________________
७५
पदं-१७, उद्देशकः-४, द्वारंहिअर्धमतिरक्तंभवति अर्धंचातिकृष्णमितिअर्धग्रहणं, जात्यः-प्रधानो हिङ्गुलको जात्यहिङ्गुलकः प्रवालः-शिलादलं तस्याङ्कुरः प्रवालाङ्कुरः, स हि प्रथममुद्गच्छन् अत्यन्तरक्तो भवति ततस्तदुपादानं, लाक्षारसः-प्रतीतः, लोहिताक्षमणिः-लोहिताश्रमाना रलविशेषः कृमिरागेण रक्तः कम्बलः कृमिरागकम्बलः, शाकपार्थिवादिदर्शनान्मध्यपमपदलोपी समासः, गजतालुचीनपिष्टाराशिपारिजातकुसुमजपाकुसुमकिंशुकपुष्पराशिरक्तोत्पलरक्ताशोकरक्तकणवीररक्तबनअधुजीवा लोकप्रतीताः ‘भवे एयारूवा' इति पदयोजना प्राग्वत्,
___भगवानाह-'गौतम! णोइणढेसमडे' यतस्तेजोलेश्याइतः-शशकरुधिरादिभ्योलोहितेन वर्णेनेष्टतरिकैव, तत्र किञ्चिदकान्तमपि केषांचिदिष्टतरं भवति ततः कान्ततरताप्रतिपादनार्थमाह-कान्ततरिकैव, केषाञ्चिदिष्टतरमपि स्वरूपतः कान्ततरमप्यपरेषामप्रियं भवति ततः प्रियतरताप्रतिपत्त्यर्थमाह-प्रियतरिकैव, अत एव मनोज्ञतरिका, मनोज्ञतरमपि किञ्चिन्मध्यम संभवेदतः प्रकृष्टतरप्रकर्षविशेषप्रतिपादनार्थमाह-मनआपतरिकैव वर्णेन प्रज्ञप्ता, _ 'पम्हलेस्साणंभंते!' इत्यादि, अक्षरगमनिका प्राग्वत्, नवरंचम्पकः-सामान्यतः सुवर्णचम्पको वृक्षविशेषः 'चम्पकछल्ली इवा' इति सुवर्णचमपकत्वक् 'चम्पकभेएइवा' इति सुवर्णचम्पकस्य भेदो द्विधाभावः,भिन्नस्य हि वर्णप्रकर्षो भवति ततो भेदग्रहणं, हरिद्रा इह पिण्डहरिद्रा हरिद्रागुटिका-हरिद्रानिवर्त्तिता गुटिता हरिद्राभेदो-हरिद्राया द्वैधीभावः हरितालो-धातुविशेषः हरितालगुटिका-हरितालमयी गुटिता हरितालभेदो-हरितालच्छेदः चिकुरः-पीतद्रव्यविशेषःचिकुररागः-तन्निष्पादतो वस्त्रादौ रागः 'सुवन्नसिप्पीइवा' इति सुवर्णमयीशुक्तिका, वरं-प्रधानं यत्कनकंतस्य निकषः-कषपट्टकेरेखारूपः वरकनकनिकषःवरपुरूषः-वासुदेवस्तस्यवसनं-वस्त्रं वरपुरुषवनंतद्धि पीतं भवतीत्युपात्तं अल्लकीकुसुमंलोकतोऽवसेयंचम्पककुसुमं-सुवर्णचम्पकवृक्षपुष्पं कन्नियारकुसुमेइ वा' इति काञ्चानारककुसुमंकूष्मैण्डिकाकुसुमं-पुष्पा (पुंस्क)लिकापुष्पं सुवर्णयूथिकाकुसुमंप्रतीतंसुहिरण्यिका-वनस्पतिविशेषस्तस्याः कुसुमंकोरण्टकमाल्यदामपीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीता, _ 'सुक्कलेसाणंभंते' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, नवरमङ्करलविशेषः शङ्खचन्द्रौ प्रतीतौ कुन्दं-कुसुमंदकं-उदकं उदकरज;-उदककणाः,ते हि अतिशुभ्रा भवन्तीत्युपात्ताः, दधि-प्रतीतं दधिघनो-दधिपिण्डःक्षरं-प्रतीतं क्षीरपूरं-क्वथ्यमानं अतितापादूध्वं गच्छत् क्षीरं 'सुक्कच्छिवाडियाइ वा' इति छइवाडि:-वल्लादिफलिकासा च शुष्का सति विलसातीव शुक्ला भवतीत्युपात्ता 'पेहुणमिंजिया इवे'ति पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी मिञा पिहुणिजा सा चातीव शुक्लेत्याभिहिता 'धंतधोयरुप्पपट्टे इ वा' इति मातः-अग्निसम्पर्कतो निर्मलीकृतः धौतो-भीतिखरण्टितहस्तसम्मार्जनेनातिनिशितीकृतो यो रूप्यमयः पठ्ठः समातधौतरूप्यपट्टः, 'सारइयबलाहगे इव' इति शारदिकः-शरत्कालभावी बलाहकः पुण्डरीकं-सिताम्बुजं तस्य दलं-पत्रपुण्डरीकदलंशालिपिष्टारशिकुटजपुष्पराशिसिन्दुवारमाल्यादामश्वेताशोकश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः॥
इह वर्णाः पञ्चभवन्ति, तद्यथा-कृष्णो नीलो लोहितो हारिद्रः शुक्लश्च, लेश्याश्च षट्, तत उपमानतो वर्णनिर्देशे कृतेऽपिसंशयःकालेश्या कस्मिन्वर्णे भवति?, ततः पृच्छति–'एयाओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org