SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् - २- ३६/-/-/६०४ कषायसमुद्घाताः, यस्तु प्राप्स्यति तस्य सन्ति, ते च जघन्यपदे सङ्ख्येया जघन्यस्थितावप्यसुरकुमाराणां सङ्घयेयानां कषायसमुद्घातानां भावात्, लोभादिकषायबहुलत्वात् तेषां, उत्कृष्टदेऽसङ्घयेया अनन्ता वा, तत्र सकृददीर्धस्थितावसकृज्जधन्यस्थितिषु वा उत्पत्स्यमानानामसङ्घयेयाः, अनन्तश उत्पत्स्यमानानामनन्ताः, एवं नैरयिकस्य नागकुमारत्वादिषु स्थानेषु निरन्तरं तावद्वक्तव्यं यावत् स्तनिककुमारत्वे, तथा चाह 'एवं जावे' त्यादि, पृथिवीकायिकत्वेऽतीतसूत्रं तथैव, पुरस्कृतचिन्तायां तु कस्यचित् सन्ति कस्यचिन्न सन्ति, तत् यो नरकादुवृत्तो न पृथिवीकायभवं गमी तस्य न सन्ति योऽपि गन्ता तस्यपि जघन्यपदे एको द्वौ वा त्रयो वा उत्कर्षतः सङ्घयेया असङ्घयेया वा अनन्ता वा, ते चैवं-तिर्यक्पञ्चेन्द्रियभवनान्मनुष्यभवाद्देवभवाद्वा कषायसमुद्घातसमुद्धतः सन् य एकवारं पृथिवीकायिकेषु गन्ता तस्य एको द्वौ वारौ गन्तुर्छौ त्रीन् वारान् त्रयः सङ्घयेयान वारान् सङ्घयेया असङ्ख्येयान् वारान् असङ्खेयाय अनन्तान् वारान् अनन्ताः, तथा चाह 'पुढविकाइयत्ते एगुत्तरियाए नेयव्वं 'ति तथा 'एवं ताव मणूसत्ते' इति एवं पृथिवीकायिकगतेनाभिलापप्रकारेण तावद् वक्तव्यं यावन्मनुष्यत्वे, तच्चैवम् -'एगमेगस्स णं भंते! नेरइयस्स आउकाइयत्ते केवइया कसायसमुग्धाया अईया ?, गोयमा ! अनंता, केवइया पुरेक्खडा ?, गो० ! कसइ अत्थि कस्सइ नत्थि, जस्सत्थि जहण्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं सतेजा वा असङ्खेजा वा अनंता वा' एवं यान्मनुष्यसूत्रं, तत्राप्याकायादिवनस्पतिपर्यन्तसूत्रभावना पृथिवीकायसूत्रवत्, द्वीन्द्रियसूत्रे पुरस्कृतचिन्तायां जघन्येन एको द्वौ वा त्रयो वेति सकृत् जघन्यस्थितिकं द्वीन्द्रियभवं प्राप्तुकामस्य, सङ्घयेयान् वारान् प्राप्तुकामस्य सङ्घयेया असङ्घयेयानसङ्घयेया अनन्तान् अनन्ताः, एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये, २८० तिर्यक्पञ्चेन्द्रियमनुष्यसूत्रविषया त्वेवं भावना - सकृत्पञ्चेन्द्रियभवं प्राप्तुकामस्य स्वभावत एवाल्पकषायस्य जघन्यत एको द्वौत्रयो वा शेषस्य सङ्घयेयान वारान् तिर्यक्पञ्चेन्द्रियभवं प्राप्तुकामस्य सङ्घयेया असङ्घयेयान् वारान् असङ्घयेया अनन्तान् वारान् अनन्ताः, मनुष्यसूत्रे तु पुरस्कृतविषया भावनैवं-यो नरकभावादुद्वृ त्तोऽल्पकषायः सन् मुष्यभवं प्राप्य कषायसमुद्घातमप्राप्त एव सिद्धिपुरं गन्ता तस्य न सन्ति, शेषस्य सन्ति, तस्यापि एकं द्वौ त्रीन् वारान् कषायसमुद्घातान् प्राप्यसेत्स्यत एको द्वौ त्रयो वा सङ्घयेयान् भवान् यदिवा एकस्मिन्नपि भवे सङ्घयेयान् कषायसमुद्घातान् गन्तुः सङ्ख्त्येया असङ्घयेयान् भवान् प्राप्तुकामस्यासङ्घयेयाः अनन्तान् अनन्ताः, 'वाणमंतरत्ते जहा असुरकुमारत्ते' प्रागुक्तं, किमुक्तं भवति ? - पुरस्कृतचिन्तायां एवं वक्तव्यं-'जस्सत्थि सिय सतेजा सिय असङ्ग्रेज्जा सिय अनंता वा' इति न त्वेकोत्तरिका वक्तव्याः, व्यन्तराणामप्यसुरकुमाराणामिव जघ न्यस्थितावपि सङ्घयेयानां कषायसमुद्घातानां लभ्यमानत्वात्, असङ्घयेयानन्तभावनाप्यसुरकुमारवत्, ‘जोइसियत्ते' इत्यादि, ज्योतिष्कत्वेऽतीता अनन्ता वक्तव्याः, पुरस्कृतास्तु कस्यापि सन्ति कस्यापि न सन्ति एतदपि प्राग्वद् भावनीय, यस्यापि सन्ति तस्यापि कस्यचिदसङ्घयेयाः कस्यचिदनन्ताः, न तु स्यात् सङ्घयेया इति वक्तव्यं, कुत इति चेत् ?, उच्यते, ज्योतिष्काणां जघन्यपदेऽप्यसङ्ख्यकालायुष्कतया जघन्यतोऽपि असतेयानां कषायसमुद्घातानां लभ्यमानत्वात्, अनन्तशस्तत्र जिगमिषूणामनन्ताः, एवं वैमानिकत्वेऽपि पुरस्कृतचचिन्तायां स्यादसङ्ख्येयाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003315
Book TitleAgam Suttani Satikam Part 11 Pragnapana
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages342
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy