SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ६३ पदं-१७, उद्देशकः-२, द्वारंवेमाणियाणंदेवाणंदेवीणय' इत्यादिसुगम, नवरं तेउलेसाओवेमाणिणीओदेवीओसंखेज्जगुणाओ' इति, देवेभ्यो देवीनां द्वात्रिंश-द्गुणत्वात् ॥ अधुना भवनपतिव्यन्तरज्योतिष्कवैमानिकविषयं सूत्रमाह-एएसि णं भंते ! भवणवासीण मित्यादि, तत्र सर्वस्तोका वैमानिका देवाः शुक्ललेश्याः पद्मलेश्या असङ्खयेयगुणाः, तेजोलेश्या असङ्ख्येयगुणा इत्यत्र भावनाऽनन्तरमेव कृता, तेभ्योऽपि भवनवासिनो देवास्तेजोलेश्याका असङ्खयेयगुणाः,कथमिति चेद् ?, उच्यते, अङ्गुलमात्रक्षेत्रपदेशराशेः सम्बन्धिनि प्रथमवर्गमूले तृतीयवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावान् प्रदेशराशिस्तावप्रमाणो भवनपतिदेवदेवीसमुदायः, तद्गतकिंचिदूनद्वात्रिंशत्तममभागकल्पाभवनपतयोदेवाः, तत इमे प्रभूताइतिघटन्ते सौधर्मेशानदेवेभ्यस्तेजोलेश्याका असङ्खयेयगुणाः, तेभ्यः कातोपलेश्या भवनपतय एवासङ्खयेयगुणाः, अल्पर्धिकानामप्यतिप्रभूतानां कापोतलेश्यासम्भवात्, । तेभ्योऽपि भवनवासिन एवनीललेश्या विशेषाधिकाः, युक्तिरत्र प्रागेवोक्ता, तेभ्योऽपि वानमन्तरास्तेजोलेश्याका असङ्खयेयगुणाः, कथमिति चेद्, उच्यते, इह सङ्घयेययोजनकोटीकोटीप्रमाणानि सूचिरूपाणिखण्डानियावन्त्येकस्मिन्प्रन्तरे भवन्तितावान्व्यन्तरदेवदेवीसमुदायः, तद्गतकिंचिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरदेवाः, ततइमे भवनपतिभ्योऽतिप्रभूततमा इत्युपपद्यते, कृष्णलेश्येभ्यो भवनपतिभ्यो वानमन्तरास्तेजोलेश्याका असङ्खयेयगुणाः, तेभ्योऽपि वानमन्तराएवकापोतलेश्येकाअसङ्खयेयगुणाः,अल्पर्धिकानामपिकापोतलेश्याभावात्,तेभ्योऽपि वानमन्तरा नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलश्या विशेषाधिकाः, अत्रापि युक्तिः प्रागुक्ताऽनुसरणीया, तेभ्योस्तेजोलेश्याज्योतिष्का देवाः सङ्खयेयगुणाः, यतः षट्पञ्चाशदधिकाङ्गुलशतद्वयप्रमाणानिसूचिरूपाणियावन्तिखण्डान्येकस्मिन्प्रतरेभवन्ति तावत्प्रमाणोज्योतिष्कदेवदेवीसमुदायः,तद्गतकिञ्चिद्नद्वात्रिंशत्तमभागकल्पा ज्योतिष्कदेवाः, ततः कृष्णलेश्येभ्यो वानमन्तरेभ्यः सङ्खयेयगुणाएवघटन्तेज्योतिष्कदेवानत्वसङ्ख्येयगुणाः, सूचिरूपखण्डप्रमाणहेतोः सङ्खयेयोजनकोटीकोट्यपेक्षया षट्पञ्चाशदधिकाङ्गुलशतद्वयस्य सङ्खयेयभागमात्रवर्तित्वात्॥ सम्प्रति भवनवास्यादिदेवदेवीविषयं तदनन्तरं भवनवास्यादिदेवदेवीसमुदायविषयं सूत्रमाह-एतच्च सूत्रद्वयमपि प्रागुक्तभावनानुसारेण भावनीयं । मू. (४५८) एएसिणं भंते ! कण्हलेसाणं जाव सुक्कलेसाण य कयरे २ अप्पड्डिया वा महड्डियावा?, गो०! कण्हलेसेहिंतो नीललेसा महड्डिया नीललेसेहिंतो काउलेसा महड्डिया एवं काउलेस्सेहितो तेउलेसा महड्डिया तेउलेसेहितो पम्हलेसा महड्डिया पम्हलेसेहितोसुक्कलेसा महड्डिया, सव्वप्पड्डिया जीवा कण्हले० सव्वमहड्डिया सुक्कलेसा॥ एएसिणं भंते! नेरइयाणं कण्हलेसाणं नीललेसाणं काउलेसाण य कयरे २ अप्पड्डिया वा महड्डिया वा?, गो० ! कण्हलेसेहितो नीलले० महड्डिया नीललेसेहिंतो काउलेसा महड्डिया, सव्वप्पड्डिया नेरइया कण्हले०, सव्वमहड्डिया नेरइया काउले०॥ एएसिणं भंते १ तिरिक्खजोणियाणं कण्हलेसाणं जाव सुक्कलेसाण य कयरे कयरेहिंतो अप्प० मह०?, गो०!, जहा जीवाणं । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy