SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २९५ पदं-३६, उद्देशकः, द्वार वाणमंतरस्सजहाअसुरकुमारस्स एवंजोइसियवेमाणियाणंपि' अस्यामर्थः-नैरयिकस्य नैरयिकत्वे अतीतालोभसमुद्घाताअनन्ताः, अनन्तशोनैरयिकत्वस्य प्राप्तत्वात्, पुरस्कृतचिन्तायां कस्यचित् सन्ति कस्यचिन्न सन्ति, तत्र यः प्रश्नसमयादूर्द्ध लोभसमुद्घातमप्राप्त एव नरकभवादुवृत्त्यानन्तरंपारम्पर्येणवासेत्स्यतिनच भूयोनरकमागामीनचागतऽपिलोभसमुद्घातं गन्ता तस्य नेकौऽपिपुरस्कृतो लोभसमुद्घातः, शेषस्य तुभावी, तस्यापिकस्यचिदेकः कस्यचित् द्वौ कस्यचित्त्रयः, एतच्च प्रश्नसमयादूर्ध्वमपितद्भवभाजांसकृनारकभवगामिनांवावेदितव्यं, उत्कर्षतः सङ्ख्येया वा असङ्खयेया वा अनन्ता वा, तत्र सङ्ख्येयान् वारान् नरकभवमागामिनः सङ्ख्येयाः असङ्खयेयान् वारान् असङ्खयेयाः अनन्तान् वारान् अनन्ताः, तथा नैरयिकत्वस्यासुरकुमारत्वविषयेऽ तीतसूत्रं तथैव भावनीयं, पुरस्कृतसूत्रे 'कस्सइअस्थि क० नत्यि'त्तियो नरकभवादुद्वृत्तो नासुरकुमारत्वं प्राप्स्यति तस्य न सन्त्यसुरकुमारत्वविषयाः पुरस्कृताः लोभसमुद्घाताः, यस्तु प्राप्स्यति तस्य सन्ति, तेचजघन्यपदे सङ्ख्येयाः, जघन्यस्थितावप्यसुरकुमाराणां सङ्ख्येयानां लोभसमुद्घातानां भावात्, लोभबहुलत्वात् तेषां, उत्कृष्टपदेऽसङ्खयेया अनन्ता वा, तत्र सकृद्दीस्थितावसकृजधन्यस्थितिषु दीर्घस्थितिषु वा उत्पत्स्यमानानामवसेयं, अनन्तश उत्पत्स्यमानानामनन्ताः, एवं नैरयिकस्य नागकुमारत्वादिषु स्थानेषु निरन्तरं तावद्वक्तव्यं यावत्स्तनितकुमारत्वे, तथा चाह “एवंजावथणियकुमारत्ते' पृथिवीकायिकत्वेऽतीतसूत्रंतथैव, पुरस्कृतचिन्तायांतुकस्यापि सन्ति कस्यापि न सन्ति, तत्र नरकादुवृत्तो यो न पृथिवीकायिकत्वं प्राप्स्यति तस्य न सन्ति, योऽपि गन्ता तस्य जघन्यपदे एको द्वौ वात्रयो वा उत्कर्षतः सङ्घयेया असङ्खयेया अनन्तावा, ते चैवम्-तिर्यक्पञ्चेन्द्रियभवात् मनुष्यभवाद्वा लोभसमुद्घातेन समुद्धतः सन् य एकं वारं पृथिवीं गन्ती तस्य एको द्वौ वारौ गन्तुर्की त्रीन्वारान् गन्तुस्त्रयः सङ्खयेयान्वारान् सङ्कयेयाः असङ्खयेयान् वारान् असङ्खयेयाः अनन्तान् वारान् अनन्ताः, “एवं जाव मणूसत्ते' इति एवं-पृथिवीकायिकगतेनाभिलापप्रकारेण तावद्वक्तव्यं यावन्मनुष्यत्वे, तच्चैवं 'एगमेगस्सणंभंते! नेरइयस्स आउकाइयत्ते' इत्यादि, यावन्मनुष्यसूत्रं, तत्राप्कायिकादिवनस्पतिपर्यन्तसूत्रभावना पृथिवीकायसूत्रवत्, द्वीन्द्रियसूत्रे पुरस्कृतचिन्तायां जघन्येन एको द्वौ वा त्रयो वेति एतत् सकृत् द्वीन्द्रियभवं प्राप्तुकामस्य वेदितव्यं, उत्कर्षेणं सङ्ख्येया असङ्ख्येया अनन्तावा, तत्र सङ्खयेयान्वारान्द्वीन्द्रियभवंप्राप्तुकामस्य सङ्खयेया असङ्खयेयान्वारान्असङ्ख्येयाः अनन्तान्वारान् अनन्ताः, एवं त्रीन्द्रियततुरिन्द्रियसूत्रे अपिभावनीये, तिर्यक्पञ्चेन्द्रियसूत्रविषया त्वेवं भावना-सकृत् पञ्चेन्द्रियभवं गन्तुकामस्य स्वभावत एवाल्पलोभस्य जघन्यतः एको द्वौ त्रयो वा, शेषस्य तूत्कर्षतः सङ्घयेयान् वारान् तिर्यक्चेन्द्रियभवं गन्तुः सङ्खयेयाः असङ्खयेयान् वारान्असङ्खयेयाः अनन्तान् वारान् अनन्ताः, मनुष्यसूत्रेतुपुरस्कृतविषयाभावनामूलतएवं-यो नरकभवादुवृत्तोऽल्पलोभकषायः सन्मनुष्यभवंप्राप्य लोभसमुद्घातमगत्वा सिद्धिपुरंयास्यति तस्य न सन्ति पुरस्कृता लोभसमुद्घाताः शेषस्य तु सन्ति, यस्य सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा, ते च एकं द्वौ त्रीन् वा लोभसमुद्घातान् प्राप्य सेत्स्यतो वदितव्याः, सङ्खयेयादयः प्राग्वद्भावनीयाः, 'वाणमंतरत्तेजहाअसुरकुमारा' इति यथानैरयिकस्यासुरकुमारत्वेपुरस्कृतविषयेसूत्रमुक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy