________________
प्रज्ञापनाउपाङ्गसूत्रम् -२- १७/१/-/४४७ चोच्छ्वसन्ति, महाशरीरत्वादेव, अल्पशरीराणामल्पाहारोच्छ्वसत्वं अल्पशरीरत्वादेव, कादाचित्कत्वं चाहारोच्छ्वासयोः पर्याप्तेतरावस्थापेक्षमिति । वेदनासूत्रमाह
'पुढविकाइया णं भंते! सव्वे समवेयणा' इत्यादि, असन्नीति - मिथ्यादृष्टयोऽमनस्का वा 'असन्निभूयं 'ति असंज्ञीभूता असंज्ञीनां वा जायते तामित्यर्थः, एतदेव व्यनक्ति- 'अनिययं ति अनियताम्-अनिर्धारितां वेदयन्ते, वेदनामनुभवन्तोऽपि न पूर्वोपात्ताशुभकर्मण- परिणतिरियमित्यवगच्छन्ति, मिध्यादृष्टित्वादमनस्कत्वाद्वा मत्तमूर्च्छितादिवदितिभावः, क्रियासूत्रे 'माइमिच्छद्दिट्ठि' त्ति मायावन्तो हि तेषु प्रायेणोत्पद्यन्ते, यदाह शिवशम्र्माचार्यः“उम्मग्गदेसओ मग्गनासवो गूढहियय माइल्लो । सढसीलो य ससल्लो तिरियाउं बंधई जीवो ॥"
119 11
५२
ततस्ते मायिन उच्यन्ते, अथवा माया इह समस्तानन्तानुबन्धिकषायोपलक्षणं ततो मायिन इति किमुक्तं भवति ? - अनन्तानुबन्धिकषायोदयवन्तः अत एव मिथ्यादृष्टयः, 'ताणं नियइयाओ' इति तेषां - पृथिवीकायिकानां नैयतिक्यो - नियताः पञ्चैव न तु त्रिप्रभृतय इत्यर्थः ' से एएण'मित्यादि, निगमनं 'जाव चउरिंदिया' इति इह महाशरीरत्वाल्पशरीरत्वे स्वस्वावगाहनानुसारेणावसेये, आहारश्तच द्वीन्द्रियादीनां प्रक्षेपलक्षणोऽपीति,
'पंचिंदियतिरिक्खजोणिया जहा नेरइया' इति प्रतीतं, नवरमिह महाशरीरा अभीक्ष्णमाहारयन्ति अभीक्ष्णमुच्छ्वसन्तीति यदुच्यते तत्सङ्ख्यातवर्षायुषोऽपेक्ष्य तथैव दर्शात्, नासङ्ख्यातवर्षायुषः तेषां प्रक्षेपाहारस्य षष्ठस्योपरि प्रतिपादितत्वात्, अल्पशरीराणां त्वाहारोच्छ्वासयोर्यत् कादाचित्कत्वं तदपर्याप्तावस्थायां लोमाहारोच्छ्वासयोरभवनेन पर्याप्तावस्थायां तद्भवनेन चावसेयं, कर्म्मसूत्रे यत्पूर्वोत्पन्नानामल्पकर्म्मत्वं इतरेषां तु महाकर्म्मत्वं तदायुष्कादितद्मवेवद्यकम्मपिक्षं, वर्णलेश्यासूत्रयोरपि यत्पूर्वोत्पन्नानां शुभवर्णाद्युक्तं तत्तारुणन्यात् पश्चादुत्पन्नानां चाशुद्धवर्णादि बाल्यादवसेयं, लोके तथादर्शनादिति, तथा 'संजयासंजया' इति देशविरताः स्थूलात् प्राणातिपातादेर्निवृत्तत्वात् इतरस्मादनिवृत्तत्वात् ॥
मनुष्यविषयं सूत्रमाह
मू. (४४८) मणुस्सा णं भंते! सव्वे समाहारा ?, गो० ! नो इणट्ठे समट्टे, से केण० ?, गो० ! मणुस्सा दुविहा पं०, तं० - महासरीरा य अप्पसरीरा य, तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारेति जाव बहुतराए पोग्गले नीससंति आहच्च आहारेति आहच्च नीससंति तत्थ णं जे ते अप्पसरीरा ते णं अप्पतराए पोग्गले आहारेति जाव अप्पतराए पोग्गले नीससंति अभिक्खणं आहारेतिं जाव अभिक्खणं नीससंति, से तेणट्टेणं गो० ! एवं वुच्चति-मणुस्सा सव्वे नो समाहारा,
सेसं जहा नेरइयाणं, नवरं किरियाहिं मणूसा तिविहा पन्नत्ता, तंजहा सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छद्दिट्ठी, तत्थ णं जे ते सममदिट्ठी ते तिविहा पन्नत्ता, तंजहा - संयता असंयता संयतासंयता, तत्थ णं जे ते संयता ते दु० पं० तं - सरागसंयता वीयरागसंयता य, तत्थ णं जे ते वीयरागसंयता ते णं अकिरिया, तत्थ णं जे ते सरागसंयता ते दु० पं०, तं०- पमत्तसंयता य अपमत्तसंयता य, तत्थ णं जे ते अपमत्तसंजया तेसिं एगा मायावत्तिया किरिया कज्जति, तत्थ णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org