SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २६३ प्राभृतं १५, प्राभृतप्राभृतं - भवति तदा पौरस्त्या भागात्प्रथमतोऽभिजिन्नक्षत्रचन्द्रमसं समासादयति एतच्च प्रागेव भावितं समासाद्य च नव मुहूर्तान् दशमस्य च मुहूर्तस्य सप्तविशतिं सप्तषष्टिभागान् चन्द्रेण सार्द्ध योगं युनक्ति-करोति, एतदपि प्रागेव भावितं, एवंप्रमाणं कालं योगं युक्त्वा पर्यन्तसमये योगमनुपरिवर्तयति, श्रवणनक्षत्रस्ययोगसमर्पयतीति भावः, योगंचपरावर्त्य स्वेन सहयोगविजहाति, किंबहुना ?, विगतयोगी चापि भवत। _ 'ताजयाण'मित्यादि, ताइतिप्राग्वत्, यदाचन्द्रगतिसमापनमपेक्ष्य श्रवणनक्षत्रंगतिसमापन्नं भवति तदा तत् श्रवणनक्षत्रं प्रथमतः पौरस्त्याद्भागात्-पूर्वेणभागेनचन्द्रमसंसमासादयति, समासाद्य चन्द्रेण सार्द्ध त्रिंशतं मुहूर्तान् यावत् योगं युनक्ति, एवंप्रमाणं च कालं यावत् योगं युक्त्वापर्यन्तसमये योगमनुपरिवर्तयति, धनिष्ठानक्षत्रस्ययोगं समर्पयितुमारभतेइत्यर्थः, योगमनुपरिवर्त्य च स्वेन सह योगं विप्रजहाति, किंबहुना?, विगतयोगी चापि भवति । ___'एव'मित्यादि एवमुक्तेन प्रकारेणएतेनानन्तरोपदर्शितेनाभिलापेनयानिपञ्चदशमुहूर्तानि शतभिषगप्रभृतीनिनक्षत्राणि यानि त्रिंशन्मुहूर्तानिधनिष्ठाप्रभृतीनियानिचपञ्चचत्वारिंशन्मुहूर्तानि उत्तरभद्रपदादीनि तानि सर्वाण्यपि क्रमेण तावद् भणितव्यानि यावदुत्तराषाढा, तत्राभिलापः सुगमत्वात् स्वयं भावनीयो ग्रन्थगौरवभयात् नाख्यायते इति । सम्प्रति ग्रहमधिकृत्य योगचिन्तां करोति-'ताजयाणमित्यादिता इति पूर्ववत्यदाणमिति वाक्यालङ्क्तरेचन्द्रं गतिसमापन्नमपेक्ष्य ग्रहोगतिसमापन्नोभवति तदासग्रहःपौरस्त्याद्भागात्--पूर्वेणभागेनप्रथमतश्चन्द्रमसं समासादयति समासाद्य च यथासम्भवं योगंयुनक्ति, यथासम्भवं योगंयुक्त्वा पर्यन्तसमये यथासम्भवं योगमनुपरिवर्तयति, यथासम्भवमन्यस्य ग्रहस्य योगं समर्पयितुमारभते इति भावः, योगमनुवर्त्य च स्वेन सह योगं विप्रजहाति, किंबहुना?, विगतयोगी चापि भवति। ___ अधुना सूर्येण सह नक्षत्रस्ययोगचिन्तां करोति-'ता जयाण'मित्यादि, ता इति प्राग्वत्, यदा सूर्य गतिसमापन्नमपेक्ष्याभिजिन्नक्षत्रं गतिसमापनं भवति तदा तदभिजिनक्षत्रं प्रथमतः पौरस्त्याद्भागात्सूर्यं समासादयति समासाद्यचतुरः परिपूर्णान् अहोरात्रान् पञ्चमस्य चाहोरात्रस्य षड् मुहूर्तान् यावत् सूर्येण सह योगयुनक्ति, एवंप्रमाणंच कालं यावत्योगंयुक्त्वा पर्यन्तसमये योगमनुपरिवर्त्तयति, श्रवणनक्षत्रस्य योगं समर्पयितुमारभते इति भावः, अनुपरिवर्त्य च स्वेन सह योग विजहाति विप्रजहाति, किंबहुना ?, विगतयोगी चापि भवति । “एव'मित्यादि, एवमुक्तेनप्रकारेण पञ्चदशमुहूर्तानांशतभिषकप्रभृतीनांषट् अहोरात्राः सप्तमस्य अहोरात्रस्य एकविंशतिर्मुहूर्ताः त्रिंशन्मुहूर्तानांश्रवणादीनांत्रयोदशअहोरात्राश्चतुर्दशस्य अहोरात्रस्य द्वादश मुहूर्ताः पञ्चत्वारिंशन्मुहूर्तानामुत्तरभद्रपदादीनां विंशतिरहोरात्रा एकविंशतितमस्य चारोहात्रस्य त्रयो मुहूर्ताः क्रमेण सर्वेतावद् भणितव्याःयावदुत्तराषाढानक्षत्रं, तत्रोत्तराषाढानक्षत्रगतमभिलापं साक्षाद्दर्शयति-'ता जया णमित्यादि, सुगम, एतदनुसारेण शेषा अप्यालापाः स्वयं वक्तव्याः, सुगमत्वात्तु नोपदर्श्यन्ते। सम्प्रति सूर्येण सह ग्रहस्य योगचिन्तां करोति-'ता जया णमित्यादि सुगमं ॥ अधुना चन्द्रादयो नक्षत्रेण मासेन कति मण्डलानि चरन्तीत्येतन्निरूपयितुकाम आहमू. (११३) ता नक्खत्तेणं मासेणं चंदे कति मंडलाइंचरति?, ता तेरस मंडलाइंचरति, www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy