SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २३६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१०४ } गुण्यन्ते, जातं नवाशीत्यधिकं शतं, तस्याद्येन राशिना दशकलक्षणेनभागे हृते लब्धाः अष्टादश दिवसाः, ते च मुहूर्त्तानयनाय त्रिंशता गुण्यन्ते, जाते द्वे शते सप्तत्यधिके, ततो दशभिर्भागे लब्धाः सप्तविंशतिर्मुहूर्ताः, ते पूर्वस्मिन् मुहूर्तराशौ प्रक्षिप्यन्ते, जातानि पञ्चशतानि सप्तषष्ट्यधिकानि, येऽपि च एकविंशति सप्तषष्टिभागादिनस्य तेऽपि मुहूर्त भागकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रिंशदधिकानि षट् शतानि तानि सप्तभिर्गुण्यन्ते, जातानि दशोत्तराणि चतुश्चत्वारिंशच्छतानि, तेषां दशभिर्भागे हृते लब्धानि चत्वारि शतान्येकचत्वारिंशदधिकानि तेषां सप्तषष्ट्या भागे हते लब्धाः षट् मुहूर्त्तास्ते पूर्वमुहूर्तराशौ प्रक्षिप्यन्ते जातानि सर्वसङ्घयया मुहूर्तानां पञ्च शतानि त्रिसप्तत्यधिकानि, शेषा चोद्धरति एकोनचत्वारिंशत् सा द्वाषष्ट्या गुण्यते जातानि चतुर्विंशति शतानि अष्टादशाधिकानि तेषां सप्तषष्ट्या भागो हियते लब्धाः षट्त्रिंशत् द्वाषष्टिभागाः शेषास्तिष्ठन्ति षट् तेच एकस्य च द्वाषष्टिभागस्य सत्काः सप्तषष्टिभागाः एते चातिश्लक्ष्णरूपा भागा इति चूर्णिका भागा व्यपदिश्यन्ते, तदेवमुक्तो ध्रुवराशि । सम्प्रति करणमाह-'आउट्टीहि ' इत्यादि, यस्यां यस्यामावृत्तौ नक्षत्रयोगो ज्ञातुमिष्यते तया तया आवृत्या एकोनिकया - एकरूपहीनया गुणितोऽनन्तरोक्तस्वरूपो भवेत यावान् एतन्मुहूतुणितं - मुहूर्त्तपरिमाणं, अत ऊर्ध्वं वक्ष्यामि शोधनकं, अत्र प्रथमतोऽभिजितो नक्षत्रस्य शोधनकमाह-'अभिइस्से'त्यादि, अभिजितः - अभिजिन्नक्षत्रस्य शोधनकं नव मुहूर्त्ता एकस्य च मुहूर्तस्य चतुर्विंशतिर्द्वाषष्टिभागः एकस्य च द्वि षष्टिभागस्य सत्काः सप्तषष्टिच्छेदकृताः समग्राः - परिपूर्णा षट्षष्टिभागाः, कथमेतस्योत्पत्तिरिति चेत्, उच्यते, इहाभिजितोऽहोरात्रसत्का एकविंशति सप्तषष्टिभागाः चन्द्रेण योगः, ततोऽहोरात्रे त्रिंशन्मुहूर्त्ता इति मुहूर्त्तभागकरणार्थं सा एक विंशति त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि, तेषां सप्तषष्ट्या भागो हियते, लब्धा नव मुहूर्ताः, शेषास्तिष्ठन्ति सप्तविंशति, ते द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यन्ते, जातानि षोडश शतानि चतुःसप्तत्यधिकानि तेषां सप्तषष्ट्या भागे हते लब्धाश्चतुर्विंशतिर्द्वाषष्टिभागाः, शेषास्तिष्ठन्ति पट्षष्टिः, ते च एकस्य द्वाषष्टिभागस्य सत्काः सप्तषष्टिभागाः । , सम्प्रति शेषनक्षत्राणां शोधनकान्युच्यन्ते- 'उगुणट्ठ' मित्यादि गाथात्रयं, एकोनषष्ट्यधिकं शतं प्रोष्ठपदा - उत्तरभद्रपदा, किमुक्तं भवइ ? – एकोनषष्ट्यधिकेन शतेनाभिजिदादीन्युत्तरभद्रपदान्तानि नक्षत्राणि शुद्धयन्ति, तथाहि -नव मुहूर्ता अभिजितो नक्षत्रस्य त्रिंशत् श्रवणस्य त्रिंशत् धनिष्ठायाः पञ्चदश शतिभिषजः त्रिंशत् पूर्वभद्रपदायाः पञ्चचत्वारिंशत् उत्तरभाद्रपदाया इति शुध्यन्त्येकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदान्तानि नक्षत्राणि, तथा त्रिषु नवोत्तरेषु शतेषु रोहिणिकारोहिणिकान्तानि शुद्धयन्ति, तथाहि - एकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदान्तानि शुद्धयन्ति, ततस्त्रिंशता मुहूर्ते रेवती त्रिंशताऽश्विनी पञ्चदशभिर्भरणी त्रिंशता कृत्तिका पञ्चचत्वारिंशता रोहिणिकेति, तथा त्रिषु नवनवत्यधिकेषु शतेषु पुनर्वसुः - पुनर्वस्वन्तानि शुद्धयन्ति, तत्र त्रिभिः शतैर्नवोत्तरै रोहिणिका-रोहिणिकांतानि शुद्धयन्ति, ततस्त्रिंशता मुहूर्तैर्मृगशिरः पञ्चदशभिरार्द्रा पंचचत्वारिंशता पुनर्वसुरिति, तथा पञ्च शतान्येकोनपञ्चाशानि - एकोनपञ्चाशदधिकानि उत्तरफाल्गुनीपर्यन्तानि, किमुक्तं भवति ? पञ्चभिः शतैरेकोनपञ्चाशदधिकैरुत्तरफाल्गुन्यन्तानि नक्षत्राणि शुद्धयन्ति, तथाहि - त्रिभि For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy