________________
पदं- ३६, उद्देशक:-, द्वारं -
३०१
इति वाक्यशेषः, तत एतावता उत्कर्षतः त्रिसमयप्रमाणस्य कालस्य सम्बन्धि यशोक्तप्रमाणं क्षेत्रं वेदनाजननयोग्यैः पुद्गलैरापूर्णतावता कालस्य सम्बन्धि स्पृष्टमिति ।
सम्प्रति यावन्तं कालं वेदनाजननयोग्यान् पुद्गलान् विक्षिपति तावत्कालप्रमामं प्रतिपादनार्थमाह-'ते णं भंते !' इत्यादि, तान् वेदनाजननयोग्यान् पुद्गलान् णमिति वाक्यालङ्कारे भदन्त ! परमकल्याणयोगिन् पररमसुखयोगिन् वा पुद्गलान् कियतः कालस्य सम्बन्धिनो विक्षिपति कियत्कालं वेदनाजननयोग्यान् विक्षिपतीति भावः, भगवानाह - जघन्येनाप्यन्तर्मुहूर्तस्य सम्बन्धिन उत्कर्षतोऽप्यन्तर्मुहूर्त्तस्य, केवलं मनाक् बृहत्तरस्य सम्बन्धिनः विक्षिपति, किमुक्तं भवति ? - ये पुद्गला जघन्यत उत्कर्षतश्चान्तर्मुहूर्तं यावत् वेदनाजननसमर्थाः तान् तथा २ वेदनार्त्तः सन् स्वशरीरगतान् स्वशरीराद्वहिरात्मप्रदेशेभ्योऽपि विष्लिष्टान् विक्षिपति, यथाऽत्यन्तदाहज्वरपीडितः सन् सूक्ष्मपुद्गलान्, प्रत्यक्षसिद्धं चैतदिति,
'ते णं भंते!' इत्यादि, ते णमिति पूर्ववत् भदन्त ! पुद्गला विक्षिप्ताः सन्तः शरीरसम्बद्धा असम्बद्धा वा ‘जाई तत्थे’त्यादि प्राकृतत्वात् पुंस्त्वेऽपि नपुंसकता यान् तत्र वेदनासमुद्घातगतपुरुषसंस्पृष्टे क्षेत्रे प्राणान् -द्वित्रिचतुरिन्द्रियान् शङ्खकीटिकामक्षिकादीन् भूतान् - वनस्पतीन् जीवान्-पञ्चेन्द्रियान् गृहगोधिकासर्पादीन् सत्त्वान् शेषपृथिवीकायिकादीन् अभिध्नन्तिअभिमुखमागच्छन्तो घ्नन्ति वर्त्तयन्ति - आवर्त्तपतितान् कुर्वन्ति लेशयन्ति - मनाक् स्पृशन्ति सङ्घातयन्ति-परस्परं तान् सङ्घातमापन्नान् कुर्वन्ति - अतीव सङ्घातविशेषमाषादितान् कुर्वन्ति परितापयन्ति - पीडयन्ति क्लमयन्ति मूर्च्छापन्नान् कुर्वन्ति अपद्रावयन्ति - जीवितात् व्यपोरपयन्ति, तेभ्यः पुद्गलेभ्यः तेषां प्राणादीनां विषये भदन्त ! सः - अधिकृतो वेदनासमुद्घातगतो जीवः कतिक्रियः प्रज्ञप्तः ?, भगवानाह -
गौतम ! 'सिय तिकिरिए' इति, स्यात्शब्दः कथञ्चित्पर्यायः, कथञ्चित् कदाचित् कांश्चिच्च जीवानधिकृत्येत्यर्थः त्रिक्रियः, किमुक्तं भवति ? - यदा न केषाञ्चित् सर्वथा परितापनं जीविताद् व्यपरोपणं वा करोति तदा सर्वथा त्रिक्रिया एव, यदाषि केषाञ्चित्वरितापं मरणं वाऽऽपादयति तदापि येषां नावाधामुत्पादयति तदपेक्षया त्रिक्रियाः, 'सिय चउकिरिए' इति केषाञ्चित्परितापकरणे तदपेक्षया चतुष्क्रिय इति केषाञ्चिदपद्रावणे तदपेक्षया पञ्चक्रिया इति, सम्प्रति तमेवाधिकृतं वेदनासमुद्घातगतं जीवमधिकृत्य तेषां वेदनासमुद्घातगतपुरुषपुद्गलस्पृष्टानां जीवानां क्रिया निरूपयति
'ते णं भंते!' इत्यादि, ते-वेदनासमुद्घातगतपुद्गलस्पृष्टा णमिति पूर्ववत् भदन्त ! जीवास्ततो- वेदनासमुद्घातपरिगतान् जीवान् अत्र 'स्थानियपः कर्माधारयोः' इति स्थानिनं यवमधिकृत्य पञ्चमीयं, अयमर्थः - तं वेदनासमुद्घातपरिगतं जीवमधिकृत्य कतिक्रियाः प्रज्ञप्ताः ?, भगवानाह -गौतम ! स्यात्त्रिक्रियाः यदा न काञ्चित्तस्याबाधामाषादयितुं प्रभविष्णवः स्याच्चतुष्क्रिया यदा तं परितापयन्ति, दृश्यन्ते शरीरेण स्पृश्यमानाः परितापयन्तो वृश्चिकादयः, स्यात् पञ्चक्रियाः ये तं जीवितादपि व्यपरोपयन्ति, सिद्धाश्च प्रत्यक्षतः शरीरेण स्पृश्यमाना जीविताव्यावयन्तः सर्पादय इति, सम्प्रति तेन वेदनासमुद्घातगतेन जीवेन व्यापाद्यमानैर्जीवैर्येऽन्ये जीवा व्यापाद्यन्ते ये चान्यैर्जी वैव्यापाद्यमान् वेदनासमुद्घातगतेन जीवेन व्यापाद्यन्ते तानधिकृत्य तस्य वेदनासमुद्घातपरिगतस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org