SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२/४३ ता एएसि णं अट्ठावीसाए नक्खत्ताणं तत्थ जे ते नक्खत्ते जे णं नव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएंति से णं एगे अभीयी, तत्थ जे ते नक्खत्ता जे गं पन्नरस मुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णंछ, तं० - सतभिसया भरणी अद्दा अस्सेसा साति जेट्ठा, तत्थ जे ते नक्खत्ता जे णं तीसं मुहुत्तं चंदेण सद्धिं जोयं जोयंति ते पन्नरस, तं० - सवणे धणिठ्ठापुव्वा भद्दवता रेवति अस्सिणी कत्तिया मग्गसिर पुस्सामहा पुव्वाफग्गुणी हत्थो चित्ता अणुराहा मूलो पुव्वआसाढा, तत्थ जे ते नक्खत्ता जे णं पणतालीसं मुहुत्ते चंदेण सद्धिं जो गं जोएंति ते णं छ, तंजहा १०८ उत्तराभद्दपद रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा ॥ वृ. 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं भगवन् ! प्रतिनक्षत्रं मुहूर्त्ताग्रं - मुहूर्त्तपरिमाणमाख्यातमिति वदेत् ?, एवमुक्ते भगवानाह - ‘ता एएसि न’मित्यादि, ‘ता' मित्यादि, 'ता' इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्येऽस्ति तन्नक्षत्रं यन्नव मुहूर्तान एकस्य च मुहूर्तस्य सप्तविंशतिं सप्तषष्टिभागान् यावत् चन्द्रेण सार्द्धं योगं युनक्ति-उपैति तथा अस्ति-निपातत्वाद् व्यत्ययाद्वा सन्ति तानि नक्षत्राणि यानि पञ्चदश मुहूर्त्तान् यावच्चन्द्रेण सह योगमुपयान्ति, तथा स्ति तानि नक्षत्राणि यानि त्रिंशतं मुहूर्तान् यावच्चन्द्रेण सहयोगमन्श्रुवते, तथा सन्ति तानि नक्षत्राणि यानि पञ्चचत्वारिंशतं मुहूर्त्तान् यावच्चन्द्रेण सह योगं युञ्जन्ति, एवं सामान्येन भगवतोक्ते विशेषनिर्द्धारणार्थं भगवान् पृच्छति गौतमः 'ता एएसि ण' - मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये कतरन्नक्षत्रं यन्नव मुहूर्त्तानेकस्यच मुहूर्त्तस्य सप्तविंशतिं सप्तषष्टिभागान् यावच्चन्द्रेण सह योगं युनक्ति, तथा कतराणि तानि नक्षत्राणि यानि पञ्चदश मुहूर्त्तान् यावच्चन्द्रेण सह योगं युञ्जन्ति, तथा कतराणि तानि नक्षत्राणि यानि त्रिंशतं मुहूर्त्तान् यावच्चन्द्रेण सह योगमन्नवे, तथा कतराणि तानि नक्षत्राणि यानि पञ्चचत्वारिंशतं मुहूर्त्तान् यावच्चन्द्रेण सार्द्धयोगमुपयन्ति, एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता एएसिण' मित्यादि, 'ता' इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्ये यन्नक्षत्रंनव मुहूर्त्तानिकस्य च मुहूर्त्तस्य सप्तविंशतिं सप्तषष्टिभागान् यावच्चन्द्रेण सहयोगं युनक्ति तदेकमभिजिन्नक्षत्रमवसेयं, कथमिति चेत् ?, उच्यते, इह अभिजिन्नक्षत्रं सप्तषष्टिखण्डीकृतस्याहोरात्रस्यैकविंशतिं भागान् चन्द्रेण सह योगमुपैति, तेच एकविंशतिरपि भागा मुहूर्त्तगतभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि षट् शतानि त्रिंशदधिकानि, तथा च एतावान् कालमधिकृत्य सीमाविस्तारोऽभिजिन्नक्षत्रस्यान्यत्राप्युक्तः । “छ च्चेव सया तीसा भागाण अभिइ सीमविक्खंभो । 11911 दिट्ठो सव्वडहरगो सव्वेहिं अणंतनाणीहिं ॥” तेषां सप्तषष्टया भागो हियते, लब्धा नव मुहूर्त्ता एकस्य च मुहूर्त्तस्य सप्तविंशति सप्तषष्टिभागाः 119 11 उक्तं च- “अभिइस्स चंदजोगो सत्तट्ठीखंडिओ अहोरत्तो । भोगा य एगवीसं ते पुण अहिया नव मुहुत्ता ||" तथा 'तत्थे' त्यादि, तत्र - तेषामष्टाविंशति नक्षत्राणां मध्ये यानि नक्षत्राणि पञ्चदश मुहूर्त्तान् यावच्चन्द्रेण सह योगमश्नुवते तानि षट्, तद्यथाशतभिषक् इत्यादि, तथाहि - एतेषां षन्नामपि नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कान् सार्द्धान् त्रयस्त्रशद्भागान् यावच्चन्द्रेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy