________________
प्राभृतं १३, प्राभृतप्राभृतं -
२५७
तृतीयं पौरस्त्यमर्द्धमण्डलं परिसमाप्तं भवति, आत्मना परेण च चीर्णान् प्रतिचरति, एतावता सर्वबाह्यान्मण्डलादर्वाक्तनं तृतीयं पौरस्त्यमर्द्धमण्डलं परिसमाप्तं भवति, सप्तषष्ट्रेरपि भागानां परिपूर्णतया जातत्वात्, 'ता' इत्यादि, ततस्तस्मिन्नेव तृतीयायनगते चन्द्रे पश्चिमे भागे प्रविशति सर्व बाह्यान्मण्डलादर्वाक्तनस्य चतुर्थस्य पाश्चात्यस्यार्द्धमण्डलस्याष्टौ सप्तषष्टिभागा एकं च सप्तषष्टिभागमेकत्रिंशद्धा छित्वा तस्य सत्का अष्टादश भागास्ते वर्त्तन्ते यान् चन्द्र आत्मना परेण च चीर्णान् प्रतिचरति, एतावता च परिभ्रमणेन चान्द्रो मासः परिपूर्णो जातः ।
सम्प्रति पूर्वोक्तमेव स्मरयन् चन्द्रमासगतमुपसंहारमाह- 'एवं खलु चंदेणं मासेण 'मित्यादि, एवं-उक्तेन प्रकारेण खलु निश्चितं चान्द्रेण मासेन चन्द्रे त्रयोदश चतुष्पञ्चाशत्कानि जातानि द्वे च त्रयोदशके यानि चन्द्रः परेणैव चीर्णानि प्रतिचरति, वर्त्तमानकालनिर्द्देशः सकलकालयुगस्य प्रथमे चान्द्रे मासे एवमेव द्रष्टव्यमिति ज्ञापनार्थः, तत्र त्रयोदशापि चतुःपञ्चाशत्कानि द्वितीयेऽयने, तत्रापि सप्तचतुःपञ्चाशत्कानि पूर्वभागे षट्पाश्चात्ये भागे, ये च द्वे त्रयोदशके ते द्वितीयस्यायनस्योपरि चन्द्रमासावधेरर्वाक् द्रष्टव्ये, तत्रैकं त्रयोदशकं सर्वबाह्यादवाक्तने द्वितीये पाश्चात्येऽर्द्धमण्डले द्वितीयं पौरस्त्ये तृतीयेऽर्द्धमण्डले, तथा 'तेरसे' त्यादि, त्रयोदश त्रयोदशकानि यानि चन्द्र आत्मनैव चीर्णानि प्रतिचरति, एतानि च सर्वाण्यपि द्वितीयेऽयने वेदितव्यानि, तत्रापि सप्त पूर्वभागे षट् पश्चिमभागे, तथा 'दुवे' इत्यादि, द्वे एकचत्वारिंशत्के द्वे च त्रयोदशके अष्टौ सप्तषष्टिभागा एकं च सप्तषष्टिभागमेकत्रिंशद्धा छित्वा तस्य सत्का अष्टादश भागा यान्येतानि चन्द्र आत्मना परेण च चीर्णानि प्रतिचरति, तत्र एकेकचत्वारिंशत्कमेकं च त्रयोदशकं द्वितीयायनोपरि सर्वबाह्यात् मण्डलादर्वाक्तने द्वितीये पाश्चात्येऽर्द्धमण्डले द्वितीयमेकचत्वारिंशत्कं द्वितीयं च त्रयोदशकं सर्वबाह्यात् मण्डलादर्वाक्तने तृतीये पौस्त्ये शेषं पाश्चात्ये सर्वबाह्यादर्वाक्तने चतुर्थेऽर्द्धमण्डले, अधुनोपसंहारमाह- 'इच्चेसा' इत्यादि, इत्येषा चन्द्रमसः संस्थितिरिति योगः, किंविशिटेत्याह- 'अभिगमन- निष्क्रमणवृद्धि० अभिगमनं सर्वबाह्यान्मण्डलादभ्यन्तरं प्रवेशनं, निष्क्रमणं–सर्वाभ्य-न्तात्मण्डलाद्बहिर्गमनं वृद्धि - चन्द्रमसः प्रकटताया उपचयो निर्वृद्धि-यथोक्तस्वरूपवृद्धयभावः, एताभिरनवस्थितं - संस्थानं, अभिगमनिष्क्रमणे अधिकृत्यानवस्थानं वृद्धिनिवृद्धी अपेक्ष्य संस्थानं-आकारो यस्याः सा तथारूपा संस्थिति, तथा परिदृश्यमानचन्द्रविमानस्याधिष्ठाता विकुर्वणर्द्धिप्राप्तो रूपी - रूपवान् अत्रातिशयने मत्वर्थीयोऽतिशयरूपवान् चन्द्रो देव आख्यातो नतु परिध्श्यमानविमानमात्रश्चन्द्रो देव इति वदेत् स्वशिष्येभ्यः ॥ प्राभृतं - १३ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे त्रयोदशप्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता ।
प्राभृतं - १४
वृ. तदेवमुक्तं त्रयोदशं प्राभृतं, सम्प्रति चतुर्द्दशं वक्तव्यं, तस्य चायमर्थाधिकारो यथा - 'कदा ज्योत्स्ना प्रभूता भवतीति ततस्तद्विषयं प्रश्नसूत्रमाह
12 17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org