________________
पदं - १७, उद्देशक:- १, द्वारं -
चहस्तमानतयाऽल्पशरीराणां त्रयस्त्रिंशद्वर्षसहस्त्राणि त्रस्त्रिंशदेव च पक्षा इति, एषां च महाशरीराणामभीक्ष्णाहारोच्छ्वासभिधानेनाल्पस्थितिकत्वमवसीयते इतरेषां तु विपर्ययः वैमानिकवदेवेति, अथवा लोमाहारापेक्षयाऽभीक्ष्णम् अनुसमयमाहारयन्ति महाशरीराः पर्याप्तकावस्थायां उच्छ्वा सस्तु यथोक्तमनानेनापि भवन् परिपूर्णभवापेक्षया पुनः पुनरित्युच्यते, अपर्याप्तकावस्थायां त्वल्पशरीरा लोमाहारतो नाहारयन्ति ओजाहारत एवाहरणात् ततस्ते कदाचिदाहारयन्तीत्युच्यते, अपर्याप्तकावस्थायां च नोच्छ्वसन्ति अन्यधा तूच्छ्वसन्ति तत उच्यते आहच्चोच्छ्व सन्तीति ॥
कर्म्मसूत्रमाह- 'असुरकुमारा णं भंते! सव्वे समकम्मा' इत्यादि, अत्र नैरयिकसूत्रापेक्षया विपर्यासः नैरयिका हि पूर्व्वोत्पन्ना अल्पकर्माण उक्ता इतरे तु महाकर्माणः असुरकुमारास्तु ये पूर्वोत्पन्नास्ते महाकर्म्माणः इतरेऽल्पकम्मणः, कथमिति चेद्, उच्यते, इहासुरकुमाराः स्वभवादुध्धृतास्तिर्यक्षूत्पद्यन्ते मनुष्येषु च तिर्यक्षूत्पद्यमानाः केचिदेकेन्द्रियेषु पृथिव्यव्वन्स्पतिषूत्पद्यन्ते केचित् पञ्चेन्द्रियेषु, मनुष्येष्वपि चोत्पद्यमानाः कर्म्मभूमिकगर्भव्युत्क्रान्तिकमनुष्येषूत्पद्यन्ते न शेषेषु षण्मासावशषायुषश्च सन्तः पारभविकमायुर्बध्नन्ति, पारभविकायुर्बन्धकाले च या एकान्ततिर्यग्योनिकयोग्या एकान्तमनुष्ययोग्या वा प्रकृतयस्ता उपचिन्वन्ति, ततः पूर्वोत्पन्नामहाकर्म्मतराः, ये तु पश्चादुत्पन्नास्ते नाद्यापि पारभविकमायुर्बनध्नन्ति नापि तिर्यग्मनुष्ययोग्याः प्रकृतीरुपचिन्वन्ति ततस्तेऽल्पकर्म्मतराः, एतदपि सूत्रं समानस्थितिकसमानभवपरिमितासुरकुमारविषयमवसेयं, पूर्वोत्पन्नका अपि बद्धपारभविकायुः पश्चादुत्पन्ना अपि अबद्धपारभविकायुषः स्तोककालन्तरिता ग्राह्याः, अन्यथा तिर्यग्मनुष्ययोग्यप्रकृतिबन्धेऽपि पूर्वोत्पन्नकात् पश्चादुत्पन्न उत्कृष्टस्थितिकोऽभिनवोत्पन्नोऽनन्तसंसारिकश्च महाकर्ममतर एव भवति ।
४९
'वर्णसूत्रे ये ते पूर्वोत्पन्नकास्ते अविशुद्धवर्णतराः, कथमिति चेदुच्यते एतेषां हि भवापेक्षः प्रशस्तवर्णनाम्नः शुभस्तीव्रानुभाग उदयः, स च पूर्वोत्पन्नानां प्रभूतः क्षयमुपगत इति ते अविशुद्धतरवर्णाः, इतरे तु पश्चादुत्पन्नतया नाद्यापि प्रभूतो निर्जीर्ण इति विशुद्धवर्णाः, एतच्च समानस्थितिकासुरकुमारविषयं सूत्रं, 'एवं लेस्साएऽ वी 'ति एवं वर्णसूत्रवत् लेश्यासूत्रमपि वक्तव्यं, पूर्वोत्पन्नाः अविशुद्धलेश्या वक्तव्याः पश्चादुत्पन्ना विशुद्धलेश्या इति भावः, काऽत्र भावनेति चेदुच्यते-इह देवानां नैरयिकाणां च तथाभवस्वाभाव्यात् लेश्यापरिणाम उपपातसमयात्, प्रभृत्याभवक्षयाद् भवति, यतो वक्ष्यति तृतीये लेश्योद्देशके - 'से नूनं भंते ! कण्हलेसे नेरइए कण्हलेसेसु नेरइएसु उववज्जइ कण्हलेसे उवट्टइ ?, जल्लेसे उववज्झइ तल्लेसे उवट्टइ ?' इति, अस्यायं बावार्थ:पञ्चेन्द्रियतिर्यग्योनिको मनुष्यो वा नरकेषूत्पद्यमानो यथाक्रमं तिर्यगायुषि मनुष्यायुषि वा क्षीणे नैरयिकाषुः संवेदयमान ऋ जुसूत्रनयदर्शनेन विग्रहेऽपि वर्तमानो नारक एव लक्ष्यते तस्य च कृष्णादिलेश्योदयः पूर्वभवायुषि अन्तर्मुहूर्त्तावशेषशायुष्के एव वर्त्तमानस्य भवति, तथा चोक्तम्“अन्तमुहुत्तम्मि गए अन्तमुहुत्तम्मि सेसए चेव ।
119 11
लेस्साहि परिणयाहिं जीवा वच्चंति परलोयं ॥”
एवं देवेष्वपि भावनीयं, तथा लेश्याध्ययने नेरयिकादिषु कृष्णादिलेश्यानां जघन्योत्कृष्टा च स्थितिरियमुक्ता
11 4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org