________________
२३
पदं-१५, उद्देशकः-२, द्वार
चउरिदियाणं वंजणोग्गहे तिविधे पं० अत्थोग्गहे चउविधे पं०, सेसाणं जहा नेरइयाणं जाव वेमाणियाणं
वृ. 'कतिविहेणंभंते! इंदियअवाएपं०' इत्यादि, तत्रावग्रहज्ञानेनावगृहीतस्य ईहाज्ञानेन ईहितस्यार्थस्य निर्णयरूपो योऽध्यवसायः सोऽपायः, शाङ्ख एवायं शाङ्ग एव वायं इत्यादिरूपोऽवधारणात्मको निर्णयोऽवाय इतिभावः ।ईहा इति, 'ईह चेष्टायां' ईहनमीहा, सदूभूतार्थपर्यालोचनरूपाचेष्टा इत्यर्थः, किमुक्तं भवति?-अवग्रहादुत्तरकालमवायात्पूर्वंस तार्थविशेषोपादानाभमुखोऽसद्भूतार्थविशेषपरित्यागाभिमुखः प्रायोऽत्रमधुरत्वादयः शङ्खादिशब्दधा श्यन्ते नकर्कशनिष्ठुरतादयः शादिशब्दधा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्टकृत्"भूयाभूयविसेसादाणचा याभिमुहमीहा"।
दुविहे ओग्गहे पं०, तं०-वंजणोग्गहे यअत्थोग्गहे य' इति, भवग्रहो द्विविधः-अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्र अवग्रहणमवग्रहः अर्थस्यावग्रहोऽर्थावग्रहः, अनिर्देश्यसामान्यरूपाद्यर्थग्रहणमिति भावः, आहच नन्धध्ययनचूर्णिकृत्-“सामन्नस्सरूवाइविसेसणरहियस्स अनिद्देस्सस्समवग्गहणंअवग्गह" इति, तथाव्यज्यतेऽनेनार्थः प्रदीपेनेवघट इतिव्यञ्जनं, तच्च उपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां च यः परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः श्रोत्रादीन्द्रियेण व्यजितुं शक्यते नान्यथा ततः सम्बन्धो व्यञ्जनं, आह च भाष्यकृत्॥१॥ “वंजिज्जइ जेणत्यो घडोव्व दीवेण वंजणं तं च ।
उवगरनिंदियसद्दाइपरिणयद्दव्वसंबंधो॥" व्यञ्जनेन-सम्बन्धेनावग्रहणं-सम्बध्यमानस्य शब्दादिरूपस्यार्थस्याव्यक्तरीपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यन्तेइति व्यञ्जनानि कृबहुल मितिवचनात् कर्मण्यनट्, व्यञ्जनानांशब्दादिरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्राप्तानामवग्रहः-अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः,आह-प्रथमव्यञ्जनावग्रहो भवति ततोऽर्थावग्रहस्ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः?,उच्यते, स्पष्टतयोपलभ्यमानत्वात्, तथाहि-अर्थावग्रहः स्पष्टरूपतया सर्वैरपिजन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्तवरमुपलभ्यते, किञ्चिद्दष्टं न परिभावितंसम्यगितिव्यवहारदर्शनात्, अपिच अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनाग्रहस्तु नेति प्रथममर्थावग्रहः उक्तः
सम्प्रति व्यञ्जनावग्रहादूर्ध्वं - अर्थावग्रह इति कममाश्रित्य प्रथमं व्यअनावग्रहस्वरूपं प्रतिपिपादयिषुः प्रश्नं कारयति शिष्यं-'वंजणोग्गहे णं भंते ! कइविहे पं०' इत्यादि, इह व्यञ्जनमुपकरणेन्द्रियस्य शब्दादिपरिणत-द्रव्याणांच परस्परंसम्बन्धइत्युक्तंप्राक्, ततश्चतुर्णामेव श्रोत्रादीनाभिन्द्रियाणां व्यञ्जनवग्रहो न नयनमनसोः, तयोरप्राप्यकारित्वात्, साचाप्राप्यकारिता नन्धध्ययनटीकायांप्रदर्शितेतिनेह प्रदर्श्यते, अर्थावग्रहः षड्विधः, तद्यथा-'सोइंदियअत्थुग्गहे' इत्यादि, श्रोत्रेन्द्रियेणार्थावग्रहो व्यञ्जनावग्रहोत्तरकालमेकसामयिकमनिर्देश्यसामान्यमात्रार्थग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवंघ्राणजिह्वा स्पर्शनेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो नभवति, ततस्तयोः प्रथममेव स्वरूपद्रव्यगुणक्रियाकल्पनातीतमनिर्देश्यसामान्यमात्रस्वरूपार्थावग्रहणमर्थाव- ग्रहोऽवसेयः,
'नोइंदियअत्थावग्गहो' इति नोइन्द्रियं-मनः तच द्विधा-द्रव्यरूपं भावरूपं च, तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org