________________
प्राभृतं ११, प्राभृतप्राभृतं -
२११ वृ. ‘ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं-केन प्रकारेण भगवन् ! त्वया संवत्सराणामादिराख्यात इति वदेत् ?, भगवानाह-'तत्थ खलु'इत्यादि, तत्र-संवत्सरविचारविषये खल्विमे पञ्च संवत्सराः प्रज्ञप्ताः, तद्यथा-चन्द्रश्चन्द्रोऽभिवर्द्धितः चन्द्रोऽभिवर्द्धितः, एतेषां च स्वरूपंप्रागेवोपदर्शितं, भूयः प्रश्नयति-'ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषां पञ्चानां संवत्सराणां मध्ये प्रथमस्य चान्द्रस्य संवत्सरस्य क आदिराख्यात इति वदेत् ?, भगवानाह-'ता जेण'मित्यादि, यत्पाश्चात्ययुगवर्तिनःपञ्चमस्याभिवर्द्धितसंवत्सरस्य पर्यवसानं-पर्यवसानसमयः तस्मादनन्तरं पुरस्कृतो-भावी यः समयः स प्रथमस्य चन्द्रसंवत्सरस्यादि, तदेवं प्रथमसंवत्सरस्यादितिः । सम्प्रति पर्यवसानसमयं पृच्छति-'ता से णमित्यादि, ता इति पूर्ववत् स प्रथमश्चान्द्रसंवत्सरः किंपर्यवसितः-किंपर्यवसान आख्यात इति वदेत् ?, भगवानाह– 'ताजे ण'मित्यादि, यो द्वितीयस्य चान्द्रसंवत्सरस्यादि-आदिसमयस्तस्मादनन्तरो यः पुरस्कृतः -अतीतसमयः स प्रथमचान्द्रसंवत्सरस्य पर्यवसानं-पर्यवसानसमयः।
'तं समयं च ण'मित्यादि, तस्मिंश्चान्द्रसंवत्सरपर्यवसानभूते समये चन्द्रः केन नक्षत्रेण सहयोगंयुनक्ति-करोति?, भगवानाह-'ताउत्तराहिं' इत्यादि, इहद्वादशभिः पौर्णमासीभिश्चान्द्रः संवत्सरोभवति, ततोयदेवप्राक्द्वादश्यां पौर्णमास्यांचन्द्रनक्षत्रयोगपरिमाणंसूर्यनक्षत्रयोगपरिमाणं चोक्तं तदेवान्यूनातिरिक्तमत्रापि द्रष्टव्यं, तथैव गणितभावना कर्त्तव्या, एवं शेषसंवत्सरगतान्यादिपर्यवसानसूत्राणि भावनीयानि यावयाभृतपरिसमाप्ति, नवरंगणितभावना क्रियते तत्र द्वितीयसंवत्सरपरिसमाप्तिश्चतुर्विंशतितमपौर्णमासीपरिसमाप्तौ, तत्र ध्रुवराशिषट्षष्टिर्मुहूर्ताएकस्य च मुहूर्तस्यपञ्चद्वाषष्टिभागाएकस्यचद्वाषष्टिभागस्य एकः सप्तषष्टिभागः इत्येवंप्रमाणश्चतुर्विंशत्या गुण्यते ,जातानि पञ्चदश शतानि चतुरशीत्यधिकानि मुहूर्तानां मुहूर्तगतानां च द्वाषष्टिभागानां विंशत्युत्तरं शतमेकसय च द्वाषष्टिभागस्य चतुर्विंशति सप्तषष्टिभागाः तत एतस्मादष्टभिः मुहूर्तशतैरेकोनविंशत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरेकः परिपूर्णोनक्षत्रपर्यायःशुद्धयति, ततः स्थितानिपश्चात्सप्तमुहूर्त्तशतानि पञ्चषष्ट्यधिकानि मुहूर्तगतानांच द्वाषष्टिभागानांपञ्चन-वतिरेकस्यचद्वाषष्टिभागस्यपञ्चविंशति सप्तषष्टिभागाः ततो 'मूले सत्तेव चोयाला' इत्यादि वचनात् सप्तभिश्चतुश्चत्वारिंश दधिकैर्मुहूर्तशतैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्यच द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि मूलपर्यन्तानि नक्षत्राणिशुद्धानि, ततः स्थिताः पश्चात् द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्याष्टौ द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षड्विंशति सप्तषष्टिभागाः तत आगतं द्वितीयचान्द्रसंवत्सरस्यपर्यवसानसमयेपूर्वाषाढानक्षत्रस्य सप्त मुहूर्ता एकस्यचमुहूर्तस्य त्रिपञ्चाशद् द्वाषष्टिभागाएकस्य द्वाषष्टिभास्य एकचत्वारिंशत् सप्तषष्टिभागाः शेषाः, तदानींच सूर्येणयुक्तस्य पुनर्वाञचत्वारिंशत् मुहूर्ता एकस्य च मुहूर्तस्य पञ्चत्रिंशत् द्वाषष्टिभागा एकस्यच द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः शेषाः, तथाहि
- स एव ध्रुवराशि चतुर्विंशत्या गुणितो जातानि पञ्चदश शतानि चतुरशी- त्यधिकानि मुहूर्ताना मुहूर्तगतानां च द्वाषष्टिभागानां विंशत्युत्तरं शतं एकस्य च द्वाषष्टिभ गस्य चतुर्विंशति सप्तषष्टिभागाः तत एतस्मादष्टभिशतैरेकोनविंशत्यधिकैर्मुहूर्ता-नामेकस्य च मुहूत्तम्य चतुर्विंशत्या Jain Education International
For Private & Personal Use Only
www.jainelibrary.org