________________
पदं- ३६, उद्देशकः-, द्वारं -
द्रष्टव्यं, षट्सु मासेषु कदाचिदपान्तराले वर्षाकालसम्भवात् तन्निमित्तं पीठफलकादीनामादानमप्युपपद्येत्, न च तत्सूत्रसम्मतमिति तत्प्ररूपणमुत्सूत्रमवसेयं, एतच्चोत्सूत्रं आवश्यकेऽपि समुद्घातानन्तरमव्यवधातेन शैलेश्यभिधानात्, (यतः) तत्सूत्रं
119 11
" दण्डकवाडे मंथंतरे य साहारणा सरीरत्थे । भासाजोगनिरोहे सेलेसी सिज्झणा चेव ।।"
यदि पुनरुत्कर्षतः षण्मासरूपमपान्तरालं भवेत्ततस्तदप्यभिधीयेत, न चोक्तं, तस्मादेव अयुक्तमेतदिति, तथा चाह भाष्यकारः
119 11
"कम्मलहुयाए समओ भिन्नमुहुत्तावसेसओ कालो । अत्रे जहन्नमेयं छम्मासुक्कोसमिच्छंति ॥ तत्तोऽनंतरसेलेसीवयणओ जं च पाडिहारीणं । पञ्चप्पणमेव सुए इहरा गहणंपि होजाहि ।।"
अत्र कर्म्मलघुतानिमित्तं समुद्घातस्य समयः - अवसरो भिन्नमुहूर्तावशेषकालः, शेषं सुगमं, तदेवमन्तर्मुहूर्तकालं यथायोगं योगत्रयव्यापारभाक् केवली भूत्वा तदनन्तरमत्यन्ताप्रकम्पं लेश्यातीतं परमनिर्जराकारणं ध्यानं प्रतिपित्सुरवश्यं योगनिरोधायोपक्रमते, योगे सति यथोक्तरूपस्य ध्यानस्यासम्भवात्, तथाहि-योगपरिणामो लेश्या, तदन्वयव्यतिरेकानुविधानात्, ततो यावद्योगस्तावदवश्यंभाविनी लेश्येति न लेश्यातीतध्यानसम्भवः, अपिच- यावद्योगस्तावत्कर्मबन्धोऽपि,
॥२॥
'जोगा पयडिपएसं ठिइअनुभागं कसायओ कुणइ' इति वचनात्, केवलं स कर्म्मबन्धः केवलयोगनिमित्तत्वात् समयत्रयावस्थायी; तथाहि - प्रथमसमये कर्म बध्यते, द्वितीयसमये वेद्यते, तृतीये तु समये तत्कर्माकर्मीभवति, तत्र यद्यपि समयद्वयरूपस्थितिकानि कर्माणि क्रियन्ते, पूर्वाणि २ कर्माणि प्रलयमुपगच्छन्ति, तथापि समये समये सन्तत्या कर्मादाने प्रवर्त्तमाने सति न मोक्षः स्याद्, अथ चावश्यं मोक्षं गन्तव्यं तस्मात् कुरुते स योगनिरोधमिति, उक्तं च“स ततो योगनिरोधं करोति लेश्यानिरोधमभिकाङ्क्षन् । समयस्थितिं च बन्धं योगनिमित्तं स निरुरुत्सुः ।। समये समये कर्मादाने सति सन्ततेर्न मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि ॥ नाकर्मणो हि वीर्यं योगद्रव्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितेर्बन्धः ॥”
119 11
॥२॥
३१५
॥३॥
अत्र बन्धस्य समयमात्रस्थितिकता बन्धसमयतिरिच्य वेदितव्या, भाष्यमप्येनं पूर्वोक्तं
सकलमपि प्रमेयं पुष्णाति तथा च तद्वतो ग्रन्थः
|| 9 ||
॥२॥
“विणिवित्तसमुग्घाओ तिन्निवि जोगे जिनो पउंजिज्जा । सच्चमसच्चामोसं च सोमणं तह वईजोगं ॥ ओरालियकाययोगं गमणाई पाडिहारियाणं वा । पञ्चप्पणं करेज्जा जोगनिरोहं तओ कुणइ ॥ किन्न सयोगो सिज्झइ ? स बंधहेउत्ति जं सजोगोऽयं ।
For Private & Personal Use Only
॥३॥
Jain Education International
www.jainelibrary.org