SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं - २२ २०७ नीति भूयः षण्णां पञ्चदशभिर्गुणने जाता नवति, पञ्चदश त्रिंशन्मुहूर्तानीति पञ्चदश त्रिंशता गुण्यन्ते, जातानि चत्वारिशतानि पञ्चाशदधिकानि, अभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागाएकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागाइति भवति सर्वेषामेकत्र मीलने यथोक्ता मुहूर्तसङ्ख्या, एष एतावान्नक्षत्रमासः, ततस्तदनन्तरं यदभिजिन्नक्षत्रं अतिक्रन्तं तदपरेण द्वितीयेनाभिजिता नक्षत्रेण सह नव मुहूर्तादिकालं योगमुपागच्छति, ततः परमपरेण द्वितीयाष्टाविंशतिसम्बन्धिना श्रवणेन सह योगमश्रुते, एवं पूर्ववत् तावद्वाच्यं यावदुत्त-राषाढा, तदनन्तरं भूयः प्रथमेनैवाभिजिता नक्षत्रेण सह योगं याति, ततः प्रागुक्तक्रमेण श्रवणादिभिः, एवं सकलकालमपि, ततो विवक्षिते दिने यस्मिन् देशे येन नक्षत्रेण सह योगमगमचन्द्रमाः स यथोक्तमुहूर्त्तसङ्ख्यातिक्रमे भूयः ताद्दशेनैवापरेण नक्षत्रेण सह अन्यस्मिन् देशेयोगमादत्ते न तेनैव नापि तस्मिन् देशे इति। तथा 'ता जे णमित्यादि, अद्य-विवक्षिते दिते येन नक्षत्रेण सह योगं युनक्ति यस्मिन् यस्मिन् देशेचन्द्रमाः सइमानि वक्ष्यमाणसङ्ख्याकानि, तान्येवाह-षोडश मुहूर्तशतानिअष्टात्रिंशदधिकानि एकोनपञ्चाशतं द्वाषष्टिभागान् मुहूर्तस्य एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कान् पञ्चषष्टिं चूर्णिकाभागानुपादय-अतिक्रम्य पुनरपि स चन्द्रस्तेनैव नक्षत्रेण सह योगो युगद्वयकालातिक्रमे यथा(थ)केवलवेदसा ज्योतिश्चक्रगतरुपलब्धः, जम्बूद्वीपे चषट्पञ्चाशदेव नक्षत्राणि, ततो विवक्षितनक्षत्रयोगे सति तत आरभ्य षट्पञ्चाशन्नक्षत्रातिक्रमे तेन नक्षत्रेण सह योगमादत्ते, षट्पञ्चाशन्नक्षत्रातिक्रमश्च प्रागुक्ताष्टाविंशतिनक्षत्रमुहूर्तसङ्ख्याद्विगुणसङ्ख्यया। तत उक्तं-'सोलस अकृतीस मुहुत्तसया' इत्यादि । तदेवं ताशेन तेन वा नक्षत्रेण सह अन्यस्मिन् देशे यावता कालेन भूयोऽपि योग उपजायते तावान् कालविशेष उक्तः, सम्प्रति तस्मिन्नेव देशे ताशेन तेन वा नक्षत्रेण सह भूयोऽपि योगो यावता कालेन भवति तावन्तं कालविशेषमाह 'ताजेणंअज्ज नक्खत्तेणं इत्यादि, अध-विवक्षिते दिने येन नक्षत्रेण सयोगचन्द्रो युनक्ति यस्मिन् देशे सः-चन्द्रमा इमानि वक्ष्यमाणसङ्ख्याकानि तान्येवाह-चतुष्पञ्चाशन्मुहूर्तसहस्राणि नवमुहूर्तशतान्युपादाय-अतिक्रम्य पुनरपिस चन्द्रोऽन्येन ताद्दशेनैव नक्षत्रेण सह योगंयुनक्ति तस्मिन्नेवदेशे, इयमत्र भावना-विवक्षिते युगे विवक्षितानामष्टाविंशतेनक्षत्राणांमध्येयेन नक्षत्रेण सह यस्मिन् देशे यदा चन्द्रमसो योगो जातो भूयस्तस्मिन्नेव देशे तदैव तेनैव नक्षत्रेण सह योगो विवक्षितयुगादारभ्य तृतीये युगे, न तु द्वितीये, कुत इति चेत्, उच्यते, इह युगादित आरभ्य प्रथमेनक्षत्रमासेयान्येकान्यष्टाविंशतिनक्षत्राणि समतिक्रमति द्वितीयेन नक्षत्रमासेन तेभ्योऽपराणि द्वितीयानि ततोभूयस्तृतीयेननक्षत्रमासेन तान्येव प्रथमान्यष्टाविंशति नक्षत्राणि चतुर्थेन भूयस्तान्येव द्वितीयानि एवं सकलकालं, युगेचनक्षत्रमासाः सप्तषष्टि, साच सप्तषष्टिसङ्घया विषमेति विवक्षितयुगपरिसमाप्तावन्यस्ययुगस्य प्रारम्भेयानि विवक्षितयुगस्यादौभुक्तानि नक्षत्राणि तेभ्योऽपराण्येव - द्वितीयानि भोगमायान्ति, नतुतान्येव, युगद्वयेच चतुस्त्रिंशन्नक्षत्रमासशतंभवति, साचचतुस्त्रिंशन्नक्षत्रमासशतसङ्ख्या समेति द्वितीययुगपरिसमाप्तौ षट्पञ्चाशदपि नक्षत्राणि समाप्तिमुपयान्ति, ततो विवक्षितयुगादारभ्य तृतीये युगे तेनैव नक्षत्रेण तस्मिन्नेव देशे तदा चन्द्रमसो योगः, युगे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy