SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ३०० प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-1-/६१२ असुरकुमारस्स जहा जीवपदे, नवरं विग्गहो तिसमइओ जहा नेरइयस्स, सेसं तं चेव जहा असुरकुमारे, एवं जाव वेमाणिते, नवरं एगिदिये जहा जीवे निरवसेसं। वृ. 'जीवे णं भंते !' इत्यादि, जीवो णमिति वाक्यालङ्कारे-वेदनासमुद्घाते वर्तमानः तस्मिन् समवहतो भवति समवहत्य च यान् पुद्गलान् वेदनायोग्यान् स्वशरीरान्तर्गतान् 'निच्छुभइ'इति विक्षिपति आत्मविश्लिष्टान् करोतीत्यर्थः, 'तेहि णमिति तैः पुद्गलैः कियत् क्षेत्रमापूर्णं, आपूर्णत्वमान्तरालेकियदाकाशप्रदेशासंस्पर्शनेऽपिव्यवहारत उच्यतेतत आह-कियत् क्षेत्रं स्पृष्टं-प्रतिप्रदेशापूरणेन व्याप्तं, एवं गौतमेन प्रश्ने कृते सति भगवानाह– 'सरीरे'त्यादि नियमात्-नियमेन 'छद्दिसिंति षड् दिशो यत्रापूरणे स्पर्शने वा षड्दिक् तद्यथा भवति एवं विष्कम्भतो-विस्तरेण बाहल्यतः-पिण्डतःशरीरप्रमाणमात्रं,यावप्रमाणः स्वशरीरस्य विष्कम्भो यावप्रमाणंच बाहल्यं एतावन्मात्रमापूर्ण स्पृष्टं चेति वाक्यशेषः, तदेव निगमनद्वारेणाह___“एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' इति, इह वेदनासमुद्घातो वेदनातिशयात्, वेदनातिशयश्चलोकनिष्कुटेषुजीवानांनभवति, निरुपद्रवस्थानवतित्वात्तेषां, किन्तुत्रसनाड्या अन्तः, तत्र परोदीरणसम्भवात्, तत्र च षड्दिक्सम्भव इति नियमाच्छद्दिशिमित्युक्तं, अन्यथा 'सियतिदिसिंसियचउदिसिंसियपंचदिसिमित्याधुच्येत, अथ स्वशरीरप्रमाणविष्कम्भबाहल्यमेव क्षेत्रमापूर्ण स्पृष्टं च विग्रहगतौ जीवस्य गतिमधिकृत्य कियडूरं यावद्भवति कियन्तं च कालमित्येतन्निरूपणार्थमाह___से णं भंते !' इत्यादि, नपुंसकत्वे पुंस्त्वं प्राकृतत्वात्, तत्-अनन्तरोक्तप्रमाणं णमिति प्राग्वत् भदन्त ! क्षेत्रं कालस्स इति-प्राकृतत्वात् तृतीयार्थे षष्ठी कियता कालेन पूर्णं कियता कालेन स्पृष्टं, किमुक्तं भवति?- कियन्तं कालं यावत् स्वशरीरप्रमाणविष्कम्भाबाहल्यं क्षेत्रं निरन्तरं विग्रहगतौ जीवस्य गतिमधिकृत्यापूर्ण स्पृष्टं च लभ्यते इति ?, भगवानाह-गौतम ! एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण, किमुक्तं भवति?-एकसमयेन वाद्विसमयेन वा त्रिसमयेन वा विग्रहेण यावन्मानं क्षेत्रं व्याप्यते इयडूरं यावत् स्वशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्र वेदनाजननयोग्यैः पुद्गलैरापूर्णं-भृतंजीवस्य गतिमधिकृत्यावाप्यते, तत एतद्गतमुत्कर्षतस्त्रिसामयिकेन विग्रहेण यावन्मात्रं क्षेत्रमभिव्याप्यते एतावदात्मविश्लिष्टैर्वेदनाजननयोग्यैः पुद्गलैरापूर्ण लभ्यते, इह चतुःसामयिकः पञ्चसामयिकश्च विग्रहो यद्यपि सम्भवति तथापि वेदनासमुद्घातःप्रायः परोदीरितवेदनावशत उपजायते, परोदीरिताचवेदनात्रसनाड्यांव्यवस्थितस्य न बहिः, त्रनसाडीव्यवस्थितस्य च विग्रह उत्कर्षतोऽपि त्रिसामयिक इति उत्कर्षतोऽपि त्रिसामयिकेन विग्रहेणेत्युक्तं, न चतुःसामयिकेन पञ्चसामयिकेन चेति, उपसंहारवाक्यमाह __“एवइयकालस्स अफुण्णे एवइयकालस्स फुडे' एतावता उत्कर्षतोऽपि त्रिसमयप्रमाणेनेत्यर्थः कालेनापूर्णमेतावता कालेन स्पृष्टं, किमुक्तं भवति?-विग्रहगतावुत्कर्षतःत्रीन्समयान् यावत् त्रिभिश्च समयैर्यावन्मानं व्याप्यते इयन्ती सीमाभिव्याप्य स्वशरीरप्रमाणविष्कम्भहबाहल्यं क्षेत्र वेदनाजननयोग्यैः पुद्गलैरापूर्णं भृतं च जीवस्य गतिमधिकृत्य व्याप्यते, अथवा 'केवइय कालस्स'त्ति षष्ठयेव व्याख्येया, ततः स्वशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्रं वेदनाजननयोग्यैः पुद्गलैरापूर्णं भृतं च जीवस्य विग्रहगतिमधिकृत्य कियतः कालस्य सम्बन्धि, कियन्तंकालं यावदवाप्यते इत्यर्थः, भगवानाह-एकसमयेन द्विसमयेन त्रिसमयेन वा विग्रहेणापूर्णं स्पृष्टं च लभ्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy