________________
प्राभृतं २, प्राभृतप्राभृतं- १ अधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्याल्लोकान्तादूर्ध्वमाकाशे प्रातः सूर्य उद्गच्छति, एवं सर्वदापि द्रष्टव्यं, अत्रोपसंहारः ‘एगे एवमाहंसु' ३।
एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्ध्वं प्रातः सूर्यो देवतारूपस्तथाविधपुराणप्रसिद्धः पृथिवीकाये-पृथिवकायमध्ये उदयभूधरशिरसि उत्तिष्ठति-उत्पद्यते, सचोत्पन्नःसन्निमंमनुष्यलोकं तिर्यक्करोति, तिर्यक्परिभ्रमनिमं मनुष्यलोकंप्रकाशयतीत्यर्थ,तिर्यक त्वापश्चिमे लोकान्ते सायंसान्ध्येसमयेसूर्यपृथिवीकाये-अस्तमयभूधरशिरसि विध्वंसते-विध्वंसमुपयाति, एवंप्रतिदिवसं सकलकालं जगस्थिति परिभावनीया, अत्रोपसंहारः ‘एगे एवमाहंसु'४।
एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्ध्व प्रातः सूर्योदेवतारूपः सदावस्थायी पृथ्वीकायेउदयभूधरशिरसि उत्तिष्ठति-उद्गच्छति, स चोद्गतः सन्निमंप्रत्यक्षत उपलभ्यमानं तिर्यग्लोकं तिर्यक्करोति, तिर्यककृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये पृथिवीकायं-अस्तमयभूधरमनुप्रविशति, प्रविश्यचाधः प्रत्यागच्छति-अधोभागवर्त्तिनं लोकंप्रकाशयन् प्रतिनिवर्त्तते, ततः पुनरप्यवरमुवः-अधोमुवः पृथिव्याअधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्याल्लोकान्तादूर्ध्वप्रातः सूर्यपृथिकाये-उदयभूधरशिरसि उत्तिष्ठति, एतोऽपि भूगोलवादिनः परंपूर्वे आकाशे उत्तिष्ठतीति प्रतिपन्नाः एतेतु पर्वतशिरसीति शेषः, अत्रैवोपसंहारः ‘एगे एवमाहंसु' ५।
एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्वप्रातः सूर्योऽप्काये-पूर्वसमुद्रे उत्तिष्ठति-उत्पद्यते, सचोत्पन्नः सन्निमं-प्रत्यक्षत उपलभ्यमानं तिर्यग्लोकं तिर्यक्करोति, तिर्यक्कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये सूर्योऽप्काये-पश्चिमसमुद्रे विध्वंसमुपगच्छति, एवं सर्वदापि, अत्रोपसंहारः “एगे एवमाहंसु' ६ । एके पुनरेव माहुः-पौरस्त्याल्लोकान्तादूर्ध्वं प्रातः सूर्य सदावस्थायी पुराणशास्त्रप्रसिद्धो-ऽप्काये-पूर्वसमुद्रे उत्तिष्ठति-उद्गच्छति, सचोद्गतः सन्निमं तिर्यग्लोकं तिर्यक्करोति, तिर्यक् परिभ्रमन्निमं तिर्यग्लोकं प्रकाशतीत्यर्थः, तिर्यक् कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये सूर्योऽप्कायं-पश्चिमसमुद्रमनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छतिअदोभागवर्तिलोकंप्रकाशयन्प्रतिनिवर्ततइतिभावः, अधःप्रत्यागत्य चावरभुवः-अधःपृथिव्या अधोभागाद्विनिर्ग-त्येत्यर्थ, पौरस्त्याल्लोकान्तादूर्ध्वंप्रातः सूर्योऽप्कायेपूर्वसमुद्रेउत्तिष्ठति उद्गच्छति, एवं सकलकालमपि, अत्रैवोपसंहारः ‘एगे एवमाहंसु'७।
एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्ध्वं प्रथमतो बहूनि योजनानि ततः क्रमेण बहूनि योजनशतानि तदनन्तरं क्रमेण बहूनि योजनसहस्राणि दूरमूर्ध्वमुत्प्लुत्य-बुद्धया गत्वा अत्रअस्मिनवकाशे प्रातः सूर्यो देवतारूपः सदावस्थायी उत्तिष्ठति-उद्गच्छति, स चोद्गतः सन्निमं दक्षिणार्द्धलोकं-दक्षिणदिग्भाविनमर्द्धलोकं, दक्षिणं लोकस्यामित्यर्थ, तिर्यकरोति-तिर्यकपरिभ्रमन् दक्षिणलोकार्द्धप्रकाशयतीत्यर्थः, दक्षिणं चालोकं तिर्यक्कुर्वन्तदैवोत्तरमर्द्धलोकंरात्रौ करोति, ततः स सूर्यक्रमेणेममर्द्धलोकमुत्तरं तिर्यकरोति, तत्रापि तिर्यक परिभ्रममन उत्तरमर्द्धलोकं प्रकाशयतीत्यर्थ, उत्तरं चार्द्धलोकं तिर्यकपरिभ्रमणेन प्रकाशयन् तदैव दक्षिण-मर्द्धलोकं रात्रौ करोति, ततःस सर्व इमौ दक्षिणोत्तराद्धलोकौ तिर्यक त्वा भूयोऽपिपौरस्त्याल्लोकान्तादूर्वप्रथमतो बहूनि योजनानि गत्वा ततः क्रमेण बहूनि योजनशतानि तदनन्तरं बहूनि योजनसहस्राणि दूरमूर्ध्वमुत्प्लुत्य-बुद्धया गत्वा अत्र-अस्मिन्नवकाशे प्रातः सूर्य आकाशे उत्तिष्ठति-उद्गच्छति, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org