SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २९६ प्रज्ञापनाउपाङ्गसूत्रम् - २ - ३६/-// ६०९ तथा व्यन्तरेष्वपि वक्तव्यं, किमुक्तं भवति ? - पुरस्कृतचिन्तायमेवं वक्तव्यं-'कस्सइ अस्थि क० नत्थि, जस्स अत्थि सिय संखेज्जा सिय असं० सिय अनंता' इति, नत्वेकोत्तरिका वक्तव्या, व्यन्तराणामप्यसुरकुमाराणामवि जघन्यस्थितावपि सङ्घयेयानां लोभसमुद्घातानां भावात्, 'जोइसियत्ते' इत्यादि, ज्योतिष्कत्वे अतीता अनन्ताः, अनन्तशोज्योतिष्कत्वस्य प्राप्तत्वात्, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति एतत् प्राग्वद् भावनीयं, यस्यापि सन्ति तस्यापि कस्यचिदसङ्घयेयाः कस्यचिदनन्ताः, न तु जातुचित् सङ्घयेयाः, ज्योतिष्काणां जघन्यपदेऽप्यसङ्घयेयवर्षायुष्कतया जघन्यतोऽप्यसङ्घयेयानां लोभसमुद्घातानां भावात्, लोभबहुलत्वात्तज्जातेः, एवं वैमानिकत्वेऽपि पुरस्कृतचिन्तायां वक्तव्यं । तदेवं स्वस्थाने परस्थाने च लोभसमुद्घातश्चिन्तितः, सम्प्रत्यसुरकुमारस्य तं चिचिन्तयिषुरिदमाह 'एगमेगस्स ण' मित्यादि, एकैकस्य असुरकुमारस्य नैरयिकत्वे लोभसमुद्घाता अतीता अनन्ताः, नैरयिकत्वस्यानन्तशः प्राप्तत्वात्, पुरस्कृताः कस्यचित् सन्ति कस्यचिन्न सन्ति, तत्र योऽसुरकुमारभवादुद्वृत्तो न नरकं याता नापि सकृद् गतोऽपि लोभसमुद्घातं गन्ता तस्य न सन्ति, यस्तु यास्यति तस्य जघन्यत एको द्वौ त्रयो वा उत्कर्षतः सङ्घयेया असङ्घयेया अनन्ताः, तत्र सकृन्नरकगामिनः एकादयो नैरयिकाणामिष्टद्रव्यसंयोगाभावतः प्रायो लोभसमुद्घातस्यासम्भवात्, उक्तं च मूलटीकायाम् "नेरइयाणं लोभसमुग्धाया थोवा चैव भवन्ति, तेसिमिट्ठदव्वसंजोगाभावातो एगादिसंभव” इति, सङ्घयेयान् वारान् नरकं गन्तुः सङ्घयेयाः असङ्घयेयान् वारान् असङ्घयेया अनन्तान् वारान् अनन्ताः, असुरकुमारस्यासुरकुमारत्वे अतीता अनन्ताः सुप्रतीताः, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति तत्र योऽसुरकुमारभवे पर्यन्तवर्त्ती न च लोभसमुद्घातं याता नापि तत उद्वृ त्तो भूयोऽप्यसुरकुमारत्वं याता किन्त्वनन्तरं पारम्पर्येण वा सेत्स्यति न सन्ति, यस्य तु सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः सङ्घयेया असङ्घयेया अनन्ताः, तत्र एकादयः क्षीणायुः शेषाणां तद्भवभाजां भूयस्तथैवानुत्पद्यमानानामवगन्तव्याः, सङ्घयेयादयो नैरयिकस्येव भावनीयाः, असुरकुमारस्य नागकुमारत्वेऽतीताः प्राग्वत्, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति, तत्र योऽसुरकुमारभवादुवृ त्तो न नागकुमारभवं गन्ता तस्य न सन्ति, शेषस्य तु सन्ति, यस्यापि सन्ति तस्यापि स्यात् सङ्घयेयाः स्यादसङ्घयेयाः स्यादनन्ताः, तत्र सकृन्नागकुमारभवं प्राप्तुकामस्य सङ्खयेयाः, जघन्यस्थितावपि सङ्घयेयानां लोभसमुद्घातानां भावात्, असङ्घयेयान् वारान् प्राप्तुकामस्य असङ्घयेयाः अनन्तान् वारान् अनन्ताः, एवं यावत् स्तनितकुमारत्वे, पृथिवीकायिकत्वे यावद्वैमानिक त्वे यथा नैरयिकस्य भणितं तथैव भणितव्यं, एवमसुरकुमारस्येव नागकुमारादेरपि तावद्वक्तव्यं यावत्स्तनितकुमारस्य वैमानिकत्वे - वैमानिकत्वविषयं सूत्रं तच्चैवं- 'एगमेगस्स णं भंते! धणियकुमारस्य वेमाणियत्ते केवइया लोभसमुग्धाया अतीता ?' इत्यादि, एवं - 'एगमेगस्स णं भंते ! पुढविकाइयस्स नेरइयत्ते' इत्याद्यपि सूत्रं पूर्वोक्तभावनानुसारेण स्वयं भावनीयं तदेवं नैरयिकादेरेकत्वविषयाः क्रोधादिसमुद्घाताः प्रत्येकं चतुर्विंशत्या चतुर्विंशतिदण्डकसूत्रैर्विचिन्तिताः, सम्प्रति तानेव नैरयिकादिबहुत्वविषयान् चिचिन्तयिषुरिदमाह - 'नेरइयाणं भंते' इत्यादि, नैरयिकाणां भदन्त ! नैरयिकत्वे कियन्तः क्रोधसमुद्घाता अतीताः ?, भगवानाह - गौतम ! अनन्ताः, अनन्तशो नैरयिकत्वस्य सर्वजीवैः प्राप्तत्वात्, कियन्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy