SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् - २ - १७/४/-/४६७ वृ. ' कण्हलेसा ण' मित्यादि, अत्र 'कइविहं परिणामं' इत्यत्र प्राकृतत्वात् तृतीयार्थे द्वितीया द्रष्टव्या यथाऽऽचाराङ्गे “अगणिं (च खलु) पुट्ठा" इत्यत्र, ततोऽयमर्थः - कृष्णलेश्या णमिति वाक्यालङ्कारे भदन्त ! कतिविधेन परिणामेन परिणमति ?, भगवानाह - 'गोयमा ! तिविहं वा' इत्यादि, इह त्रिविधो - जघन्यमध्यमोत्कृष्टभेदेन नवविधो यदैषामपि जघन्यादीनां स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना, एवं पुनः पुनस्त्रिकगुणनया सप्तविंशतिविधत्वं एकाशीतिविधत्वं त्रिचत्वारिंशदधिकशतद्वयविधत्वं बहुत्वं बहुविधत्वं भावनीयं, सर्वत्र च तृतीयार्थे द्वितीया, ततस्त्रिविधेन वा परिणामेन परिणमति नवविधेन वा इत्येवं पदानां योजना कर्त्तव्या, 'एवं जाव सुक्कलेसा' इति एवं-कृष्णलेश्यागतेन प्रकाकेण नीलादयोऽपि लेश्यास्तावद्वक्तव्याः यावत् शुक्ललेश्या, सूत्रपाठस्तु सुगमत्वात्स स्वयं परिभावनीयः ।। सम्प्रति प्रदेशद्वाराभिधित्सया प्राह- 'कण्हलेसा णं भंते! कइपएसिया' इत्यादि सुगमं, नवरमनन्तप्रादेशिकेति-अनन्तानन्तसङ्घयोपेताः प्रदेशाः - तद्योग्याः परमाणवो यस्याः कृष्णलेश्यायाः - कृष्णलेश्याद्रव्यसंघातस्य साऽनन्तप्रादेशिका, अन्यथा - अनन्तप्रदेशव्यतिरेकेण स्कन्धस्य जीवग्रहणयोग्यताया एवाभावात्, एवं नीलादयोऽपि लेश्या वक्तव्याः, तथा चाह- 'एवं जाव सुक्कलेसा' इति ॥ अवगाहनाद्वारमाह- 'कण्हलेस्सा णं भंते!' इत्यादि, इह प्रदेशाः - क्षेत्र प्रदेशाः प्रतिपत्तव्याः, तेष्वेवागाहप्रसिद्धेः, ते चानन्तानामपि वर्गणानामाधारभूता असङ्घयेया एव द्रष्टव्याः, सकलस्यापि लोकस्य प्रदेशानामसङ्ख्यायतत्वात् ॥ ८० वर्गणाद्वारमाह- 'कण्हलेस्सा णं भंते! केवइयाओ वग्गणाओ पन्नत्ताओ' इत्यादि, इह वर्गणा-औदारिकादिशरीरप्रायोग्यपरमाणुवर्दणावत् कृष्णलेश्यायोग्यद्रव्यपरमाणुवर्गणा गृह्यन्ते, ताश्च वर्णादिभेदेन समानजातीयानामेक (व) सद्भावात् अनन्ताः प्रत्येतव्याः, एवं नीललेश्यादीनामपि वर्गणाः प्रत्येकं वक्तव्याः, तथा चाह एवं जाव सुक्कलेस्साए' इति ।। अधुना स्थानाद्वाराभिधित्सया आह मू. (४६८) केवतिया णं भंते ! कण्हलेस्साणं ठाणा पत्रत्ता ?, गोयमा ! असंखेज्जा कण्हलेस्साणं ठाणा पन्नत्ता, एवं जाव सुक्कलेस्सा। एएसि णं भंते! कण्हलेस्साठाणाणं जाव सुक्कलेस्साठाणाण य जहन्नगाणं दव्वट्ठयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कतरे २ हिंतो अप्पा वा ४ ?, गोयमा ! सव्वत्थोवा जहन्नगा काउलेस्साठाणा दव्वट्ट० जहन्नगा नीललेसाठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नग्गा कण्हलेसाठाणा दव्वट्ट० असं० जहन्नतेउलेसाठाणा दव्व० असं० जहन्नगा पम्हलेसाठाणा दव्व० असंc जहन्नगा० सुक्कलेसाठाणा दव्वट्ट० असं० पएस० सव्वत्थो० जहन्नगा काउलेसाठाणा पएस० जहन्नगा पम्हलेसाठाणा पएसदृ० असं० जहन्नगा सुक्कलेसाठाणा पएस० असं० दव्वट्ट एसट्टयाए सव्वत्थोवा जहन्नगा काउलेसाठाणा दव्वट्ठ० जहन्नगा नीललेसाठाणा दव्व० असं० एवं कण्हलेस्सा० तेउ० पम्ह० जहन्नगा सुक्कलेसाठाणा दव्व० असं० जहन्नएहिंतो सुक्कलेस्साठाणेहिंतो दव्वट्ठ० जहन्नकाउलेसठाणा पएस० असं० जहन्नया नीललेसाठाणा पएस० असं० एवं जाव सुक्कलेस्साठाणा । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy