SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३१४ प्रज्ञापनाउपाङ्गसूत्रम् - २ - ३६/-/-/६२० सव्वदुक्खाणं अंतं करेति ?, गो० ! नो इणट्टे समट्ठे, से णं भततो पडिनियत्तति पडिनियतित्ता ततो पच्छा मनजोगंपि जुंजति वइजोगंपजुंजइ कायजोगंपि जुंजति, मनजोगं जुंजमाणे किं सचमणजोगं जुंजति मोसमणजोगं जुंजति सच्चामोसमणजोगं जुंजति असच्चामोसमणजोगं जुंजति ?, गो० ! सच्चमणजो-नो मोसमणजो० नो सच्चामोसमणजोगं जुंजति असच्चामोसमणजोगं जुंजति, वतिजोगं जुंजमाणे कं सच्चवइजोगं जुंजति मोसवइजोगं जुं० सच्चामोसवइजोगं असच्चामोसवइजो० ?, गो० ! सच्चवतिजो० नो मोसवइजो० नो सच्चामोसवतिजो० असच्चामोसवइजोगंपि जुंजति, कायजोगं जुंजमाणे आगच्छेज्जा वा गच्छेज्जा वा चिट्ठेज्जा वा निसीएज्ज वा तुयट्टेज वा उल्लंघेज्ज वा पलंघेज्ज वा पडिहारियं पीढफलगसेज्जासंधारगं पञ्चष्पिणेज्जा । वृ. 'से णं भंते!' इत्यादि, स भदन्त ! केवली तथा दण्डकपाटादिक्रमेण समुद्घातं गतःसन् सिद्धति निष्ठितार्थो भवति ?, स च ' वर्त्तमानसामीप्ये वर्त्तमानवद्वे' ति वचनात् सेत्स्यन्नपि व्यवहारत उच्यते, तत आह-बुध्यते - अवगच्छति केवलज्ञानेन यथाऽहं निश्चयतो निष्ठितार्थो भविष्यामि निःशेषकर्मांशापगमतः तत आह-मुच्यतेऽशेषकर्माशैरिति गम्यते, मुच्यमानश्च कर्माणुवेदनापरितापरहितो भवति तत आह-परिनिर्वाति-सामस्त्येन शीतीभवति, समस्तमेतदेकेन पर्यायेण स्पष्टयति-सर्वदुःखानामन्तं करोतिती, भगवानाह - गौतम ! नायमर्थः समर्थो - नायमर्थः सङ्गतो यः समुद्घातं गतः सर्वदुःखानामन्तं करोतीति, योगनिरोधस्याद्याप्यकृतत्वात्, सयोगस्य च वक्ष्यमाणयुक्त्या सिध्यभावादिति भावः, ततः किं करोतीत्यत आह '' मित्यादि, सः - अधिकृकतसमुद्घातगतः णमिति वाक्यालङ्कारे ततः समुद्घातात् प्रतिनिवर्त्तते, प्रतिनिवत्त्य च ततः - प्रतिनिवर्त्तनात् पश्चादनन्तरं मनोयोगमपि वाग्योगमपि काययोगमपि युनक्ति - व्यापारयति यतः स भगवान् भवधारणीयकर्मसु नामगोत्रवेदनीयेष्वचिन्त्यमाहात्म्यसमुद्घातवशतः प्रभूतेष्वायुषा सह समीकृतेष्वप्यन्तर्मुहूर्त्तभाविपरमपदत्वतस्तस्मिन् काले यद्यनुत्तरोपपातिकादिना देवेन मनसा पृच्छयते तर्हि व्याकरणाय मनःपुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यमसत्यामृषारूपं वा, मनुष्यादिना पृष्टः सन्नपृष्टो वा कार्यवशतो वाक्पुद्गलान् गृहीत्वा वाग्योगं तमपि सत्यमसत्यामृषा वा, न शेषान् वाग्मनसोर्योगान्, क्षीणरागादित्वात्, आगमनादौ चौदारिकादिकाययोगं, तथाहि भगवान् कार्यवशतः कुतश्चित् स्थानात् विवक्षिते स्थाने आगच्छेत्, यदिवा क्वापि गच्छेत्, अथवा तिष्ठेत् ऊर्ध्वस्थानेन वाऽवतिष्ठेत् निषीदेद्वा तथाविधश्रमापगमाय त्वग्वर्त्तनं वा कुर्यात्, अथवा विवक्षिते स्थाने तथाविधसम्पातिमसत्त्वाकुलां भूमिवलोक्य तत्परिहाराय जन्तुराक्षानिमित्तमुल्लङ्घनं प्रलङ्घनं वा कुर्यात्, तत्र सहजात् पादविक्षेपान्मनागधिकतरः पादविक्षेपः उल्लङ्घनं स एवातिविकटः प्रलङ्घनं, यदिवा प्रातिहारिकं पीठफलकशय्यासंस्तारकं प्रत्यर्पयेत्, यस्मादानीतं तस्मै समर्पयेत्, इह भगवता आर्यश्यामेन प्रातिहारिकपीठफलकादीनां प्रत्यर्पणमेवोक्तं ततोऽवसीयते नियमादन्तर्मुहूर्त्तावशेषायुष्क एवावर्जीकरणादिकमारभते, न प्रभूतावशेषायुष्कः, अन्यथा ग्रहणस्यापि सम्भवात्तदप्युपादीयेत, एतेन यदाहुरेके 'जघन्यतोऽन्तर्मुहूर्ते शेषे समुद्घातमारभते उत्कर्षतः षट्सु मासेषु शषेव्वि' ति तदपास्तं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy