________________
पदं- ३६, उद्देशक:-, द्वारं
स्यादनन्ता इति वक्तव्यं, भावना प्राग्वत् ।
तदेवं नैरयिकस्य स्वस्थाने परस्थाने च कषायसमुद्घाताश्चिन्तिताः सम्प्रत्यसुरकुमारेसु तान् चिचिन्तयिषुराह - 'एगमेगस्स ण' मित्यादि, एकैकस्य असुरकुमारस्य नैरयिकत्वे कषायसमुद्घाता अतीता अनन्ताः, भावनिः “कस्यचित्सन्ति कस्यचिन्न सन्ति, तत्र योऽ सुरकुमारभवादुवृ त्तो नरकं न यास्तति तस्य न सन्ति, यस्तु यास्यति तस्य सन्ति, तस्यापि जघन्यतः सङ्घयेयाः, जघन्यस्थितावपि सङ्घयेयानां कषायसमुद्घातानां नरकेषु भावात्, उत्कर्षतोऽसङ्घयेया अनन्ता वा, तत्र जघन्यस्थितिष्वसकृद्दीर्घस्थितिषु सकृदसकृद्वा जिगमिषोरसङ्घयेया अनन्तशो जिगमिषोरनन्ताः, असुरकुमारस्यासुरकुमारत्वे अतीता अनन्ताः, 'पुरेक्खडा एगुत्तरिया' इत्यादि, पुरस्कृतास्तु कस्यापि सन्ति कस्यापि न सन्ति, तत्र योऽ सुरकुमारभवे पर्यन्तवर्त्ती न च कषायसमुद्घातं याता नापि तत्र प्रभ्रष्ट भूयोऽसुरकुमारभवं लब्धा किन्त्वनन्तरं पारम्पर्येण वा सेत्स्यति तस्य सन्ति, शेषस्य तु न सन्ति यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा उत्कर्षतः सङ्घयेया असङ्घयेया अनन्ता वा, तत्र एकादयः क्षीणायुः शेषाणां तद्भव भाजां भूयस्तत्रैवानुत्पत्स्यमानानामवगन्तव्याः, सङ्ख्येयादयो नैरयिकत्वे इव भावनीयाः,
'एव' मित्यादि, एवं - उक्तेन प्रकारेण नागकुमारत्वे तत ऊर्ध्वं चतुर्विंशतिदण्डकक्रमेण निरन्तरं यावद्वैमानिकत्वे - वैमानिकत्वविषयं सूत्रं यथा नैरयिकस्य भणितं तथैव भणितव्यं, किमुक्तं भवति ? – नागकुमारत्वादिषु स्तनिककुमारपर्यवसानेषु पुरस्कृतचिन्तायां 'कस्सइ अत्थि कस्सइ नत्थि, जस्स अत्थि सिय संखेज्जा सिय असंखेज्जा सिय अनंता' पृथिवीकायिकत्वादिषु मनुष्यत्वपर्यवसानेषु ‘जस्स अत्थि जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा अनंता वा' व्यन्तरत्वे 'जस्स अत्थि सिय संखेज्जा सिय असंखेज्जा सिय अनंता' ज्योतिष्कत्वे 'जस्स अत्थि सिय असंखेज्जा सिय अनंता' वैमानिकत्वेऽप्येवमेवेति वक्तव्यमिति,
२८१
'एवं जावे' त्यादि, एवं-उक्तेन प्रकारेण असुरकुमारवन्नागकुमारस्य यावत् स्तनितकुमारस्य प्रत्येकं यावद् वैमानिकत्वे - वैमानिकत्वविषयं सूत्रं तावद्वक्तव्यं, अत्रैव विशेषमाह - नवरं सर्वेषां नागकुमारादीनां स्तनिककुमारपर्यवसानानां स्वस्थाने नियमतः पुरस्कृता एकोत्तरिकाः परस्थाने यथैवासुरकुमारस्य तथैव वक्तव्याः,
'पुढविकाइयस्स नेरइयत्ते' इत्यादि, पृथिवीकायिकस्य नैरयिकत्वे यावत् स्तनिककुमारत्वे अतीता अनन्ताः, अत्र भावना प्रागिव, पुरस्कृताः कस्यापि सन्ति कस्यापि न सन्ति तत्र यः पृथिवीकायभवादुद्वृ त्तो नरकेष्वसुरकुमारेषु यावत् स्तनितकुमारेषु न गमिष्यति किन्तु मनुष्यभवं प्राप्य सिद्धिं गन्ता तस्य न सन्ति, शेषस्य तु सन्ति, यस्यापि सन्ति तस्यापि जघन्यतः सङ्ख्येयाः, जघन्यस्थितावपि नरकादिषु सङ्ख्येयानां कषायसमुद्घातानां भावात्, उत्कर्षतोऽसङ्घयेया अनन्ता वा, ते च प्राग्वद् भावयितव्याः, पृथिवीकायिकत्वे यावन्मनुष्यत्वेऽतीतास्ते तथैव, भाविन एकोत्तरिकया वक्तव्याः, ते चैवम्- 'कस्सइ अत्थि कस्सइ नत्थि, जस्स अत्थि जहन्नेणं एक्को वा दो वा तिण्णि वा उक्को सेणं संखेज्जा वा असंखेज्जा वा अनंता वा' ते च नैरयिकस्य पृथिवीकायिकत्व इव भावनीयाः,
'वाणमंतरत्ते जहा नेरइयत्ते' इति व्यन्तरत्वे यथा नैरयिकत्वे तथा वक्तव्यं, किमुक्तं भवति ? – एकोत्तरिका न वक्तव्याः, किन्तु 'सिय संखेज्जा सिय असंखेज्जा सिय अनंता' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org