षुषोपलभ्यते, एतच्च प्रतिप्राणि सुप्रसिद्धं, सर्वाभ्यन्तरे च मण्डले दिवसस्यार्द्धनव मुहूर्त्तास्ततोऽष्टादशभिर्मुहूर्तैर्यावन्मात्रं क्षेत्रं गम्यं तावत्प्रमाणं तापक्षेत्रं, एकैकेन मुहर्त्तेन षट् षट् योजनसहस्राणि गम्यन्ते, ततः षण्णां योजनसहस्राणामष्टादशभिर्गुणने भवत्येकं योजनशतसहस्रमष्टौ योजनसहस्राणीति,
एवमुत्तरत्रापि तत्तन्मण्डलगतदिवसपरिमाणं प्रतिमुहूर्त्तगतिपरिमाणं च परिभाव्य तापक्षेत्रपरिमाणभावना भावनीया, यदा च सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्ता अष्टादशमुहूर्त्ता रात्रिर्भवति सर्वजघन्यश्च द्वादशमुहूर्ती दिवसः, तस्मिंश्च दिवसे तापक्षेत्रपरिमाणं द्विसप्ततिर्योजनसहस्राणि तदा हि तापक्षेत्रं द्वादशमुहूर्त्तगम्यप्रमाणं, अत्रार्थे च भावना प्रागुक्तानुसारेण स्वयं भावनीया, मुहूर्त्तेन च षट्षट् योजनसहस्राणि गच्छति, ततः षण्णां योजनसहस्रणां द्वादशभिर्गुणने भवन्ति द्वासप्ततिरेव योजनसहसाणीति, इमामेवोपपत्तिं लेशत आह 'तेसिन' मित्यादि, तेषां हि तीर्थान्तरीयाणां मतेन सूर्य षट् षड् योजनसहस्रण्येकैकेन मुहूर्त्तेन गच्छति ततः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले यथोक्तमेव तापक्षेत्रपरिमाणं भवतीति, तथा‘तत्थे’त्यादि, तत्र-तेषां वादिनां मध्ये ये ते एवमाहुः - पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति त एवमाहुः - यदा सूर्य सर्वाभ्यन्तरं मण्डलमुपसंक म्य चारं चरति 'तहेव दिवसराइप्पमाण’मिति अत्र प्रस्तावे दिवसरात्रिप्रमाणं तथैव-प्रागिव द्रष्टव्यं, 'तयाणं उत्तमकट्टपत्ते उक्कसए अट्ठारसमुहुत्ते दिवसे हवइ, जहन्निया दुवालसमुहुत्ता राई' इति, 'तस्सिं च न' मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्त्तप्रमाणे दिवसे तापक्षेत्रं-तापक्षेत्रपरिमाणं प्रज्ञप्तं नवतिर्योजनसहस्राणि, तदा हि प्रागुक्तयुक्तिवशादष्टादशमुहूर्त्तप्रमाणं तापक्षेत्रं, एकैकेन च मुहूर्तेन गच्छति सूर्य पञ्च २ योजनसहस्राणि ततः पञ्चानां योजनसहस्रणामष्टादशभिर्गुणनेन नवतिरेव योजनसहस्राणि भवन्ति, 'ता जया ण 'मित्यादि, यदा सूर्य सर्वबाह्यं मण्डलमुपसंक म्य चारं चरति तदा 'तं चेव राइंदियप्पमाण' मिति, तदेव प्रागुक्तं रात्रिंदिवप्रमाणं- रात्रिदिवसप्रमाणं वक्तव्यं, तद्यथा-‘“उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई हवइ जहन्निए दुवाल समुहुत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-