SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १०७ प्राभृतं १०, प्राभृतप्राभृतं १ तं०-अभिई सवणो जाव उत्तरासाढा ।। वृ. ताजोगेतिवत्थुस्से'त्यादि, ताइतिआस्तांतावदन्यत्कथनीयंसम्प्रत्येतावदेव कथ्यतेयोगइति वस्तुनो-नक्षत्रजातस्य आवलिकानिवायो'तिआवलिकयाक्रमेण निपातः-चन्द्रसूर्यै सह सम्पात आख्यातो मयेति वदेत् स्वशिष्येभ्यः, एवमुक्तेभगवान् गौतमः पृच्छति-'ता कहते' इत्यादि, ता इति पूर्ववत्, कथं-केनप्रकारेण भगवान् त्वया योग इति योगवस्तुनो-नक्षत्रजातस्यावलिकानिपातः सआख्यात इति वदेत् ?, भगवानाह तत्थ खलु', तत्र-तस्मिनक्षत्रजातस्यावलिकानिपातविषये खल्विमाः पञ्च प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, तेषां पञ्चानांपरतीर्थिकानांमध्ये एकेपरतीर्थिकाएवमाहुःता इतिपूर्ववत्सर्वाण्यपिनक्षत्राणि कृत्तिकादीनि भरणिपर्यवसानानि प्रज्ञप्तानि, सूत्रेपुंस्त्वनिर्देशः प्राकृतत्वात्, अत्रैवोपसंहारः- ‘एगे एवमाहंसु' १, एवं शेषप्रतिपत्तिचतुष्टयगतान्यपि सूत्राणि परिभावनीयानि, तदेवं परप्रतिपत्तीरुपदर्य सम्प्रति स्वमतमुपदर्शयति___'वयं पुण' इत्यादि, वयं पुनरेवं-वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'ता सव्वेऽविण'मित्यादि, ता इति पूर्ववत्, सर्वाण्यपिनक्षत्राणिअभिजिदादीनिउत्तराषाढापर्यवसानानि प्रज्ञप्तानि, कस्मादिति चेत् ?, उच्यते, इह सर्वेषामपि सुषमसुषमादिरूपाणां कालविशेषाणामादि युगं 'एए उ सुसमसुसमादयो अद्धाविसेसा जुगादिणा सह पवत्तंति जुगंतेण सह समप्पंती'तिश्रीपादलिप्तसूरिवचनप्रामाण्यात्, युगस्यचादिप्रवर्ततेश्रावणमासिबहुलपक्षेप्रतिपदि तिथौ बालवकरणे अभिजन्नक्षत्रे चन्द्रेण सह योगमुपागच्छति, तथा चोक्तं ज्योतिष्करण्डके॥१॥ “सावणबहुलपडिवए बालवकरणे अभीइनक्खत्ते। __ सव्वत्थ पढमसमये जुगस्स आइं वियाणाहि ॥" अत्रसर्वत्र भरतैरवते महाविदेहे च, शेषं सुगम, ततः इत्थं सर्वेषामपिकालविशेषाणामादौ चन्द्रयोगमधिकृत्याभिजिन्नक्षत्रस्य वर्तमानत्वादभिजिदादीनि नक्षत्राणि प्रज्ञप्तानि, तान्येव तद्यथेत्यादिनोपदर्शयति-'अभिई सवणे'त्यादि । प्राभृतं-१० प्राभृतप्राभृतं-१ समाप्तम् -प्राभृत प्राभृतं-२:इ. तदेवमुक्तं दशमस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं, सम्प्रति द्वितीयमारभ्यते, तस्य चायमर्थाधिकारो ‘नक्षत्रविषयं मुहूर्तपरिमाणं वक्तव्य'मिति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (४३) ता कहं ते मुहुत्ताय आहितेति वदेज्जा?, ता एतेसिणं अट्ठावीसाए नक्खत्ताणं अस्थि नक्खत्ते जेणं नव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहत्तस्स चंदेणं सद्धिं जोयं जोएंति, अन्थि नक्खत्ता जे णं पन्नरसमुहुत्ते चंदेणं जोयं पजोएंति, अस्थि नक्खत्ता जे णं पणतालीसे मुहुत्ते चंदेणं सद्धिं जोएंति, ता एएसिणं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते जेणं नवमुत्ते सत्तावीसं च सत्तट्ठिभाए मुहुत्तस्स चंदेणं सद्धिं जोएं, कयरे नक्खत्ता जे णं पन्नरसमुहत्ते चंदेणं सद्धिं जोगं जोएंति, कतरे नक्खत्ता जेणं तीसं मुहुत्ते चंदेण सद्धिं जोगं जोइंति, कतरे नक्खत्ता जेणं पणयालीसं मुहत्ते चंदेण सद्धिं जोयं जोइंति? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003316
Book TitleAgam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages340
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_suryapragnapti, & agam_chandrapragnapti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy