SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६२ प्रज्ञापनाउपाङ्गसूत्रम् - २ - १७/२/- /४५७ सम्प्रति देवदेवीविषयं सूत्रमाह - 'एएसि ण' मित्यादि, सर्वस्तोका देवाः शुक्ललेश्याः, तेभ्योऽसङ्घयेयगुणाः पद्मलेश्याः, तेभ्योऽप्यसङ्घयेयगुणाः कापोतलेश्याः, तेभ्यो नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, एतावव्यागेव भावितं, तेभ्योऽपि कापोतलेश्याका देव्यः सङ्ख्येयगुणाः, ताश्च भवनपतिव्यन्तरनिकायान्तर्गता वेदितव्याः, अन्यत्र देवीनां कापोतलेश्याया असंभवात्, देव्यश्च देवेभ्यः सामान्यतः प्रतिनिकायं द्वात्रिंशद्गुणाः ततः कृश्णलेश्येभ्यो देवेभ्यः कापोतलेश्या देव्यः सङ्ख्येयगुणा अपि घटन्ते, ताभ्यो नीललेश्या विशेषाधिकाः, ताभ्यः कृष्णलेश्या विशेषाधिकाः, अत्रापि प्राग्वद् भावना, ताभ्योऽपि तेजोलेश्या देवाः सङ्घयेयगुणाः, कतिपयानां भवनपतिव्यन्तराणां समस्तानां ज्योतिष्कसौधर्मेशानदेवानां तेजोलेश्याकत्वात्, तेभ्योऽपि तेजोलेश्याका देव्यः सङ्घयेयगुणाः द्वात्रिंशद्गुणत्वात् । सम्प्रति भवनवासिदेवविषयं सूत्रमाह- 'एएसि णं भंते!' इत्यादि, सर्वस्तोकास्तेजोलेश्या महर्द्धयो हि तेजोलेश्याका भवन्ति महर्द्धयश्चाल्पे इति ते सर्वस्तोकाः, तेभ्योऽसङ्घत्येयगुणाः कापोतलेश्याः, अतिशयेन प्रभूतानां कापोतलेश्यासंभवात्, तेभ्यो नीललेश्या विशेषाधिकाः, अतिप्रभूततमानां कृष्णले श्याभावात् । एवं भवनपतिदेवीविषयमपि सूत्रं भावनीयं । अधुना भवनपतिदेवदेवीविषयं सूत्रमाह- 'एएसि ण' मित्यादि, सर्वस्तोका भवनवासिनो देवाः तेजोलेश्याकाः, युक्तिरत्र प्रागेवोक्त, तेभ्योस्तेजोलेश्याका भवनवासिन्यो देव्यः सङ्घयेयगुणाः देवेभ्यो हि देव्यः सामान्यतः प्रतिनिकायं द्वात्रिंशद्गुणास्तत उपपद्यते सङ्घयेयगुणत्वमिति, तेभ्यः कापोतलेश्या भवनवासिनो देवा असङ्घयेयगुणाः, तेभ्यो नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, युक्तिरत्र प्रागुक्ताऽनुसरणीया, तेभ्यः कापोतलेश्या भवनवासिन्यो देव्यः सङ्घयेयगुणाः, भावना प्रागुक्तभावनानसारेण भावनीया, ताभ्यो नीललेश्या विशेषाधिकाः, ताभ्यः कृष्णलेश्या विशेषाधिकाः, एवं वानमन्तरविषयमपि सूत्रत्रयं भावनीयं, ज्योतिष्कविषयमेकमेव सूत्रं, तन्निकाये तेजोलेश्याव्यतिरेकेण लेश्यान्तरासम्भवतः पृथग् देवदेवीविषयसूत्रद्वयासम्भवात्, वैमानिकदेवविषयं सूत्रमाह- 'एएसि णं भंते! वेमाणियाण' मित्यादि, सर्वस्तोका वैमानिका देवाः शुक्ललेश्याः, लान्तकादिदेवानामेव शुक्ललेश्यासम्भवात्, तेषां चोत्कर्षतोऽपि श्रेण्यसङ्घयेयभागगतप्रदेशराशिमानत्वात्, तेभ्यः पद्मलेश्या असङ्घयेयगुणाः, सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिनां सर्वेषामपि देवानां पद्मलेश्यासम्भवात् तेषां चातिबृहत्तम श्रेण्यसङ्घत्येयभागवर्त्तिनभः प्रदेशराशिप्रमाणत्वात्, लान्तकादिदेवपरिमाणहेतुश्रेण्यसङ्घयेयभागापेक्षया ह्यमीषां परिमाणहेतुः श्रेण्यसङ्घयेयभागोऽसङ्घयेयगुणः, तेभ्योऽपि तेजोलेश्या असङ्घयेयगुणाः तेजोलेश्या हि सौधर्म्मशानदेवानां, ईशानदेवाश्चाङ्गुलमात्र क्षेत्र प्रदेशराशेः सम्बन्धिनि द्वितीयवर्गमूले तृतीयेन वर्गमूलेन गुणिते यावात् प्रदेशराशिर्भवति तावत्प्रमाणासु धनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभः प्रदेशाः तावव्यमाण ईशानकल्पगतदेवदेवीसमुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पा देवाः, तेभ्योऽपि च सौधर्म्मकल्पदेवाः सङ्ख्येयगुणाः, ततो भवन्ति पद्मलेश्येभ्यस्तेजोलेश्या असङ्घयेयगुणाः, देव्यश्च सौधर्मेशानकल्पयोरेव, तत्र च केवला तेजोलेश्या, ततो लेश्यान्तरासम्भवान्न तद्विषयं पृथग्सूत्रं अतः । सम्प्रति देवदेवीविषयं सूत्रमाह-'एएसि णं भंते ! For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy