________________
१०
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-/२ साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते विहरतीतित योगः, तत्र दूरं-विप्रकृष्टं सामन्तं-सन्निकृष्टं तत्प्रतिषेधाददूरसमान्तं, तत्र नातिदूरे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत आह
___-‘उड्ढुंजाणु'त्तिऊर्ध्वं जानुनी यस्यासौऊर्ध्वजानुः, शुद्धपृथिव्यासनवर्जनादौपग्रहिकनि षद्यायास्तदानीमभावाच्च उत्कटुकासन इत्यर्थः, अधःशिरा नोर्ध्वं तिर्यग्वा विक्षिप्तष्टि किन्तु नियतभूभागनियमितदृष्टिरितिभावः, 'झाणकोट्ठोवगए'त्तिध्यान-धर्म्य शुक्लं वातदेवकोष्ठःकुशूलो धानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतो, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति, एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः ।
___–'संयमेन' पञ्चाश्रवनिरोधादिलक्षणेन तपसा' अनशनादिना, चशब्दोऽत्र समुच्चयार्थो लुप्तोद्रष्टव्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्राधान्यंचसंयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्चपुराणकर्मनिर्जराहेतुत्वेन, तथाहि-अभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च जायते सकलकर्मक्षयलक्षणो मोक्षः, ततोभवति संयमतपसोर्मोक्षं प्रतिप्राधान्यमिति, 'अप्पाणं भावमाणे विहरइ' इति आत्मानं भावयन्-वासयन् तिष्ठतीत्यर्थः।
'ततो णं से' इति ततो-ध्यानकोष्ठोपगतविहरणादनन्तरं, णमिति वाक्यालङ्करार्थ, 'स' भगवान् गौतमो ‘जायसड्डे' इत्यादिजातश्रद्धादिविशेषणः सन् उत्तिष्ठतीतियोगः, तत्र जाताप्रवृत्ता श्रद्धाःइच्छा वक्ष्यमाणार्थतत्वज्ञानंप्रयस्यासौ जातश्रद्धः, तथा जातःसंशयोयस्य सजातसंशयः, संशयो नामानवधारितार्थं ज्ञानं, स चवं भगवतः-इह सूर्यादिवक्तव्यता अन्यथा, अन्यथा च तीर्थान्तरीयैरूपदिश्यते, ततः किं तत्त्वमिति संशयः, तथा 'जायकोऊहल्ले'त्ति जातं कुतूहलं यस्यसजातकुतूहलः जातौत्सुक्य इत्यर्थः, यथा कथमेनांसूर्यवक्तव्यतां भगवान्प्रज्ञापष्यितीति, तथा 'उप्पन्नसडे'त्ति उत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्यासौ उत्पन्नश्रद्धः, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते?, प्रवृत्तश्रद्धत्वेनोत्पन्नश्रद्धत्वस्य लब्धत्वात्, नह्यनुत्पन्ना श्रद्धा प्रवर्तत इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थं, तथाहि-कथं प्रवृत्तश्रद्धः?, उच्यते यत उत्पन्नश्रद्ध इति, हेतुत्वप्रदर्शनं चोपपन्नं, तस्य काव्यालङ्कारत्वात्, यथा 'प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रांवुबुधे विभावरी मित्यत्रयद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीप्तत्वादेर्हेतुतयोपन्यस्तमिति समीचीनं, 'उप्पन्नसड्डे उप्पन्नसंसए' 'उप्पन्नकोउहल्ले' इति प्राग्वत्।
-तथा संजायसड्डे' इत्यादि पदषट्कंप्राग्वत्, नवरमिह समशब्दः प्रकर्षादिवचनो वेदितव्यः, तत ‘उठाए उठेइ' इति उत्थानमुत्थाऊमू-वर्तनं तयाउत्तिष्ठति,इह उठेइ' इत्युक्ते क्रियारम्भमात्रमपिप्रतीयते यथा वक्तुमुत्तिष्ठते ततस्तदव्यवच्छेदार्थमुत्थयेत्युक्तम्, 'जेणेवे'त्यादिप्राकृतशैलीवशादव्ययत्वाच्च येनेति यस्मिन्नित्यर्थे द्रष्टव्यं, यस्मिन् दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते 'तेणेव'त्ति तस्मिन् दिग्भागे उपागच्छति, इह वर्तमानकालनिर्देशस्तत्कालापेक्षया त्रिकृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणं करोति, आदक्षिणात्-दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणः तं करोति, कृत्वा वन्दते-स्तौति नमस्यति-कायेन प्रणमति, वन्दित्वा नमस्थित्वाच 'न'नैव अत्यासन्नोऽतिनिकटः अवग्रहपरिहारात् अथवा नात्यासन्नस्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org