________________
२५१
पदं-३३, उद्देशकः-, द्वारंचरमंते, उवरिमगेविजगदेवाणं भंते! केवतियं खेत्तंओहिणा जा० पा०?, गो०!ज० अंगुलस्स असंखेजतिभागं उ० अधे सत्तमाह हे० च०तिरियं जाव असंखेज्जे दीवसमुद्दे उर्बुजाव सयाई विमाणाइं ओ० जा० पा०, अनुत्तरोववाइयदेवाणं भंते ! के खेत्तं ओ० जा० पा०?, गो०! संभिन्न लोगनालिं ओ० जा० पा०
वृ. 'नेरइया ण'मित्यादि सुगम, नवरं जघन्येनार्द्धगव्यूतमिति सप्तमपृथिव्यां जघन्यपदमपेक्ष्य, उत्कर्षतश्चत्वारि गव्यूतानि रत्नप्रभायामुत्कृष्टपदमाश्रित्य, अधुना प्रतिपृथिवीषयं चिन्तयन्नाह-‘रयणप्पभे'त्यादि, सुगम, जघन्यपदोत्कृष्टपदविषयसङ्गाहिके इमे गाथे
"अछुट्ट । तिन्नि अद्धाइयाई॥दोन्नि य दिवड्ड मेगं च ।
अद्धं च गाउ कमसो जहन्नतो रयणमाईसुं।
चत्तारि गाउयाइं अद्भुट्ठाई तिगाउयं चेव ।
अद्धाइजा दोन्नि दिवड्ड । मेगं च नरएसुं।॥२॥" भवनपतिव्यन्तराणां जघन्यपदे यानि पञ्चविंशतियोजनानि तानि येषां सर्वजघन्यं दशवर्षसहस्रप्रमाणमायुस्तेषां द्रष्टव्यानि, न शेषाणां, आह च भाष्यकृत्-'पणवीसजोयणाई दसवाससहस्सिया ठिई जेसि'मिति, मनुष्य चिन्तायामुत्कृष्टपदे यान्यलोके लोकप्रमाणमात्राणि खण्डानि असङ्खयेयानि तानि परमावधिमपेक्ष्य द्रष्टव्यानि, तस्यैवैतावद्विषयसम्भवात्, एतत्सामर्थ्यमात्रमुपवण्यते, यद्येतावति क्षेत्रे द्रष्टव्यं भवतितर्हि पश्यतियावतातन्त्र विद्यते, अलोके रूपिद्रव्याणासम्भवात्, रूपिद्रव्यविषयश्चावधिः,
केवलमयं विशेषो-यावदद्यापिपरिपूर्ण लोकं पश्यति तावदिह स्कन्धानेव पश्यति, यदा पुनरलोकेऽपिप्रसरमवधिरधिरोहति तदा यतायथाऽभिवृद्धिमासादयति तथा तथालोके सूक्ष्मान् सूक्षमतरान् स्कन्धान् पश्यति यावदन्ते परमाणुमपि, उक्तंच॥१॥ “सामत्थमेत्तमुत्तं दट्ठव्वं जइ हवेज्ज पेच्छज्जा ।
उतं तत्थत्थि जओ सो रूविनिबंधणो भणिओ। ॥२॥ वढतो पुन बाहिं लोगत्थं चेव पासई दव्वं ।
सुहुमयरं सुहुमयरं परमोही जाव परमाणुं॥" इत्थंभूतपरमावधिकलितश्च नियमादन्तर्मुहूर्तेन केवलालोकलक्ष्मीमालिङ्गति, यत उक्तं“परमोहीनाणविऊ केवलमंतोमुत्तमेत्तेणं" इति,
वैमानिकानां यज्जधन्यपदे अङ्गुलासङ्खयेयभागप्रमाणं क्षेत्रंउक्तंतत्र परआह-नन्वङ्गुलासङ्खयेयभागमात्रक्षेत्रपरिमितोऽवधिः सर्वजघन्यो भवति, सर्वजघन्यश्चावधिस्तिर्यग्मनुष्येष्वेव नशेषेषु, यत आह भाष्यकृत् स्वकृतटीकायाम्-"उत्कृष्टो मनुष्येष्वेव नान्येषु, मनुष्यतिर्यग्योनिष्वेव जघन्यो नान्येषु, शेषाणां मध्यम एवेति" तत्खथमिह सर्वजघन्य उक्तः ?, उच्यते, सौधर्मादिदेवानां पारभविकोऽप्युपपातकालेऽवधिः सम्भवति, स च कदाचित्सवेजघन्योऽपि, उपपातानन्तरंतुतद्मद्भजः, ततो न कश्चिद्दोषः,आहचदुष्ष,मान्धकारनिमग्नजिनप्रवचनप्रदीपो जिनभद्रगणिक्षमाश्रमणः॥१॥ “वेमाणियाणमंगुलभागमसंखं जहन्नओ होइ।
उववाए परभविओ तब्भवजो होइ तो पच्छा।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org