________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/१/३१ रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो अट्ठजोयणसताइं उलु उप्पतित्ता एत्थ णं पादोदुवे सूरिया उत्तिट्ठति, तेणंइमाइंदाहिणुत्तराई जंबुद्दीवभागाई तिरियंकाति २ ता पुरथिमपञ्चत्थिमाइंजंबुद्दीवभागाइंतामेवरातो। तेणं इमाइंपुरच्छिमपञ्चत्थिमाइंजंबुद्दीवभागाइं तिरियं कातिर त्ता दाहिणुत्तराइंजंबुद्दीवभागाइंतामेवरातो, ते णंइमाइंदाहिणुत्तराइंपुरच्छिमपञ्चत्थिमाणि य जंबुद्दीवभागाइं तिरियं करेति २ ता जंबुद्दीवस्स २ पाईणपडियायतओदिणदाहिणाययाए जीवाए मंडलंचउव्वीसेणंसतेणंछेत्ता दाहिणपुरच्छिमिल्लंसि उत्तरपञ्चथिमिल्लंसियचउभागमंडलंसि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो अट्ठ जोयणसयाइं उड़े उप्पइत्ता, एत्थ णं पादो दुवे सूरिया आगासंसि उत्तिट्ठति ।
वृ. ‘ता कहं तेरिच्छगई' इत्यादि, अस्त्यन्यदपि प्रभूतं प्रष्टव्यं परं एतावदेव तावत्पृच्छामि कथं 'ते' त्वया भगवन् ! सूर्यस्य तिर्यग्गति-तिर्यकपरिभ्रमणमाख्याता इति वदेत्, एवमुक्ते भगवान्एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्या भावोपदर्शनार्थंप्रथमतस्ता एव प्रतिपत्तीरुपन्यस्यति
'तत्थ खलु' इत्यादि, तत्र-तस्यां सूर्यस्य तिर्यग्गतौ-तिर्यग्गतिविषये स्वल्विमावक्ष्यमाणस्वरूपा अष्टौ प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाःप्रज्ञप्ताः, ता एव क्रमेणाह'तत्थेगे'इत्यादि, तत्र-तेषामष्टानां परतीर्थिकानां मद्ये एके परतीर्थिका एवमाहुः, 'ता' इति पूर्ववत् पौरस्त्याल्लोकान्तादूर्ध्वमिति गम्यते, पूर्वस्यां दिशीतिभावार्थ, प्रातः-प्रभातसमयेमरीचिमरीचिसङ्घातः किरणसङ्घात इत्यर्थः, आकाशे उत्तिष्ठति-उत्पद्यते, एतेन एतदुक्तं भवति-नैतद्विमानं नापि रथो नापि कोऽपि देवतारूपः सूर्य किन्तु किरणसङ्घात एवैष वर्तुलगोलाकारो लोकानुभावा- प्रतिदिवसं पूर्वस्यां दिशि प्रातराकाशे समुत्पद्यते, यतः सर्वत्र प्रकाशःप्रसरमधिरोहति, सइत्थंभूतो मरीचिसङ्घात उपजातः सन्णमिति वाक्यालङ्कारेइम-प्रत्यक्षत उपलभ्यमानं लोकं-तिर्यग्लोकं तिर्यक्करोति, किमुक्तं भवति?-तिर्यक् परिभ्रमन्निमंतिर्यग्लोकं प्रकाशयतीति, तिर्यक् कृत्वा पश्चिमे लोकान्ते सायं-सान्ये समये विध्वंसते, अत्रोपसंहारः-‘एगे एवमाहंसु' तथा जगत्स्वाभाव्यात् स मरीचिसङ्घात आकाशे विध्वंसते-विध्वंसमुपयाति एवं सकलकालमपि, अत्रैवोपसंहारः, ‘एगे एवमाहंसु' १ एके पुनरेवमाहुः-पौरस्त्यावल्लोकान्तादूर्ध्वं प्रातः सूर्यो लोकप्रसिद्धो देवतारूपो भास्करस्तथाजगत्स्वाभाव्यादाकाशे उत्पद्यते, स चोत्पन्नः सन्निमं तिर्यग्लोकं तिर्यकरोति-तिर्यक् परिभ्रमन्निमं लोकं प्रकाशयतीत्यर्थः, तिर्यक् च कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये आकाशे विध्वंसते अत्रोपसंहारः ‘एगे एवमाहंसु' २।
एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्ध्वं प्रातः सूर्यो देवतारूपः सदावस्थायीतथाविधपुराणशास्त्रप्रसिद्ध आकाशे उत्तिष्ठति-उद्गच्छति, स चोद्गतः सनिमं प्रत्यक्षत उपलभ्यमानं मनुष्यलोकं तिर्यक् करोति तिर्यक्च कृत्वा पश्चिमलोकान्ते सायं-सन्ध्यासमये अधआकाशम
शति, प्रविश्य चाधः प्रत्यागच्छति-अधोभागेन प्रत्यागच्छति, अधोलोकंप्रकाशयन् प्रतिनिवर्त्तत इत्यर्थः, तन्मतेन हि भूरियं गोलाकारालोकाऽपिच गोलाकारतया व्यवस्थितः, इदं च मतं सम्प्रत्यपि तीर्थान्तरीयेषु विजम्भते, ततस्तदगतं पुराणशास्त्रदेतत्सम्यगवसेयं, अस्य त्रयो भेदाः, एके एवमाहुः-प्रातः सूर्य आकाशे उदग्छति, अपरे आहुः-पर्वतशिरसि, अन्ये आहुः-समुद्रे इति, तत्र प्रथमानामिदं मतमुपन्यस्तं, अधः प्रत्यागत्य च पुनरप्यवरमुवः-अधोभुवः पतिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org