SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३७ पदं-१६, उद्देशकः, द्वारं - लभ्यन्ते?, द्वादशमौहूर्तिकगत्युपपातविरहकालभावात्, उच्यते उत्तरवैक्रियापेक्षया, तथाहियद्यपि द्वादशमौहूर्तिको गत्युपपातविरहकालस्तथापितदानीमपिउत्तरवैक्रियारम्भिणः संभवन्ति, उत्तरवैक्रियारम्भे च भवधारणीयं वैक्रियमिश्र, तद्वलेनोत्तरवैक्रियारम्भात्, भवधारणीयप्रवेशे चोत्तरवैक्रिय मिश्र, उत्तरवैक्रियबलेन भवधारणीयेप्रवेशात्, ततएवमुत्तरवैक्रियापेक्षया भवधारणीयोत्तरवैक्रियमिश्रणसम्भवात् तदानीपमपि वैक्रियशरीरमिश्रकायप्रयोगिणो नैरयिका लभ्यन्ते, कार्मणशरीरकायप्रयोगी च नैरयिकः कदाचिदेकोऽपि न लभ्यते, द्वादशमौहूर्तिकगत्युपपातविरहकालभावात्, यदापि लभ्यते तदापि जघन्यत एको द्वौ वा उत्कर्षतोऽसङ्ख्येयाः, ततो यदाएकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा प्रथमो भङ्गो यदापुनरेकस्तदा द्वितीयोयदा बहवस्तदा तृतीय इति, अत एव त्रयो भङ्गाः भवनपतिव्यन्तरज्योतिष्कवैमानिकेषु भावनीयाः, ___पृथिव्यप्तेजोवायुवनस्पतिषुऔदारिकशरीरकायप्रयोगिणोऽपि औदारिकमिश्रशरीरकायप्रयोगिणोऽपिकार्मणशरीरकायप्रयोगिणोऽपि सदाबहवएव लभ्यन्ते इति पदत्रयबहुवचनात्मकः प्रत्येकमेकएव भङ्गः, वायुकायिकेष्वौदारिकद्विकवैक्रियद्विककार्मणशरीरलक्षणपदपञ्चकबहुवचनात्मक एको भङ्गः, तेषु वैक्रियशरीरिणां वैक्रियमिश्रशरीरिणांच सदैव बहुत्वेन लभ्यमानत्वात्, द्वीन्द्रियेषु यद्यप्यान्तर्मुहूर्तिक उपपातविरहकालस्तथाप्युपपातविरहकालोऽन्तर्मुहूर्त लघु औदारिकमिश्रगतमन्तर्मुहूर्तमतिबृहत्प्रमाणमत औदारिकमिश्रशरीरकायप्रयोगिणोऽपितेषुसदैव लभ्यन्ते, कार्मणशरीरकायप्रयोगीतुकदाचिदेको पिन लभ्यते, आन्तर्मुहूर्तिकोपपातविरहकालभावात्, यदापि लभ्यते तदापि जघन्यत एको द्वौ वा उत्कर्षतोऽसङ्खयेयाः, ततो यदा एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा प्रथमो भङ्गः, यदा पुनरेकः कार्मणशरीरी लभ्यते तदा द्वितीयः, यदा बहवस्तदा तृतीय इति, एवं त्रिचतुरिन्द्रियेष्वपि भावनीयं, __'पंचिंदियतिरिक्खजोणिया जहा नेरइया' इत्यादि, पञ्चेन्द्रियतिर्यग्योनिका यथा नैरयिकास्तथा वक्तव्याः, नवरंवैक्रियमिश्रवैक्रियशरीरकायप्रयोगिस्थाने औदारिकऔदारिकमिश्रशरीरकायप्रयोगिणो वक्तव्याः, किमुक्तं भवति ?-सत्यमनःप्रयोगिणोऽपीत्यादि तावद्वक्तव्यं यावदसत्यामृषावाग्योनिनोऽपिततऔदारिकशरीरकायप्रयोगिणोऽपिऔदारिकमिश्रशरीरकायप्रयोगिणोऽपीति वक्तव्यं, एतानि दशपदानि बहुवचनेन सदाऽवस्तितानि, यद्यपिच तिर्यक्पञ्चेन्द्रियणामप्युपपातविरहकाल आन्तर्मुहूर्तिकस्तथाऽप्युपपातविरहकालान्तर्मुहूर्त लघु औदारिकमिश्रान्तर्मुहूर्तमतिबृहदित्यत्राप्यौदारिकमिश्रशरीरकायप्रयोगिणः सदा लभ्यन्ते, यस्तु द्वादशमौहूर्तिक उपपातविरहकालः सगर्भव्युत्त्कान्तिकपञ्चेन्द्रियतिरश्चांन सामान्यपञ्चेन्द्रियतिरश्वामिति, कार्मणशरीरकायप्रयोगी तु तेष्वपि कदाचिदेकोऽपि न लभ्यते, आन्तर्मुहूर्तिकोपपातविरहकालभावात्, ततो यदा एकोपि कार्मणशरीर न लभ्यते तदा प्रथमो भङ्गः यदा पुनरेको लभ्यते तदा द्वितीयः यदा बहवस्तदा तृतीयः, मनुष्येषुमनश्चतुष्टयावाक्चतुष्टयौदारिकवैक्रियद्विकरूपाण्येकादशपदानि सदैव बहुवचनेन लभ्यन्ते, वैक्रियमिश्रशरीरिणः कथं सदैव लभ्यन्ते इति चेत् ? उच्यते, विद्याधराद्यपेक्षया, तथाहि-विद्याधरा अन्येऽपि केचिन्मिथ्यादृष्टायदयो वैक्रियलब्धिसम्पन्नाः अन्यान्यभावेन सदैव विकुर्वणायां लभ्यन्ते, आह च मूलटीकाकारः- “मनुष्या वैक्रियमिश्रशरीरप्रयोगिणः, सदैव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy