________________
३१४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/२१० श्रृणोमिचततःशोभनं भवतीति परिणाम उपजायते कर्म-वन्दनादिलक्षणं बलं-शारीरोवाचनादिविषयः प्राणः वीर्य-अनुप्रेक्षायां सूक्ष्मसूक्ष्मार्थोहनशक्ति पुरषकारः-तदेव वीर्यं साधिताभिमतप्रयोजनं, एतैः कारणैः यः स्वयं शिक्षितोऽपि- गृहीतसूर्यप्रज्ञप्तिसूत्रार्थोभयोऽपि सन् यो दाक्षिण्यादिना अन्तेवासिनि अभाजने-अयोग्ये प्रतिक्षिपेत्-सूत्रतोऽर्थत उभयतो वा न्यसेत् । मू. (२११) सोपवयणकुलगणसंघबाहिरो नाणविनयपरिहीणो।
अरहंतथेरगणहरमेरं किर होति वोलीणो॥ वृ. सोपयवणे त्यादिसप्रवचनकुलगणसङ्घबाह्यो ज्ञानविनयपरिहीणो-ज्ञानाचारपरिहीणो भगवदर्हत्स्थविरगणधरमर्यादां-भगवदर्हदादिकृतां व्यवस्थां भवति किल व्यतिक्रान्तः, किलेत्याप्तवादसूचकं, इत्थमाप्तवचनं व्यवस्थितं यथा स नूनं भगवदर्हदादिव्यवस्थामतिक्रन्त इति, तदतिक्रमे चदीर्घसंसारिता। मू. (२१२) तम्हा धितिउट्ठाणुच्छाहकम्मबलविरियसिक्खिअंनाणं।
धारेयव्वं नियमा न य अविनएसु दायव्वं ॥ वृ. 'तम्हे'त्यादि, तस्माद् धृत्युत्थानोत्साहकर्मबलवीर्यैर्यत् ज्ञानं-सूर्यप्रज्ञप्तयादि स्वयं मुमुक्षुणा सता शिक्षितं तनियमादात्मन्येवधर्तव्यं, नतुजातुचिदप्यविनीतेषु दातव्यं, उक्तप्रकारेण तद्दानेआत्मपरदीर्घसंसारित्वप्रसक्तः, तदेवमुक्तःप्रदानविधि।इयंचसूर्यप्रज्ञप्तिरर्थतोमिथिलायां नगर्यां भगवता वीरवर्द्धमानस्वामिनासाक्षादुक्ता, भगवांश्चास्य वर्तमानस्य तीर्थस्याधिपतिस्ततोऽर्थप्रनेतृत्वाद् वर्तमानतीर्थाधिपतित्वाच्च मङ्गलाई शास्त्रपर्यन्ते तन्नमस्कारमाहमू. (२१३) वीरवरस्स भगवतो जरमरणकिलेसदोसरहियस्स।
वंदामि विनयपणतो सोक्खुप्पाए सया पाए । वृ. 'वीरवरस्से'त्यादि, 'सूरवीर विक्रान्तौ' वीरयति स्म वीरः, सच नामादिभेदाच्चतुर्द्धा भिद्यमानो-नामवीरः स्थापनावीरोद्रव्यवीरोभाववीरश्च, तत्रयस्यजीवस्य अजीवस्य वा अन्वर्थरहितं वीर इति नाम क्रियते स नाम्ना वीरो नामनामवतोरभेदात् नाम चासौ वीरश्च नामवीरः, स्थापनावीरो वीरस्य-सुभटस्य स्थापना वीरवर्द्धमानस्वामिस्थापनात्, द्रव्यवीरो द्विधा
आगमतो नोआगमतश्च, तत्रआगमतोज्ञाता तत्र चानुपयुक्तः, अनुपयोगो द्रव्य मिति वचनात्, नोआगमतस्त्रिधा-तद्यथा-ज्ञशरीरद्रव्यवीरो भव्यशरीरद्रव्यवीरस्तदव्यतिरिक्तश्च, तत्र वीर इति पदार्थज्ञस्य यत् शरीरं जीवविप्रयुक्तं सिद्धशिलातलादिस्थितं तत् भूते द्रव्यवीरः, यत्पुनर्बालकस्य शरीरं वीर इति पदार्थमद्यापि नावबुध्यते अथ चावश्यमायत्यां भोत्स्यते स तथाविधभाविभावत्वात् भव्यशरीरद्रव्यवीरः, तद्वव्यतिरिक्तः स्वशत्रुविदारणसमर्थोऽनेकशः सङ्गामशिरसि लब्धजयपताकश्चक्रवत्यादिः ।
भाववीरोद्विधा, तद्यथा-आगमतोनोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तश्च वीरपदार्थे, नो आगमतो दुर्जयसमस्तान्तररिपुविदारणसमर्थः, तस्यैकान्तिकवीरत्वसद्भावात्, अनेनैवच नोआगमतो भाववीरेणाधिकारः तस्यैव वर्तमानतीर्थाधिपतित्वात् अतस्तत्प्रतित्यर्थं वरग्रहणं, वीरेषुवरः-प्रधानो वीरवरो-वर्द्धमानस्वामी तस्य भगवतः-अनुपमैश्वर्यादियुक्तस्य, वरग्रहणलब्धमेव भाववीरत्वंस्पष्टयति-'जरे'त्यादि, जरा-वयोहानिलक्षणा मरणं-प्राणत्यागरूपंक्लेशाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org