________________
प्राभृतं १२, प्राभृतप्राभृतं
२३७ शतैर्नवनवत्यधिकैः पुनर्वस्वन्तानिशुद्धयन्ति, ततस्त्रिंशता मुहूत्तैः पुष्यः पञ्चदशभिरश्लेषात्रिंशता मघा त्रिंशता पूर्वफाल्गुनी पञ्चचत्वारिंशता उत्तरफाल्गुनीति, तथा षट् शतान्येकोनसप्तानिएकोनसप्तत्यधिकानि विशाखानां-विशाखापर्यन्तानां नक्षत्रणांशोध्यानि, तथाहि-उत्तरफाल्गुन्यन्तानां पञ्च शतान्येकोनपञ्चाशदधिकानिशोध्यानि, ततस्त्रिंशन्मुहूर्ता हस्तस्य त्रिंशत् चित्रायाः पञ्चदश स्वातेः पञ्चचत्वारिंशद्विशाखाया इति, तथा मूले-मूलनक्षतरे शोध्यानि सप्त शतानि चतुश्चत्वारिंशदधिकानि, तत्रषट्शतान्येकोनसप्तत्यधिकानि विशाखान्तानां नक्षत्राणांशोध्यानि, ततः त्रिंशन्मुहूर्ताअनुराधायाः पञ्चदशज्येष्ठायास्त्रशन्मुलस्येति, तथा अष्टौ शतानि समाहृतानि अटशतमेकोनविंशत्यधिकं, किमुक्तं भवति-अष्टौ शतान्येकोनविंशत्यधिकानि उत्तरापाढानां-उत्तराषाढान्तानां नक्षत्राणां शोधनकं; तथाहि-मूलान्तानां नक्षत्राणां शोध्यानि सप्त शतानि चतुश्चत्वारिंशदधिकानि, तत्र त्रिंशन्मुहूर्ताः पूर्वाषाढानक्षत्रस्य पञ्चचत्वारिंश-दुत्तराषाढानामिति, तथा सर्वेषामपिचामूनांशोधनकानामुपरि अभिजितः सम्बन्धिनश्चतुर्विंशति-षष्टिभागाः शोध्याः, एकस्य च द्वाषष्टिभागस्य सत्काः षट्पष्टिश्चूर्णिका भागाः। _ एयाई' इत्यादि, एतानि-अनन्तरोदितानि शोधनकानि यथासम्भवं शोधयित्वा यत् शेषमुद्धरति तत्र यथायोगमपान्तरालवर्तिषु नक्षत्रेषु शोधितेषु यन्नक्षत्रं न शुद्धयति तन्नक्षत्रं चन्द्रेण समायुक्तं विवक्षितायामावृत्तौ वेदितव्य, तत्र प्रथमायामावृत्तौ प्रथमतः प्रवर्तमानायां केन नक्षत्रेण युक्तश्चन्द्र इति यदि जिज्ञासा ततः प्रथमावृत्तिस्थाने एकको ध्रियते, स रूपोनः क्रियतइति न किमपि पश्चाद्रूपमवतिष्ठते, ततः पाश्चात्ययुगभाविनीनामावृत्तीनांमध्ये या दशमी आवृत्तिस्तत्सङ्ख्या दशकरूपा ध्रियते, तया प्राचीनः समस्तोऽपि ध्रुवराशिपञ्चशतानि त्रिसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य च षट्त्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट् सप्तषष्टिभागाः इत्येवंप्रमाणे दशभिर्गुण्यते।
-तत्र मुहूर्तराशौ दशभिर्गुणिते जातानि सप्तपञ्चाशच्छतानि त्रिंशदधिकानि , येऽपिच पत्रिंशत्द्वापष्टिभागाः तेऽपि दशभिर्गुणिताजातानि त्रीणिशतानिषष्ट्यधिकानि तेषांद्वाषष्ट्या भागो हियते लब्धाः पञ्च मुहूर्तास्ते पूर्वराशौ प्रक्षिप्यन्ते जातः पूर्वराशि सप्तपञ्चाशच्छ- तानि पञ्चत्रिंशदधिकानि, शेषाणि तिष्ठन्ति द्वाषष्टिभागाः पञ्चाशत् , येऽपिषट्चूर्णिका भागास्तेऽपि दशभिर्गुणिता जाता षष्टिस्तत एतस्माच्चोधनकानि सोध्यन्ते, तत्रोत्तराषा- ढान्तानां नक्षत्राणां शोधनकमष्टौ शतान्येकोनविंशत्यधिकानि, तानिकिल यथोदितराशौ सप्तकृत्वः शुद्धिमाप्नुवन्तीति सप्तभिर्गुण्यन्ते, जातानि सप्तपञ्चाशच्छतानि त्रयस्त्रिंशदधिकानि , तानि सप्तपञ्चाशच्छतेभ्यः पञ्चत्रिंशदधिकेभ्यः पात्यन्ते, स्थितौ पश्चात् द्वौ मुहूत्र्ती, तौ द्वाषष्टिभागीकरणार्थं द्वाषष्ट्या गुण्येते, जातं चतुर्विंशं शतं द्वाषष्टिभागानां तत्प्राक्तने पञ्चाशल्लक्षणे द्वाषष्टिभागराशौ प्रक्षिप्यते जातं चतुःसप्तत्यधिकं शतं द्वापष्टिभागानां , तथा येऽभिजितः सम्बन्धिनः चतुर्विंशतिषिष्टिभागाः शोध्याः ते सप्तभिर्गुण्यन्ते जातमष्टषष्ट्यधिकं शतं , तत चतुःसप्तत्यधिकात् शतात् शोध्यते, स्थिताः शेषाः षट् द्वा,प्टिभागाः, ते चूर्णिकाभाग- करणार्थं सप्तषष्ट्या गुण्यन्ते गुणयित्वा च ये प्राक्तनाः षष्टि सप्तषष्टिभागास्ते तत्र प्रक्षिप्यन्ते, जातानि चत्वारिशतानि द्वाषट्यधिकानि, ततो येऽभिजितः सम्वन्धिनः षट्षष्टिश्चूर्णिका भागाः शोध्याः ते सप्तभिर्गुण्यन्ते, जातानि चत्वारि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org