________________
प्राभृतं १, प्राभृतप्राभृतं -
घोरगुणो घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेउलेसे चउद्दसपुवी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उडुंजाणू अहोसिरे झाणको
गए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तए णं से भयवं गोयमे जायसड्ढे जायसंसए जायकोउहले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उट्ठेइ उट्ठाए उट्ठित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ ।
–आयाहिणपयाहिणं करित्ता वंदइ नमंसइ वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विनएणं पंजलिउडे पज्जुवासेमाणे एवं वयासी, अस्यायमर्थः कनकस्यसवर्णस्यः पुलको -लवस्तस्य यो निकषः - पट्टके रेखारूपः, तथा पद्मग्रहणेन पद्मकेसराण्युच्यन्ते, अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽप्यवयवो देवदत्तः, तथा च देवदत्तस्य हस्ताग्रं स्पृष्टा लोको वदति-देवदत्तो मया स्पृष्ट इति, ततः कनकेषु पुलकनिकषवत्प द्मकेसरवच्च यो गौरः स कनकपुलकनिकषपद्मगौरः, अथवा कनकस्य यः पुलको - द्रुतत्वे सति बिन्दुस्तस्य निकषो-वर्ण तत्सदृशः कनकपुलकनिकषः, तथा पद्मवत् - पद्मकेसर इव यो गौरः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयः समासः, अयंच विशिष्टचरणरहितोऽपि शङ्कयेत अत आह
९
‘उग्गतवे’ उग्गं-अप्रधृष्यं तपः - अनशनादि यस्य स तथा, यदन्येनप्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा तद्विधेन तपसा युक्त इत्यर्थः, तथा दीप्तं - जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्म्मध्यानादि यस्य स तथा, 'तत्ततवे' त्ति तप्तं तपो येन स तप्ततपाः, एवं हि तेन तपस्तप्तं येन सर्वाण्यप्यशुभानि कर्माणि भस्मसात्कृतानीति, महत्-प्रशस्तमाशंसादोषरहितत्वात्तपो यस्य स महातपाः, तथा 'उराले 'त्ति उदारः - प्रधानः अथवा ओरालोभीष्मः, उग्रादिविशेषणतः पार्श्वस्थानामल्पसत्वानां भयानक इत्यर्थः, तथा घोरो - निर्घृणः परीषहेन्द्रियादिरिपुगणविनाशमधिकृत्य निर्दय इत्यर्थः, तथा घोरा - अन्यैर्दुरनुचरा गुणाः ज्ञानादयो यस्य स तथा, तथा घोरैस्तपोभिस्तपस्वी, 'घोरबंभचेरवासि' त्ति गोरं - दारुणं अल्पसत्वैर्दुरनुचरत्वात् ब्रह्मचर्यं यत्तत्र वस्तुं शीलं यस्य स तथा, उच्छूढं-उज्झितं उज्झितमिव उज्झितं संस्कारपरित्यागात् शरीरं येन स उच्छूढशरीरः ।
'संखित्तविउलतेउलेसे 'त्ति संक्षिप्ताः शरीरान्तर्गतत्वेनहस्वतां गता विपुला - विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या - विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'चउदसपुव्वि' त्ति चतुर्द्दश पूर्वाणि विद्यन्ते यस्य तेनैव रचितत्वात्, असौ चतुर्द्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, सचावधिज्ञानादिविकलोऽपि स्यादत आह‘चउनाणोवगए' मतिश्रुतावधिमनःपर्यायज्ञानरूपज्ञानचतुष्टयसमन्वित इत्यर्थः, उक्तविशेषणद्वय- युक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति, चतुर्द्दशपूर्वविदामपि षट्स्थानपतितत्वेन
श्रवणादत आह
'सर्वाक्षरसन्निपाती' अक्षराणां सन्निपाताः - संयोगाः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयानि स तथा, किमुक्तं भवत ? - या काचित् जगति पदानुपूर्वी वाकयानुपूर्वी वा समभवति ताः सर्वा अपि जानातीति, एवंगुणविशिष्टो भगवान् विनयराशिरिव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org